गणिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणिका, स्त्री, (गणः लम्पटगणः उपपतित्वेना- स्त्यस्याः इति ठन् ।) वेश्या । (यथा, हरिवंशे । ८५ । ९ । “गणिकानां पृथङ्मञ्चाः शुभैरास्तरणाम्बरैः ॥”) यूथिका । इत्यमरः । २ । ६ । १९ ॥ गणि- कारिकावृक्षः । इति शब्दरत्नावली ॥ हस्तिनी । इति जटाधरः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणिका स्त्री।
अज्जुका
समानार्थक:गणिका,अज्जुका
1।7।11।2।1
भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः। स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
गणिका स्त्री।
यूथिका
समानार्थक:मागधी,गणिका,यूथिका,अम्बष्ठा
2।4।71।2।1
सितासौ श्वेतसुरसा भूतवेश्यथ मागधी। गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
गणिका स्त्री।
वेश्या
समानार्थक:वारस्त्री,गणिका,वेश्या,रूपाजीवा,क्षुद्रा
2।6।19।1।2
वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः। सत्कृता वारमुख्या स्यात्कुट्टनी शम्भली समे॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
गणिका स्त्री।
हस्तिनी
समानार्थक:करिणी,धेनुका,वशा,गणिका,करेणु,वासिता
3।3।17।11।1
स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥
पति : हस्तिः
स्वामी : हस्तिपकः
: ऐरावतस्य_हस्तिनी, पुण्डरीकस्य_हस्तिनी, वामनस्य_हस्तिनी, कुमुदस्य_हस्तिनी, अञ्जनस्य_हस्तिनी, पुष्पदन्तस्य_हस्तिनी, सार्वभौमस्य_हस्तिनी, सुप्रतीकस्य_हस्तिनी
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणिका¦ स्त्री गणः समूहोऽस्त्यस्याः भर्त्तृत्वेन ठन्।
१ वेश्या-याम्, तद्वच्चित्राकर्षकत्वात्
२ यूथिकायाम्(युं इ)अमरः।
३ गणिकारिकावृक्षे शब्दर॰। गण--ण्वुल्।
४ हस्तिन्यांजटा॰।
“अनुरागवन्तमपि लोचनयोर्दधत वपुः स्वक-मतापकरम्। निरकासयद्रविमपेतवसुं वियदालयादपर-द्दिग्गणिका” माघः। वेश्यायाः साधारणस्त्रीत्वं लक्षणा-दिकं च सा॰ द॰ उक्तं यथा।
“धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका। नि-र्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि। वित्तमात्रंममालोक्य सा रागं दर्शयेद्बहिः। काममङ्गीकृतमपिपरिक्षीणधनं नरम्। मात्रा निष्कासयेदेषा पुनः स-[Page2504-b+ 38] न्घानकाङ्क्षया। तस्कराः पण्ड्रका मूर्खाः सुखप्राप्तध-नास्तथा। लिङ्गिनश्छन्नकामाद्या आसां प्रायेण वल्लभाः। एषापि मदनायत्ता क्वापि सत्यानुरागिणी। रक्तायांवा विरक्तायां रतमस्यां सुदुर्लभम्”। प्रसङ्गात् तस्याःपञ्चमजातित्वं तद्गमनादौ दण्ड दण्डाभावादिकं मिता-क्षरोक्तम् प्रदर्श्यते।
“साधारणस्त्रीगमने दण्डमाह
“अवरुद्धासु दासीषुभुजिष्यासु तथैव च। गम्यास्वपि पुमान्दाप्यः पञ्चा-शत्पणिकन्दमम्” या॰। गच्छन्नित्यनुवर्त्तते। उक्तलक्षणा-वर्णस्त्रियोदास्यस्ता एव स्वामिना शुश्रूषाहानिव्युदा-सार्थं गृहे एव स्थातव्यमित्येवं पुरुषान्तरोपभोगतोनिरुद्धाः, अवरुद्धाः पुरुषनियतपरिग्रहा भुजिष्याः। यदा दास्योऽवरुद्धा भुजिष्या वा भवेयुस्तदा तासु तथाचशब्दाद्वेश्यास्वैरिणीनामपि साधारणस्त्रीणां भुजि-ष्याणां ग्रहणन्तासु च सर्वपुरुषसाधारणतया गम्या-स्वपि गच्छन् पञ्चाशत् पणन्दण्डन्दापनीयः पर-परिगृहीतत्वेन तासाम्परदारतुल्यत्वात्। एतच्च स्पष्ट-मुक्तन्नारदेन
