गणेश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणेशः, पुं, (गणानां प्रमथसमूहानां यद्वा गणानां जीवजातानां ईशः ईश्वरः ।) शिवः । इति हारावली । ८ ॥ (यथा, महाभारते । ३ । कैराते । ३९ । ७८ । “प्रसादये त्वां भगवन् ! सर्व्वभूतमहेश्वर ! । गणेशं जगतः शम्भुं लोककारणकारणम् ॥” गणानां गणाख्यदेवविशेषाणां विघ्नाख्यदेवानां वा ईशः नियन्ता ।) शिवपुत्त्रः । (यथा, महा- भारते । १ । १ । ७३ । “काव्यस्य लेखनार्थाय गणेशः स्मर्य्यतां मुने ! ॥”) तत्पर्य्यायः । विनायकः २ विघ्नराजः ७ द्वैमा- तुरः ४ गणाधिपः ५ एकदन्तः ६ हेरम्बः ७ लम्बोदरः ८ गजाननः ९ । इत्यमरः । १ । १ । ४० ॥ विघ्नेशः १० पर्शुपाणिः ११ गजास्यः १२ आखुगः १३ । इति हेमचन्द्रः । २ । १२१ ॥ शूर्पकर्णः १४ । इति ब्रह्मवैवर्त्तपुराणम् ॥ * ॥ तस्योत्पत्तिः । तत्र पार्व्वतीं प्रति वृद्धब्राह्मण- रूपश्रीकृष्णवाक्यम् । यथा, -- “न भवेद्विष्णुभक्तिश्च विष्णुमाये ! त्वया विना । त्वद्व्रतं लोकशिक्षार्थं त्वत्तपस्तव पूजनम् ॥ सर्व्वेज्याफलदात्री त्वं नित्यरूपा सनातनी । गणेशरूपः श्रीकृष्णः कल्पे कल्पे तवात्मजः ॥ त्वत्क्रोडमागतः क्षिप्रमित्युक्त्वान्तरधीयत । कृत्वान्तर्द्धानमीशश्च बालरूपं विधाय सः ॥ जगाम पार्व्वतीतल्पं मन्दिराभ्यन्तरस्थितम् । तल्पस्थे शिवबीर्य्ये च मिश्रितः स बभूव ह ॥ ददर्श गेहशिखरं प्रसूतबालको यथा । शुद्धचम्पकवर्णाभः कोटिचन्द्रसमप्रभः ॥ सुखदृश्यः सर्व्वजनैश्चक्षूरश्मिविवर्द्धकः । अतीवसुन्दरतनुः कामदेवविमोहनः ॥ मुखं निरुपमं बिभ्रत् शारदेन्दुविनिन्दकम् । सुन्दरे लोचने बिभ्रत् चारुपद्मविनिन्दके ॥ ओष्ठाधरपुटं बिभ्रत् पक्वविम्बविनिन्दकम् । कपालञ्च कपोलन्तदतीव सुमनोहरम् ॥ नासाग्रं रुचिरं बिभ्रत् खगेन्द्रचञ्चुनिन्दकम् । त्रैलोक्येषु निरुपमं सर्व्वाङ्गं विभ्रदुत्तमम् ॥ शयानः शयने रम्ये प्रेरयन् हस्तपादकम् ॥” तस्य शनैश्चरदर्शनात् मस्तकविनाशः विष्णु- कर्त्तृकगजमस्तकसंयोगश्च यथा, -- “सा च देववशीभूता शनिं प्रोवाच कौतुकात् । पश्य मां मत्शिशुमिति नियतिः केन वार्य्यते ॥ पार्व्वतीवचनं श्रुत्वा सोऽनुमेने हृदा स्वयम् । पश्यामि किं न पश्यामि पार्व्वतीसुतमित्यहो ॥ बालं द्रष्टुं मनश्चक्रे न बालमातरं शानि । विषण्णमानसः पूर्ब्बं शुष्ककण्ठौष्ठतालुकः ॥ सव्यलोचनकोणेन ददर्श च शिशोर्मुखम् । शनिश्च दृष्टिमात्रेण चिच्छेद मस्तकं मुने ! ॥ विस्मितास्ते सुराः सर्व्वे चित्रपुत्तलिका यथा । देव्यश्च शैला गन्धर्व्वाः शिवः कैलासवासिनः ॥ भ्रुकुटिः स्यात्तथा लज्जा दीर्घघोणा धनुर्द्धरा । यामिनी रात्रिसंज्ञा च कामान्धा च शशिप्रभा ॥ लोलाक्षी चञ्चला दीप्तिः सुभगा दुर्भगा शिवा । भर्गा च भगिनी चैव भोगिनी सुभगा मता ॥ कालरात्रिः कालिका च पञ्चाशच्छक्तयः स्मृताः । सर्व्वालङ्करणोद्दीप्ताः प्रियाङ्कस्थाः सुशोभनाः ॥ रक्तोत्पलकरा ध्येया रक्तमाल्याम्बरारुणाः ॥” इति शारदातिलकटीकायां राघवभट्टः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणेश¦ पु॰ गणानामीशः।
