गति

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गतिः, स्त्री, (गम् + भावे क्तिन् ।) गमनकर्म्म । (यथा, रघुवंशे । १ । ४ । “अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्ब्बसूरिभिः । मणौ बज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥”) तत्पर्य्यायः । वर्त्तते १ अयते २ लोटते ३ लोठते ४ स्यन्दते ५ कसति ६ सर्पति ७ स्यमति ८ स्रवति ९ स्रंशते १० अवति ११ श्चोतति १२ ध्वंसति १३ वेनति १४ मार्ष्टि १५ गुरण्यति १६ शवति १७ कालयति १८ पेलयति १९ कण्टति २० पिस्यति २१ विस्यति २२ मिस्यति २३ प्रवते २४ प्लवते २५ च्यवते २६ कवते २७ गवते २८ नवते २९ क्षोदति ३० नक्षति ३१ सक्षति ३२ म्यक्षति ३३ सचति ३४ ऋच्छति ३५ तुरीयति ३६ चतति ३७ अतति ३८ गाति ३९ इयक्षति ४० सश्चति ४१ सरति ४२ रंहति ४३ यतते ४४ भ्रमति ४५ धजति ४६ रजति ४७ लजति ४८ क्षियति ४९ घमति ५० मिनाति ५१ ऋण्वति ५२ ऋणोति ५३ स्वरति ५४ सिसर्त्ति ५५ वेषिष्टिः ५६ योषिष्टिः ५७ ऋणाति ५८ ऋयते ५९ तेजति ६० दध्यति ६१ दध्नोति ६२ युध्यति ६३ घन्वति ६४ अरुषति ६५ आर्य्यन्ति ६६ डीयते ६७ तकति ६८ टीयते ६९ इषति ७० फणति ७१ हनति ७२ अर्द्धति ७३ मर्द्दति ७४ ससृते ७५ नसते ७६ हर्षति ७७ इयर्त्ति ७८ ईर्त्ते ७९ ईङ्खते ८० ज्रयति ८१ स्वात्रति ८२ गन्ति ८३ आगनीगन्ति ८४ जंगन्ति ८५ जिन्वति ८६ जसति ८७ गमति ८८ ध्रति ८९ ध्नाति ९० ध्रयति ९१ वहते ९२ रथर्य्यति ९३ जेहते ९४ स्वःकति ९५ क्षुम्पति ९६ प्साति ९७ वाति ९८ याति ९९ दृयति १०० द्राति १०१ डूलति १०२ एजति १०३ जमति १०४ जवति १०५ वञ्चति १०६ अनिति १०७ पवते १०८ हन्ति १०९ सेधति ११० अगन् १११ अजगन् ११२ जिगाति ११३ पतति ११४ इन्वति ११५ द्रमति ११६ द्रवति ११७ वेति ११८ हयन्तात् ११९ एति १२० जगायात् १२१ अयुथुः १२२ । इति द्वाविंशं शतं गतिकर्म्म । इति वेदनिघण्टौ २ अध्यायः ॥ (गम्यतेऽस्या- मिति । गम् + अधिकरणे क्तिन् ।) मार्गः । (यथा, भगवद्गीतायाम् । ८ । २६ । “शुक्लकृष्ण गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्यया वर्त्तते पुनः ॥”) दशा । (यथा, तत्रैव । ६ । ३७ । “अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण ! गच्छति ॥” गम्यते ज्ञायतेऽनया । करणे क्तिन् ।) ज्ञानम् । (यथा, श्रीमद्भागवते । ७ । ५ । ३१ । “न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः । पण्यभिषग्नौजीविकसलिलजतुरगोपघातकरः ॥ पूर्ब्बाद्यृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्नी- यात् ॥ क्षुच्छस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥ प्राकृतविमिश्रसङ्क्षिप्ततीक्ष्णयोगान्तघोर- पापाख्याः । सप्तपराशरतन्त्रे नक्षत्रैः कीर्त्तिता गतयः ॥ प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च । मिश्रा गतिः प्रदिष्टा शशिशिवपितृभुजगदैवानि ॥ सङ्क्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति । तीक्ष्णायां भद्रपदाद्वयं सशाक्राश्वयुक् पौष्णम् ॥ योगान्तिकेति मूलं द्वे चाषाढे गतिः सुतस्येन्दोः । घोराश्रवणस्त्वाष्ट्रं वसुदेवं वारुणं चैव ॥ पापाख्या सावित्रं मैत्रं शक्राग्निदैवतं चेति । उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह ॥ चत्वारिंशत्त्रिंशद्द्बिसमेता विंशतिर्द्विनवकञ्च । नव मासार्द्धं दश चैकसंयुताः प्राकृताद्यानाम् ॥ प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम् । सङ्क्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम् ॥ ऋज्व्यतिवक्रा वक्रा विकला च मतेन देवल- स्यैताः । पञ्च चतुर्द्ब्येकाहा ऋज्व्यादीनां षडभ्यस्ताः ॥ ऋज्वी हिता प्रजानामतिवक्रार्थं गतिर्वि- नाशयति । शस्त्रभयदा च वक्रा विकला भयरोगसञ्जननी ॥ पौषाषाढश्रावणवैशाखेष्विन्दजः समाघेषु । दृष्टो भयाय जगतः शुभफलकृत् प्रोषितस्तेषु ॥ कार्त्तिकेऽश्वयजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः । शस्त्रचौरहुतभुग्गदतोय- क्षुद्भयानि च तदा विदधाति ॥ रुद्धानि सौम्येऽस्तमिते पुराणि यान्युद्गते तान्युपयान्ति मोक्षम् । अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवतीति तज्ज्ञाः ॥ हेमकान्तिरथवा शुकवर्णः सम्यकेन मणिना सदृशो वा । स्निग्धमूर्त्तिरलघुश्च हिताय व्यत्यये न शुभकृच्छशिपुत्रः ॥” अन्येषामपि ग्रहाणां गतिस्तत्रव क्रमशो विशे- षतो द्रष्टव्या ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गति¦ स्त्री गम--भावे क्तिन्।