“स्वैरिण्यब्राह्मणी वेश्या दासी नि-ष्कासिनी तथा। गम्याः स्युरानुलोम्येन स्त्रियो नप्रतिलोमतः। आस्वेव तु भुजिष्यासु दोषः स्यात्परदारवत्। गम्यास्वपि हि नोपेयाद्यत्ताः पर-परिग्रहाः” इति। निष्कासिनी स्वाम्यनवरुद्धा दासी। ननु स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधान-मयुक्तम् न हि जातितः शास्त्रतो वा काश्चन लोकेसाधारणाः स्त्रिय उपलभ्यन्ते। तथाहि स्वैरिण्यो-दास्यश्च तावद्वर्णस्त्रियएव
“स्वैरिणी या पतिं हित्वासवर्णं कामतः श्रयेत्। वर्णानामानुलोम्येन दास्यं नप्रतिलोमतः” इति स्मरणात्। न च वर्णस्त्रीणाम्पत्यौजीवति भृते वा पुरुषान्तरोपभोगो घटते
“दुःशीलःकामवृत्तो वा गुणैर्वा परिवर्जितः। परिचार्य्यः स्त्रियासाध्व्या सततन्देववत् पतिः। कामन्तु क्षपयेद्देहं पुष्प-मूलफलैः शुभैः। न तु नामापि गृह्णीयात् पत्यौप्रेते परस्य त्विति” निषेध(मनु)स्मरणात्। नापि कन्या-वस्थायां साधारणत्वं पित्रादिपरिरक्षितायाः कन्थायाएव दानोपदेशाद्दात्रभावेऽपि तथाविधाया एव स्वयंवरोपदेशात्। न च दासीभावात् स्वधर्माधिकारच्युतिः। पारतन्त्र्यं हि दास्यन्न स्वधर्मपरित्यागः। नापि वेश्या साधारणी वर्णानुलोमजव्यतिरेकेण गम्य[Page2505-a+ 38] जात्यन्तरासम्भवात्। तदन्तःपातित्वे च पूर्ववदेवागम्यत्वं प्रतिलेमजत्वे तु तासान्नितरामगम्यत्वम्। अतःपुरुषान्तरोपभोगे तासान्निन्दितकर्माभ्यासेन पातित्यात्पतितसंसर्गस्य च निषिद्धत्वान्न सकलपुरुषोपभोगयोग्य-त्वम्। सत्यमेवम्। किन्त्वत्र स्वैरिण्याद्युपभोगेपित्रादिरक्षकराजदण्डभयादिदृष्टदोषाभावाद्गम्यत्ववाचो-युक्तिः। दण्डाभावश्चावरुद्धासु दासीष्विति नियतपुरुष-परिग्रहोपाधितो दण्डविधानात्तदुपाधिरहितास्वर्था-द्गम्यते। स्वैरिण्याद्यानां पुनदण्डाभावो विधाना-भावात्
“कन्याम्भजन्तीमुत्कृष्टं न किञ्चिदपि दापये-दिति” लिङ्गदर्शनाच्चावगम्यते। प्रायश्चित्तन्तु स्वधर्म-स्खलननिमित्तङ्गम्यानाङ्गन्तॄणां वाऽविशेषाद्भवत्येव। यत् पुनर्वेश्यानाञ्जात्यन्तरासम्भवेन वर्णान्तःपातित्य-मनुमानादुक्तम् वेश्यावर्णानुलोमाद्यन्तःपातिन्यो म-नुष्यजात्याश्रयत्वात् ब्राह्मणादिवदिति। तन्न कुण्ड-गोलकादिभिरनैकान्तिकत्वात्। अतो वेश्याख्या का-चिज्जातिरनादिर्वेश्यायामुत्कृष्टजातेः समानजातेर्वापुरुषादुत्पन्ना पुरुषसंयोगवृत्तिर्वेश्येति ब्राह्मण्यादि-वल्लोकप्रसिद्धिबलादभ्युपगमनीयम्। न च निर्मूले-यम्प्रसिद्धिः। स्मर्य्यते हि स्कन्दपुराणे
“पञ्चचूडानाम काश्चनाप्सरसस्तत्सन्ततिर्वेश्याख्या पञ्चमी जाति-रिति। अतस्तासान्नियतपुरुषपरिणयनविधिविधुरतयासमानोत्कृष्टजातिपुरुषाभिगमने न दृष्टदोषो नापि दण्ड-स्तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्यपि न दण्ड-स्तथाप्यदृष्टदोषोऽस्त्येव