१ स्वनामख्याते देवे
२ शिवे च। गणे-शोत्पत्तिः इभाननशब्दे
९८
१ पृ॰ उक्ता तस्य वक्रतुण्डकपि-लचिन्तामणिविनायकादिरूपेण प्रादुर्भावकथा स्कन्धपु॰गणेशस्य॰ उक्ता। तत एवावसेया विस्तरभयान्नोक्ता। गणेशस्य परब्रह्मरूपत्वं नामभेदात् तद्भेदाश्च गणपतितत्त्वग्रन्थे विस्तरेणोक्ता दिग्मात्रमुदाह्रियते।
“एष सर्वेश्वरः एष सर्वज्ञः एष भूतपतिरेष भूतलय एष सेतुर्विधरणःप्रधानक्षत्रज्ञपतिर्गणेशः इति” श्रुतिप्रसिद्धसर्वेश्वरादिपद-वद्गणेशपदस्य नित्यसिद्धेश्वरपरत्वम् दृश्यते इत्युप-कम्य
“तस्मात् प्रधानक्षेत्रज्ञपतिर्गणेशः” इति श्रुतेः
“गुणत्रयस्येश्वरोऽसि न नाम्रा त्वं गणेश्वरः” इति विना-यामसंहितावचनाच्च गणशब्दाभिहितस्य सत्वादिगुणसं-वातस्य पतिर्गणेश इति सिद्धमित्युक्तम्”। अन्ते च नमःस हमानायेत्याद्यनुवाकैस्तस्य सर्व्वेर्षां नाम्नां सङ्कल-नेन एकोननवत्यधिकशतद्वयम् इत्युक्तम्। गणपतिभेदाश्चआगममन्त्रैर्व्वेदमन्त्रैर्बाराधनीया इत्यप्युक्तम्। तन्त्रेतु अन्यथा संख्योक्ता यथा शारदतिलकराघवटीका-याम्
“विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ। [Page2506-b+ 38] विघ्नकृत् विघ्नहर्त्ता च गणैकदददन्तकाः। गजवक्त्र-निरञ्जनौ कपर्द्दी दीर्घजिह्वकः। शङ्कुकर्णश्च वृष-भध्वजश्च गणनायकः। गजेन्द्रः सूर्पकर्णश्च स्यात्त्रि-लोचनसंज्ञकः। लम्बोदरमहानन्दौ चतुर्म्मूर्त्तिसदा-शिवौ। आमाददुर्मुखौ चैव सुमुखश्च प्रमोदकः। एकपादो द्विजिह्वश्च सुरवीरः सषण्मुखः। वरदोवामदेवश्च वक्रतुण्डो द्विरण्डकः। सेनानीर्ग्रामणी-र्म्मत्तो विमत्तो मत्तवाहनः। जटी मुण्डी तथा खङ्गीवरेण्यो वृषकेतनः। भक्ष्यप्रियो गणेशश्च मेघनादकसंज्ञकः। व्यापी गणेश्वरः प्रोक्ताः पञ्चाशद्गणपा इमे। तरुणारुण-सङ्काशा गजवक्त्रास्त्रिलोचनाः। पाशाङ्कुशवराभीतिहस्ताःशक्तिसमन्विताः”। तेषाञ्च पञ्चाशच्छक्तयस्तत्रोक्ता यथा
“ह्रीः श्रीश्च पुष्टिः शान्तिश्च स्वस्तिश्चैव सरस्वती। स्वा{??}मेधा कान्तिकामिन्यौ मोहिन्यपि वैनटी। पार्वती ज्वा-लिनी नन्दा सुयशाः कामरूपिणी। उमा तेजीवती सत्यविघ्नेशानी सुरूपिणी। कामदा मदजिह्वा च भूतिःस्याद्भौतिकासिता। रमा च महिषी प्रोक्ता मञ्जुला चविकर्णपा। भ्रुकुटिः स्यात्तथा लज्जा दीर्घघोणा धनु-र्द्वरा। यामिनी रात्रिसंज्ञा च कामान्धा च शशिप्रभा। लोलाक्षी चञ्चला दीप्तिः सुभगा दुर्भगा शिवा। भर्गा चभगिनी चैव भोगिनी शुभदा मता। कालरात्रिः का-लिका च पञ्चाशच्छक्तयः स्मृताः। सर्वालङ्करणोद्दीप्ताःप्रियाङ्कस्थाः सुशोभनाः। रक्तोत् लकरा ध्येया रक्त-गाल्याम्बरारुणाः”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणेश¦ m. (-शः)