१ गमने।
“सूत्रस्येवास्ति मेगतिः” रघुः।
“प्रणयातिभूमिमगमयत् गतिभिः” माघः।
“उपागमे दुश्चरिता इवापदां गतिं न निश्चेतु-मलं शिलीमुखाः” किरा॰।

२ परिणामे च
“दुरधिगमा-हि गतिः प्रयोजनानाम्” किरा॰।
“गतिः परिणामः” मल्लि॰।

३ ज्ञाने। करणे क्तिन्।

४ प्रमाणे च।
“अनेन[Page2515-a+ 38] पूर्वं न मयेति का गतिः” किरा॰
“का गतिः किं प्रमा-णम्” मल्लि॰। आधारे क्तिन्।

५ सरणौ पथि
“भिन्नगति-र्हि लोकः” रघुः।

६ स्थाने च।
“कां गतिं कृष्ण! गच्छति” गीता
“गतिं प्रतापस्य जलत्प्रमाथिनः” किरा॰
“गतिंस्थागम्” मल्लि॰। गम्यते कर्म्मणि क्तिन्।

७ स्वरूपे
“न वयं निरूपयितुमस्य गतिम्” किरा॰
“गतिंस्वरूपम्” मल्लि॰।

८ विषवे च
“मनोरथानामगतिर्नविद्यते” कुमा॰
“अगतिरविषयः” मल्लि॰। भावे क्तिन्।

९ यात्रायाम्। करणे क्तिन्

१० अभ्युपाये
“कलौ नास्त्येवनास्त्येव नास्त्येव गतिरन्यथा” पुरा॰।

११ नाडीव्रणेमेदि॰। पक्षिग्रहगतिभेदाश्च खगगतिशब्दे

२४

१५ पृ॰उक्ताः। वृह॰ स॰

७ अ॰ नक्षत्रभेदेन बुधस्य गतिभेदा-स्तत्फलभेदाश्चोक्ता यथा(
“प्राकृतविमिश्रसङ्क्षिप्ततीक्ष्णयोगान्तवोरपापाख्याः। सप्तपराशरतन्त्रे नक्षत्रैः कीर्तिता गतयः। प्राकृतसञ्ज्ञा

१ बायव्य

१५ याम्य

२ पैतामहानि

४ बहुलाश्च

३ । मिश्रा गतिः

२ ब्रदिष्टा शशि

५ शिव

६ पितॄ

१० भुजग

९ दैवानि। सङ्क्षिप्तायां

३ पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति। तीक्ष्णायां

४ भाद्रपदाद्वयंसशाक्राश्वयुक्

१८ ।

१ । पौष्णम्

२७ । योगान्तिकेति

५ मूलं द्वेचषाढे गतिः सुतस्येन्दोः। घोरा

६ श्रवणस्त्वाष्ट्रं

१४ वासवं

२३ वारुणं

२४ चैव, पापाख्या

७ । सवित्रं

१३ मैत्रं

१७ शक्राग्नि-दैवतं

१६ चेति। उदयप्रवासदिवसैः स एव गतिलक्षणंप्राह। चत्वारिंशत्त्रिंशद्द्विसमेता विंशति

