गण्डमाला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डमाला, स्त्री, (गण्डानां ग्रीवाजातस्फोट- विशेषाणां माला समूहोऽस्याम् ।) गलरोग- विशेषः । तत्पर्य्यायः । गलगण्डः २ । इति हेमचन्द्रः । ३ । १३१ ॥ तस्यौषधं यथा, -- “अजमोदः ससिन्दूरो हरितालनिशाद्बयम् । क्षारद्वयं फेनयुतमार्द्रकं शरलोद्भवम् ॥ इन्द्रवारुण्यपामार्गकदलैः कन्दलैः समैः । एभिः सर्षपजं तैलमजामूत्रैश्च योजितम् ॥ मृद्वग्निना पचेदेतदर्कक्षीरेण संयुतम् । अजमोदादिकं तैलं गण्डमालां व्यपोहति ॥ विदग्धस्तु पचेत् पक्वं पक्वञ्चैव विशोधयेत् । रोपणं मृदुभावञ्च तैलेनानेन कारयेत् ॥ अजमोदादिकं तैलं महावीर्य्यञ्च रोगनुत् ॥” इति गारुडे १७८ अध्यायः ॥ अपि च । तत्रैव १९० अध्याये । “द्विजयष्ट्याश्च वै मूलं पिष्ट्वं तण्डुलवारिणा । गण्डमालां हरेल्लेपात् कुरुण्डगलगण्डकम् ॥” अपि च । तत्रैव १९४ अध्याये । “अपराजिताया मूलञ्च गोमूत्रेण समन्वितम् । पीतञ्चापि हरत्येव गण्डमालां न संशयः ॥” अपि च । “बिल्वाग्निमन्थश्योनाकपाटलापारिभद्रकम् । प्रशारण्यश्वगन्धा च बृहती कण्टकारिका ॥ बला चातिबला रास्ना प्रदंष्ट्रा च पुनर्नवा । एरण्डशारिवा पर्णी गुडूची कपिकच्छुरा ॥ एषां दशपलिकान् भागान् क्वाथयेत् सलिले- ऽमले । विजया च यवाकारा वर्त्तुला विजया तथा । अन्या नणाञ्च विज्ञेया तण्डुली कण्टकानिभा ॥ रोहिणी विजया विंशा मांसस्थानसमाश्रिता । गुल्फे वा चास्थिसन्धौ च दृश्यते भेदिनी नरे ॥ कुक्षौ कर्णान्तरेऽपाङ्गे कान्तारी विद्धि पुत्त्रक ! । वज्रपुष्पा शिरसि च शिरान्तार्त्तिप्रदा मता ॥ अतो वक्ष्यामि भैषज्यं शृणु पुत्त्र ! प्रयत्नतः । सान्द्रपूयविस्रावञ्च गण्डीरञ्च व्रणं विदुः ॥ अन्यञ्च सरुजञ्चैव पक्वजम्बूसमप्रभम् । लूताव्रणानाञ्चैतानि अपक्वं यदि दृश्यते ॥ त्यक्त्वा सन्धिस्थमर्म्मस्थां लूताञ्चैव हि तद्व्रणम् । तदा तप्तेन तैलेन दाहश्चाशु विधीयते ॥ अङ्कोलश्चैवमद्यानि पारिभद्रदलानि च । गृहधूमं कृष्णजीरं गोमूत्रेण तु पेषितम् ॥ लेपनञ्च प्रशस्तञ्च लूतानां मारणे परम् । पिण्डीतकं विडङ्गानि तथा चेङ्गुदिमूलकम् ॥ बीजपूरकमूलानि पेषितानि विलेपयेत् । गण्डमालां तथा घोरां हन्ति शीघ्रं प्रकण्टकाम् । स्नुहीक्षीरञ्चार्कक्षीरं लूतारन्ध्रे नियोजयेत् ॥ तेन कीटस्तु तन्मध्ये म्रियते नात्र संशयः । आस्यतो गिरिकर्णीञ्च चन्दनञ्च समांशकम् ॥ पिष्ट्वा लेपः प्रयोक्तव्यो लूतां हन्ति सुदारुणाम् । करवीरञ्चार्कदुग्धं तथा च कटुतुम्बिकाम् ॥ निशाद्वयं जाङ्गलिकां तिलतैले विपाचयेत् । लूतामभ्यञ्जने हन्ति गण्डमालाञ्च दारुणाम् ॥ घृतं जात्यादिकं नाम तथा चात्र प्रयोजयेत् । अन्यान्यपि व्रणे यानि प्रोक्तानि च यथाविधि ॥” इति महर्ष्यात्रेयभाषिते हारीतोत्तरे तृतीय- स्थाने लूतागण्डमालाचिकित्सा नाम सप्तत्रिंशो- ऽध्यायः ॥ “गलस्य पार्श्वे गलगण्ड एकः स्याद्गण्डमाला बहुभिस्तु गण्डैः । साध्याः स्मृताः पीनसपार्श्वशूल- कासज्वरच्छर्द्दियुतास्त्वसाध्याः ॥ तेषां सिरा-काय-शिरो-विरेको धूमः पुराणस्य घृतस्य पानम् ॥” इति चरके चिकित्सास्थाने सप्तदशेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डमाला¦ स्त्री

६ त॰।

१ रोगभेदे। तल्लक्षणभेदाद्युक्तंभावप्र॰ यथा(
“कर्क्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागलवङ्क्षणेषु। मेदःकफाभ्यां चिरमन्दपाकैः स्याद्गण्ड-माला वहुभिस्तु गण्डैः। ”
“गण्डमालाया एका-वस्थाविशेषमपचीमाह
“ते ग्रन्थयः केचिदवाप्तपाकाः[Page2512-a+ 38] स्रवन्ति नश्यन्ति भवन्ति चान्ये। कालानुबन्धं चिरमादधाति सैवापचीति प्रवदन्ति केचित्। ते ग्रन्थयःगण्डमालाया एव गण्डाः केचिदवाप्तपाकाः सन्तःस्रवन्ति, केचित् नश्यन्ति पुनः प्ररोहन्ति। अन्ये भवन्तिच। कालानुबन्धाच्चिरमादधाति या गण्डमाला चिरंतिष्ठति सैवापची इति केचिद्वदन्ति। अपच्याः साध्यत्वादिकमाह। साध्या स्मृता पीनसपार्श्वशूलकास-ज्वरच्छर्द्दियुता त्वसाध्या। ग्रन्थेर्लक्षणमाह। वा-तादयो मांसमसृक् च दुष्टे संदूष्य मेदश्च तथा शि-राश्च। वृत्तोन्नत विग्रथितं तु शोथं कुर्व्वन्त्यतोग्रन्थिरिति प्रदिष्टः। विग्रथितं ग्रन्थिरूपम्”। गण्डमालाऽस्त्यस्य इनि। गण्डमालिन् तद्रोगवति त्रि॰। तस्य श्राद्धे वर्ज्यतामाह मनुः
“भ्रामरी गण्ड-माली च श्वित्र्यथो पिशुनस्तथा”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डमाला¦ f. (-ला) Inflammation of the glands of the neck, &c. E. गण्ड a boil. and माला a necklace.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गण्डमाला/ गण्ड--माला f. id. Car. i , 28 Sus3r.

"https://sa.wiktionary.org/w/index.php?title=गण्डमाला&oldid=322604" इत्यस्माद् प्रतिप्राप्तम्