1. A name of SIVA.
2. GANESA, the son of SIVA and PARVATI; he is the deity of wisdom, and remover of obstacles, whence in the commencement of all undertakings, the opening of all compositions. &c. he receives the reverential homage of the Hindus. He is represented as a short fat man with the head of an elephant; and the persent appellation, with other similar compounds, alludes to his office as chief of the various classes of subordinate gods, who are regarded as SIVA'S attendants. E. गण a troop or class (of deities attendant upon SIVA,) and ईश lord or master.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गणेश/ गणे m. (= ण-नाथ)N. of the god of wisdom and of obstacles (son of शिवand पार्वती, or according to one legend of पार्वतीalone ; though गणे-शcauses obstacles he also removes them ; hence he is invoked at the commencement of all undertakings and at the opening of all compositions with the words नमो गणे-शाय विघ्ने-श्वराय; he is represented as a short fat man with a protuberant belly , frequently riding on a rat or attended by one , and to denote his sagacity has the head of an elephant , which however has only one tusk ; the appellation गणे-श, with other similar compounds , alludes to his office as chief of the various classes of subordinate gods , who are regarded as शिव's attendants ; See. RTL. pp. 48 , 62 , 79 , 392 , 440 ; he is said to have written down the MBh. as dictated by व्यासMBh. i , 74 ff. ; persons possessed , by गणे-शare referred to Ya1jn5. i , 270 ff. )
गणेश/ गणे m. N. of शिवMBh. iii , 1629
गणेश/ गणे m. = गण-पुंगवVarBr2. xiii , 8
गणेश/ गणे m. pl. (= विद्ये-शor श्वर)a class of सिद्धs (with शैवs) Hcat. i , 11 , 857 ff
गणेश/ गणे m. N. of a renowned astronomer of the 16th century
गणेश/ गणे m. of a son of राम-देव(author of a Comm. on Nalo7d. )
गणेश/ गणे m. of a son of विश्वनाथ-दीक्षितand grandson of भावराम-कृष्ण(author of a Comm. called चिच्चन्द्रिका)
गणेश/ गणे See. s.v. गण.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--is विनायक (s.v.); sprung out of कामेश्वर, thought of by ललीता; destroyed भण्ड's फलकम्:F1: भा. III. ४१. ३७-41: ४२. 2 and ३३: ४३. १८ and ३१: ४४. ७०. Br. IV. २७. ७२-104: ४४. ६७.फलकम्:/F followers and filled the शक्ति host with enthusiasm. Killed गजासुर (s.v.). His riding animal was rat. ललिता honoured him as the first [page१-507+ ३५] to be worshipped among gods; फलकम्:F1: भा. III. ४१. ३७-41: ४२. 2 and ३३: ४३. १८ and ३१: ४४. ७०. Br. IV. २७. ७२-104: ४४. ६७.फलकम्:/F was Nikumbha in whose honour दिवोदास built a temple. फलकम्:F2: Br. III. ६७. ५५.फलकम्:/F The head of a शिव gan2a who sports in sidda-क्षेत्रस्, Rathyas, desolate gardens and places where there are children, the mad and others. Icons of; फलकम्:F3: M. २३. ३८ and ८४: १५४. ५२४, ५३३-41: २५०. २५, २५९. २३.फलकम्:/F origin in an ele- phant-faced doll made by पार्वती from the oil and dirt scraped off her body in the course of an oil bath; cast into Ganges where he grew in size and became गान्गेय. फलकम्:F4: M. १५४. ५०२-5.फलकम्:/F