२२ र्द्विनवकं च

१८ । नव मासार्धं दश चैकसंयुताः

११ प्राकृताद्यानाम्। प्राकृत-गत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमभ्। सङ्क्षिप्तमिश्रयो-र्मिश्रमेतदन्यासु विपरीतम्। ऋज्व्यतिवक्रा वक्राविकला च मतेन देवलस्यैताः। पञ्चचतुर्द्व्येकाहाऋजव्यादीनां षडभ्यस्ताः। ऋज्व्यो हिता प्रजानामतिव-क्रार्थं गतिर्विनाशयति। शस्त्रभयदा च वक्रा विकलाभयरोगसञ्जननी। ” पाणिन्युक्तेषु प्रादिषु

१२ शब्दविशेषेषु पु॰ ते च
“प्रादयः”
“उपसर्गाः क्रियायोगे”
“गतिश्च”
“उर्यादिचिव्डाचश्च”
“अनुकरणं चानितिपरम्”
“आदरानादरयोः सदसती” भूषणेऽलम्
“अन्तरपरिग्रहे”
“कणेमनसी”
“श्रद्धाप्रती-घाते”
“पुरोऽव्ययम्”
“अस्तं च”
“अच्छ गत्यर्थवदेषु”
“अदोऽनुपदेशे”
“तिरोऽन्तर्धौ”
“विभाषा कृञि”
“उपाजेऽन्वाजे”
“साक्षात्प्रभृतीनि च”
“अनत्याधानेउरसिमनसी”
“मध्ये पदे निवचने च”
“नित्यं हस्ते[Page2515-b+ 38] पाणावुपयमने”
“प्राध्वं बन्धने”
“जीविकोपनिषदा-वौपम्ये। ” पा॰ उक्ताः धातुविशेषयोग एव तत्संज्ञांभजन्ते धातुविशेषाश्च सि॰ कौ॰ त॰ स॰ प्र॰ दृश्याः। तेषाञ्च गतिसंज्ञकानां
“गतिर्गतौ” पा॰ अनुदात्तता।
“सगतिरपि तिङ्” पा॰। काष्ठं प्रपचतीत्यादौ अनु-दात्तता।
“गतिरनन्तरः” पा॰
“कर्म्मार्थे क्तान्ते परे-ऽव्यवहितो गतिः प्रकृत्या”। पुरोहितम्।
“गतिकारको-पपदानां कृद्भिः समासबचनं प्राक्सुबुत्पत्तेः” वार्त्ति॰।
“गतिबुद्ध्यादि” पा॰ णिचि प्रयोज्यकर्त्तुः कर्म्मत्वम् ग्रामंगमयति देवदत्तम् चैत्रः। गत्यर्थकर्म्मणि द्वितीयाचतुर्थ्यौचेष्टायामनध्वनि” पा॰। ग्रामं ग्रामाय वा गच्छति अ-ध्वनि तु मार्गं गच्छति। अचेष्टायां मनसा गच्छति
“गत्यर्थाकर्म्मकेत्यादि” पा॰ कर्त्तरि च क्त। ग्रामं गत-श्चैत्रः चकारात् भावे कर्म्मणि च गतं चैत्रस्य, गतोग्रामश्चैत्रेण।
“क्तोऽधिकरणे च”
“ध्रौव्यगतिप्रत्यव-सानेत्यादि” पा॰ आधारे क्त।
“इदं यातं रमापतेः” सि॰ कौ॰। सर्वे गत्यर्था ज्ञानार्थाः प्राप्त्यर्थाश्चेत्युक्तेः
“मतिबुद्धिपूजार्थेभ्यश्च” पा॰ वर्त्तमानेऽपि क्त। शास्त्र-मधिगतम् विप्रेण वर्त्तते, तेन ज्ञायमानमित्यर्थः। गत्यर्थ-कधातवश्च गणपाणे पठिता एव ज्ञेयाः। वैदिकप्रयोगे तुकेचित्ततोन्येऽपि धातवः समष्ट्या निघण्टौ पठिता यथा(
“वर्तते। अयते। लोटते। लोठते। स्यन्दते। कसति। सर्पति। स्यमति। स्रवति। स्रंसते। अवति। श्चोतति। ध्वंसति। वेनति। मार्ष्टि। भुरण्यति। शवति। कालयति। पेलयति। कण्ट-ति। पिस्यति। विस्यति। मिस्यति। प्रवते। प्लवते। च्यवते। कवते। गवते। नवते। क्षोदति। नक्षति। सक्षति। म्यक्षति। सचति। ऋच्छति। तुरीयति। चतति। अतति। गाति। इयक्षति। सश्चति। त्सरति। रंहति। यतते। भ्रमति। ध्रजति। रजति। लजति। क्षियति। धमति। मिनाति। ऋण्वति। ऋणोति। स्वरति। सिसर्ति। वेषिष्टि। योषिष्टि। रिणाति। रीयते। रेजति। दध्यति। दभ्नोति। युध्यति। धन्वति। अरुषति। आर्यति। डीयते। तकति। दीयति। ईषति। फणति। हनति। अर्दति। मर्दति। सर्सृते। नसते। हर्यति। इयर्ति। ईर्ते। ईङ्खते। ज्रयति। श्वात्रति। गन्ति। आ गनीगन्ति। जङ्घन्ति। [Page2516-a+ 38] जिन्वति। जसति। गमति। ध्रति। ध्राति। ध्रयति। वहते। अथर्यति। जेहते। ष्वःकति। क्षुम्पति। प्साति। वाति। याति। इषति। द्राति। द्रूडति। एजति। जमति। जवति। बञ्चति। अनिति। पवते। हन्ति। सेधति। अगन्। अजगन्। जिगाति। पतति। इन्वति। द्रमति। द्रवति। वेति। हयन्तात्। एति। जगायात्। अयुथुरिति। द्वाविंशशतं गतिकर्माणः। ” एतेषां भ्वाद्यादिगणोयत्वं विकरणादेवावसेयम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गति¦ m. (-तिः)
1. Going, moving, motion in general.
2. March, proces- sion.
3. A road, a way, a path.
4. A period of life, as age, youth, &c.
5. An expedient, a means of success.
6. Knowledge, wisdom.
7. A sinus, a fistular sore.
8. Worldly vanity or wickedness.
9. Course of events, fate, fortune.
10. Resource, refuge, asylum.
11. The diurnal motion of a planet in its orbit,
12. State, mode of existence. E. गम् to go, affix क्तिन्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गतिः [gatiḥ], f. [गम्-भावे क्तिन्]

