गद्गद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद्गदः, पुं, लुप्तपदव्यञ्जनाभिधायी । अत्यस्पष्टवक्ता । तस्य सम्प्राप्तिपूर्ब्बकलक्षणं यथा, -- “आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः । नरान् करोत्यक्रियकान् मूकमिन्मिनगद्गदान् ॥” इति माधवकरः ॥ (अस्पष्टोक्ते त्रि । यथा, अमरुशतके । ५३ । “खेदोऽस्मासु न मेऽपराध्यति भवान् सर्व्वेऽप- राधा मयि । तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद्गद¦ वाक्स्खलने कण्ड्वा॰ पर॰ अक॰ सेट्। गद्गद्यति अग-द्द्यीत् अगद्गदीत् गद्गद्या(दाम्)वभूव आस चकार। [Page2518-b+ 38]

गद्गद¦ पु॰ गद्गद--कण्ड्वा॰ भावे घञ् कर्त्तरि अच् वा मलोपः

१ अव्यक्तास्फुटशब्दे।

२ तद्वति त्रि॰ अमरः। तन्निदानमाह
“आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः। नरान्करोत्यक्रियकान् मूकमिन्मिनगद्गदान्” माधवकरः। सा॰ द॰ तु सात्मिकभावोक्तौ स्वरभङ्गरूपता तस्योक्ता यथा
“स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः” इत्या-द्यष्टसात्विकभावानुक्त्वा
“मदसंमोदपीडाद्यैर्वैस्वर्य्यं गद्गदंविदुः” इत्युक्तम्
“तत् किं रोदिषि गद्गदेन वचसाकस्याग्रतो रुद्यते नन्वेतन्मम, का तवास्मि दयिता,नास्मीत्यतो रुद्यते” अमरुश॰।
“विललाप सवाष्पगद्गदम्” रघुः।
“हर्षस्त्विष्टावाप्तेर्मनःप्रसादोऽश्रुगद्गदादिकरः” सा॰ द॰।
“सगद्गदस्वरं किञ्चित् प्रियं प्रायेण भाषतेसा॰ द॰ मुग्धानुरागोक्तौ। तत्र कुशलः आकर्षा॰ कन्। गद्गदक गद्गदकुशले त्रि॰। सुश्रुते गद्गदत्वकारणमुक्तम्
“तमतिस्थूलं क्षुद्रश्वासपिपासाक्षतस्वप्नस्वेदगात्रदौर्गन्ध्य-क्रथनगात्रसादगद्गदत्वानि क्षिप्रमेवाविशन्ति”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद्गद [gadgada], a. Stammering, stuttering, faltering; तत्किं रोदिषि गद्गदेन वचसा Amaru.57; गद्गदगलत्त्र्युठ्यद्विलीनाक्षरं को देहीति वदेत् Bh.3.8; सानन्दगद्गदपदं हरिरित्युवाच Gīt.1.-दम् ind. In a faltering or stammering tone; विललाप स बाष्पगद्गदम् R.8.43; ˚नदत् U.2.3 producing a gurgling sound.

दः, दम् stammering.

Indistinct or convulsive speech; सगद्गदं भीतभीतः प्रणम्य Bg. 11.35. -Comp. -ध्वनिः a low, inarticulate sound expressive of joy or grief. -पदम् inarticulate speech.-वाच् f. inarticulate or convulsive speech, interrupted by sobbing &c. -स्वर a. uttering stammering sounds.

(रः) indistinct or stammering utterance.

a buffalo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद्गद mf( आ)n. stammering , stuttering (said of persons and of utterances) MBh. etc.

गद्गद n. stammering , indistinct or convulsive utterance (as sobbing etc. ) ib.

"https://sa.wiktionary.org/w/index.php?title=गद्गद&oldid=498852" इत्यस्माद् प्रतिप्राप्तम्