गजपुटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपुटः, पुं, (गजाह्वयः पुटः हस्तप्रमाणो गर्त्तः ।) औषधपाकार्थं हस्तपरिमितगर्त्तः । इति वैद्य- कम् ॥ अस्य प्रमाणं गजशब्दे द्रष्टव्यम् ॥ (लौह- मारणादावस्य प्रयोजनं यथा, -- “दशादिशतपर्म्यन्तो गजपुटविधिर्म्मतः ॥ इति वैद्यकभैषज्यधन्वन्तरिग्रन्थे जारणविध्य- धिकारे ॥ क्वचित् क्लीवलिङ्गत्वमपि दृश्यते । यथा, भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे । “सपादहस्तमानेन कुण्डे निम्ने यथायते । वनोपलसहस्रेण पूर्णो मध्ये विधारयेत् ॥ पुटनद्रव्यसंयुक्तां कोष्ठिकां मुद्रितां मुखे । अथार्द्धानि करण्डानि अर्द्धान्युपरि निःक्षिपेत् ॥ एतद्गजपुटं प्रोक्तं ख्यातं सर्व्वपुटोत्तमम् ॥ हस्तश्चतुर्व्विंशत्यङ्गुलप्रमाणः सपादस्तेन त्रिंश- दङ्गलप्रमाणेनेत्यर्थः । अतएवोक्तम् । साधारणनराङ्गुल्या त्रिंशदङ्गुलको गजः ॥” इति गजपुटम् ॥)

"https://sa.wiktionary.org/w/index.php?title=गजपुटः&oldid=130954" इत्यस्माद् प्रतिप्राप्तम्