Motion, going, moving, gait; गतिर्विगलिता Pt.4.78; अभिन्नगतयः Ś.1.14; (न) भिन्दन्ति मन्दां गतिमश्वमुख्यः Ku.1.11 do not mend their slow gait (do not mend their pace); so गगनगतिः Pt.1; लघुगतिः Me.16; U.6.23.

Access, entrance; मणौ वज्रसमुत्कीर्णे सूत्रस्येवा- स्ति मे गतिः R.1.4.

Scope, room; अस्त्रगतिः Ku.3.19; मनोरथानामगतिर्न विद्यते Ku.5.64; नास्त्यगतिर्मनोरथानाम् V.2.

Turn, course; दैवगतिर्हि चित्रा, Mu.7.16.

Going to, reaching, obtaining; वैकुण्ठीया गतिः Pt.1 obtaining Heaven.

Fate, issue; भर्तुर्गतिर्गन्तव्या Dk.13.

State, condition; दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य Bh.2.43; Pt.1.16.

Position, station, situation, mode of existence; परार्ध्यगतेः पितुः R.8.27; कुसुमस्तबकस्येव द्वे गती स्तो मनस्विनाम् Bh.2.14; Pt.1.41,42.

A means, expedient, course, alternative; अनुपेक्षणे द्वयी गतिः Mu.3; का गतिः what help is there, can't help (often used in dramas) Pt.1.319; अन्या गतिर्नास्ति K.158; cf. also अगतिका हि एषा गतिः यत् कृत्स्नसंयोगे सति विकल्पसमुच्चयौ स्याताम् ŚB. on MS.1.5.47.

Recourse, shelter, refuge, asylum, resort; विद्यमानां गतिर्येषाम् Pt.1.32,322; आसयत् सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः Sk.

Source, origin, acquisition; क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति Bg.2.43; Ms.1.5.

a way, path.

A march, procession.

An event, issue, result.