“स्वदारनिरतः सदेति” नियमात्।
“पशुवेश्याभिगमने प्राजापत्यं विधीयते” इति प्राय-श्चित्तस्मरणाच्चेति निरवद्यम्। अवरुद्धासु दासीष्वित्य-नेन दासीस्वैरिण्यादिभुजिष्याभिगमने दण्डं विद-धतस्तास्वभुजिष्यासु दण्डो नास्तीत्यर्थादुक्तम्। तस्या-पवादमाह
“प्रसह्य दास्यभिगमे दण्डो दशपणःस्मृतः। बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक्” या॰। पुरुषसम्भोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्क-दानविरहण प्रसह्य वलात्कारेणाभिगच्छतो दशपणोदण्डः। यदि बहवः अकामामनिच्छन्तीमपि वलात्कारे-णाभिगच्छन्ति तर्हि प्रत्येकञ्चतुर्विंशतिपणपरिमित-न्दण्डं दण्डनीयाः। यदा पुनस्तदिच्छया भाटिन्दत्त्वा-पश्चादनिच्छन्तीमपि बलात् व्रजन्ति तदा तेषा-मदोषः यदि व्याध्याद्यभिभवस्तस्या न स्यात्
“व्याधि-[Page2505-b+ 38] ता सश्रमा व्यग्रा राजकर्मपरायणा। आमन्त्रिता चेन्ना-गच्छेददण्ड्या वडवा स्मृतेति” नारदवचनात्। किञ्च।
“गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत्। अगृहीतेसमन्द प्यः पुमानप्येबमेव च” या॰। यदा तु शुल्कं गृहीत्वा सुस्थापि तं नेच्छति तदा शुल्कं द्विगुणं दद्यात्तथा शुल्कं दत्त्वा स्वयमनिच्छतः स्वस्थस्य पुंसः शुल्क-हानिरेव
“शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्वि-गुणं वहेत्। अनिच्छन् दत्तशुल्कोऽपि शुल्कहानि-मवाप्नुयादिति तेनैवोक्तत्वात्। तथान्योऽपि विशेषस्त नैवदर्शितः
“अप्रयच्छंस्तथा शुल्कमनुभूय पुमान् स्त्रि-यम्। आक्रमेण च सङ्गच्छन् तथा दन्तनखादिभिः। अयोनौ चाभिगच्छद्यो बहुभिर्वाभिवासयेत्। शुल्कम-ष्टगुणं दाप्यो विनयन्तावदेव तु।
“वेश्या प्रधाना यास्तत्रकामुकास्तद्गृहोषिताः। तत्समुत्थेषु कार्य्येषु निर्णयंसंशये विदुरिति”।
“गणान्नं गणिकान्नञ्च” अभक्ष्या-न्नकथने मनुना तदन्नं निषिद्धम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणिका¦ f. (-का)
1. A courtezan, a harlot.
2. A sort of Jasmin. (J. auriculatum.)
3. A tree, commonly Ganiyari, (Premnaspinosa.)
4. A female elephant.
5. Counting, enumerating. E. गण to reckon, &c. ण्वुल् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणिका [gaṇikā], [गणः समूहो$स्त्यस्याः भर्तृत्वेन गण्-ठञ्]
A harlot, courtezan; गुणानुरक्ता गणिका च यस्य वसन्तशोभेव वसन्तसेना Mk.1.6; गणिका नाम पादुकान्तरप्रविष्टेव लेष्टुका दुःखेन पुनर्निरा- क्रियते Mk.5; निरकाशयद्रविमपेतवसुं वियदालयादपरदिग्गाणिका Śi. 9.1.
A female elephant; कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि Rām.2.1.5.
A kind of flower.
A kind of jasmine. -Comp. -अन्नम् food coming from a courtezan; गणान्नं गणिकान्नं च जुगुप्सितम् Ms.4.29,219; Y.1.16-61.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणिका f. a harlot , courtezan Mn. iv Ya1jn5. i , 161 MBh. xiii Mr2icch. etc.
गणिका f. of णकSee.