गद्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद्यम्, क्ली, (गव्यते च्छन्दसा विना केवलं कथाप्रबन्धै- रेव विरच्यत इति । गद + “गदमदचरयमश्चानुप- मर्गे ।” ३ । १ । १०० । इति पत् ।) पद्यभिन्नम् । कविकृतम् । अपादः पदसन्तानः । इत्यमरः । ३ । ५ । ३१ ॥ कविकृतभिन्ने त्रि । यथा गद्यो व्यवहारः गद्या वाक् गद्यं वचः । इति तट्टी- काया भरतः ॥ (यथा, महाभारते । ३ । २६ । ३ । “यजषामृचा साम्नाञ्च गद्यानाञ्चैव सर्व्वशः । आसीदुच्चाय्यमाणानां निस्वनो हृदयङ्गमः ॥”) “अपादः पदसन्तानो गद्यमाख्यायिका कथा ॥ इति दण्डी ॥ आस्यायिका तु आचष्टे प्रातपादयति अत्यर्थं आख्यायिका अत्र नायकेन स्वयमुपलब्धोऽर्थ आख्यायते इत्येके । ज्ञातायां सत्यार्थायां कथाया- माख्यायिका । सा च माधविका-वासवदत्ता- हर्षचरितादिः । कथा तु । प्रबन्धस्य कल्पना रचना बह्वनृता स्तोकसत्या कथा । प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः । परम्पराश्रया यस्मात् सा मताख्यायिका क्वचित् ॥ इति कोलाहलाचार्य्यः ॥ कथा कादम्बर्य्यादिः ।” इत्यमरटीकायां भरतः ॥ (गद्यन्तु त्रिधा विभक्तं यथा छन्दोमञ्जर्य्याम् । “अपादं पदसन्तानं गद्यं तत्तु त्रिधा मतम् । वृत्तकोत्कलिकाप्रायवृत्तगन्धिप्रभेदतः ॥” एतेषामपि लक्षणं यथा तत्रैव । “अकठोराक्षरं स्वल्पसमासं वृत्तकं सतम् । तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥ भवेदुत्कलिकाप्रायं समासाढ्यं दृढाक्षरम् । वृत्तैकदेशसम्बन्धात् वृत्तगन्धि पुनः स्मृतम् ॥” मतभेदेनैतत् क्वचित् चतुर्द्धापि दृश्यते । यथा, साहित्यदर्पणे । ६ । २९५ । “वृत्तबन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च । भवेदुत् कलिकाप्रायं चूर्णकञ्च चतुर्व्विधम् ॥ आद्यं समासरहितं वृत्तभागयुतं परम् । अन्यद्दीर्घसमासाढ्यं तुर्य्यञ्चाल्पसमासकम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद्य¦ त्रि॰ गद--यत्।

१ कथनीये
“सह्यः कथं वियोगश्च गद्यमे-तत्त्वया मम” भट्टिः। सा॰ द॰ उक्ते

२ पादरहितेकाव्यभेदे न॰।
“अव्यं श्रोतव्यमात्रं तत् पद्यगद्य-मयं द्विधा” इति श्रव्यकाव्यं विभज्य
“वृत्तबन्धो-ज्झितं गद्यं मुक्तकं वृत्तगन्धि च। भवेदुत्कलि-काप्रायं चूर्ण्णकञ्च चतुर्व्विधम्। आद्यं समासरहितंवृत्तभागयुतं परम्। अन्थद्दीर्षसमासाद्यं तुर्य्य-ञ्चाल्पसमासकम्। मुक्तकं यथा
“गुरुर्वचसि पृथु-रुरसीत्यादि। वृत्तगन्धि यथा समरकण्डूय-गनिविडभुजदण्डकुण्डलीकृतकोदण्डशिञ्जिनीटङ्कारोज्जागरिगवैरिनगरः। अत्र कुण्डलीकृतकोदण्डेत्यनुष्टु-ब्वृत्तस्य पादः। उत्कलिकाप्रायं यथा अणिसविसृमर-णिसिददरसरविसरविदलितसमरपरिगदपवरपरबलेत्यादि(प्राकृतम्)। चूर्णकं यथा गुणरत्नसागर! जगदेक-नागर! कामिनीमदन! जनरञ्जनेत्यादि”। छन्दो-मञ्जर्य्यामन्यथाभेदसंहितं तल्लक्षणादिकमुक्तं यथा
“गद्यं पद्यमिति प्राहुर्वाङ्मयं द्विविधं बुधाः। प्रागुक्तलक्षणं पद्यं गद्यं सम्प्रति गद्यते। अपादंपदसन्तानं गद्यं तत्तु त्रिधा मतम्। वृत्तकोत्कलिका[Page2519-a+ 38] प्रायवृत्तगन्धिप्रभेदतः। अकठोराक्षरं स्वल्पसमासं वृत्तकं

१ मतम्। तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत्। भवेदुत्कलिकाप्रायं

२ समासाढ्यं दृढाक्षरम्। वृत्तैकदेश-सम्बन्धात् वृत्तगन्धि

३ पुनः स्मृतम्। ”
“कथायां सरसं वस्तु गद्यैरेव विनिर्म्मितम्। क्वचिदत्रभवेदार्य्या क्वचिद्वक्त्रापवक्त्रके। आदौ पद्यैर्नमस्कारःखलादेर्वृत्तकीर्त्तनम्” यथा कादम्बर्य्यादि”।
“गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते”। यथादेशराजचरितम्।
“गद्यपद्यमयी राजस्तुतिर्व्विरुदमुच्यते। यथा विरुदमणिमाला” सा॰ द॰।
“यजुषामृचां च साम्नाञ्च गद्यानाञ्चैव सर्वशः। आसी-दुच्चार्य्यमाणानां निस्वनो हृदयङ्गमः” भा॰ व॰

२६ अ॰। भाग॰

५ स्क॰, विष्णुपु॰ च तत्प्रपपञ्चो दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद्य¦ mfn. (-द्यः-द्या-द्यं) To be spoken or uttered. n. (-द्यं) Prose E. गद् to speak, affix यत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद्य [gadya], pot. p. [गद्-यत्] To be spoken or uttered; गद्य- मेतत्त्वया मम Bk.6.47. -द्यम् Prose, elaborate prose composition, composition not metrical yet framed with due regard to harmony; one of the three classes into which all compositions may be divided; see Kāv.1.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गद्य mfn. ( Pa1n2. 3-1 , 100 ) to be spoken or uttered Bhat2t2. vi , 47

गद्य n. prose , composition not metrical yet framed in accordance with harmony , elaborate prose composition MBh. iii , 966 Ka1vya7d. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=गद्य&oldid=498853" इत्यस्माद् प्रतिप्राप्तम्