The course of events, fate, fortune.

Course of asterisms.

The diurnal motion of a planet in its orbit.

A running wound or sore, fistula.

Knowing; अपेन पूर्वं न मयेति का गतिः Ki.14.15; knowledge, wisdom.

Transmigration, metempsychosis; Ms.6.73;12.3,23,4-45; त्यज बुद्धिमिमां गतिप्रवृत्ताम् Bu. Ch.5.36; Bhāg.1.17.1.

A stage or period of life, (as शैशव, यौवन, वार्धक).

(In gram.) A term for preposition and some other adverbial prefixes (such as अलम्, तिरस् &c.) when immediately connected with the tenses of a verb or verbal derivatives.

Position of a child at birth.-Comp. -अनुसरः following the course of another.-ऊन a. impassable, desert. -भङ्गः stoppage. -हीन a. without refuge, helpless, forlorn.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गति f. going , moving , gait , deportment , motion in general RV. v , 64 , 3 VS. TS. etc.

गति f. manner or power of going

गति f. going away Ya1jn5. iii , 170

गति f. procession , march , passage , procedure , progress , movement( e.g. अस्त्र-ग्, the going or flying of missile weapons R. v ; परां गतिं-गम्, " to go the last way " , to die ; दैव-ग्, the course of fate R. vi Megh. 93 ; काव्यस्य ग्, the progress or course of a poem R. i , 3 , 2 )

गति f. arriving at , obtaining (with gen. loc. , or ifc. ) S3Br. ix MBh. etc.

गति f. acting accordingly , obeisance towards( loc. ) A1p. i , 13 f.

गति f. path , way , course( e.g. अन्यतरां गतिं-गम्, " to go either way " , to recover or die A1s3vS3r. ) R. Bhag. etc.

गति f. a certain division of the moon's path and the position of the planet in it (the diurnal motion of a planet in its orbit?) VarBr2S.

गति f. issue Bhag. iv , 29

गति f. running wound or sore Sus3r.

गति f. place of issue , origin , reason ChUp. i , 8 , 4 f. Mn. i , 110 R. Mudr.

गति f. possibility , expedient , means Ya1jn5. i , 345 R. i Ma1lav. etc.

गति f. a means of success

गति f. way or art , method of acting , stratagem R. iii , vi

गति f. refuge , resource Mn. viii , 84 R. Katha1s. Vet. iv , 20

गति f. See. RTL. p.260

गति f. the position (of a child at birth) Sus3r.

गति f. state , condition , situation , proportion , mode of existence Kat2hUp. iii , 11 Bhag. Pan5cat. etc.

गति f. a happy issue

गति f. happiness MBh. iii , 17398

गति f. the course of the soul through numerous forms of life , metempsychosis , condition of a person undergoing this migration Mn. Ya1jn5. MBh. etc.

गति f. manner A1s3vGr2. i Sch.

गति f. the being understood or meant Pat.

गति f. (in gram.) a term for prepositions and some other adverbial prefixes (such as अलम्etc. ) when immediately connected with the tenses of a verb or with verbal derivatives(See. कर्मप्रवचनीय) Pa1n2. 1-4 , 60 ff. ; vi , 2 , 49 ff. and 139 ; viii , 1 , 70 f.

गति f. a kind of rhetorical figure Sarasv. ii , 2

गति f. a particular high number Buddh.

गति f. " Motion " (personified as a daughter of कर्दमand wife of पुलह) BhP. i , v , 1

गति m. N. of a son of अनलHariv. i , 3 , 43.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of Kardama, married to Pulaha. Had three sons--कर्मश्रेष्ट, वरीयस् and सहिस्णु. भा. III. २४. २३: IV. 1. ३८.

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गति स्त्री.
(गम्+क्तिन्) 1. ‘इ’ अथवा ‘उ’ को अन्तर्निविष्ट कर स्तोभ के अक्षरों को लम्बा खींचना, उदाहरणस्वरूप ‘हो’ के लिए होयि अथवा होइ; आ यि एवं औ के ‘इ’ अथवा ‘उ’ को लम्बा खींचना, पुष्प सू. 52०; 2. टहलना, सञ्चरण, शां श्रौ.सू. 4.6.12 ‘ब्रह्मन्’ के प्रसङ्ग में, लक्ष्य (=आदित्य) जै.ब्रा. I.25.

"https://sa.wiktionary.org/w/index.php?title=गति&oldid=498831" इत्यस्माद् पुनः प्राप्तिः