सामग्री पर जाएँ

गन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्ध, क ङ द्रुहि । इति कविकल्पद्रुमः ॥ (चुरां- आत्मं-सकं-सेट् ।) क ङ, गन्धयते । द्रुहि हिंसायाम् । गतिहिंसायाचनेष्विति रमानाथः । इति दुर्गादासः ॥

गन्धम्, क्ली, (गन्धो विद्यतेऽस्य । अर्श आदित्वादच् । कृष्णागुरु । इति राजनिर्घण्टः ॥

गन्धः, पुं, (गन्ध + पचाद्यच् ।) आमोदः । इति विश्वः । स तु घ्राणग्राह्यपृथिवीगुणः । यथा, -- “घ्राणग्राह्यो भवेद्गन्धो घ्राणस्यैवोपकारकः । सौरभश्चासौरभश्च स द्वेधा परिकीर्त्तितः ॥” इति भाषापरिच्छेदे । १०३ ॥ (अस्य लक्षणान्तरं यथा, घ्राणमात्रग्राह्यगुणत्व- व्याप्यजातिमत्वं गन्धत्वं यद्वा पृथिवीवृत्तिमात्र- वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्वमिति ॥) स तु दशविधः । (यथा, महाभारते । १४ । ५० । ४०-४२ । “शब्दः स्पर्शस्तथारूपं रसो गन्धश्च पञ्चमः । एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः ॥ पार्थिवश्च सदागन्धो गन्धश्च बहुधा स्मृतः । तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून् गुणान् ॥ इष्टश्चानिष्टगन्धश्च मधुरोऽम्नः कटुस्तथा । निर्हारी संहतः स्निग्धो रूक्षो विशद एव च । एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत ॥” एतेषामपि केषु को गन्ध इत्येतद्विवृतिमाह ।) इष्टः १ कस्तूरिकादौ । अनिष्टः २ शवादौ । मधुरः ३ मधुपुष्पादौ । अम्लः ४ आम्रा- तकादौ । कटुः ५ मरिचादौ । निर्हारी ६ हिङ्ग्वादौ । संहतः ७ चित्रगन्धः अनेककल्क- गतः । स्निग्धः ८ सद्यस्तप्तघृतादौ । रूक्षः ९ सार्षपतैलादौ । विशदः १० शाल्यन्नादौ ॥ * ॥ सौरभम् । तत्तु पञ्चविधम् । यथा, -- “गन्धञ्च सम्यक् शृणुतं पुत्त्र वेतालभैरव ! । चूर्णीकृतो वा घृष्टो वा दाहाकर्षित एव वा ॥ रसः सम्मर्द्दजो वापि प्राण्यङ्गोद्भव एव वा । गन्धः पञ्चविधः प्रोक्तो देवानां प्रीतिदायकः ॥ गन्धचूर्णं गन्धपत्रं चूर्णं सुमनसां तथा । प्रशस्तगन्धयुक्तानां पत्रचूर्णानि यानि च ॥ तानि गन्धाह्वयानि स्युः स गन्धः प्रथमः स्मृतः । १ घृष्टो मलयजो गन्धः शरलश्च नमेरुणा ॥ अगुरुप्रभृतिश्चापि यस्य पङ्कः प्रदीयते । घृष्ट्वा स घृष्टो गन्धोऽयं द्वितीयः परिकीर्त्तितः ॥ २ ॥ देवदार्व्वगुरुब्रह्मशालसारान्तचन्दनाः । प्रियादीनाञ्च यो दग्ध्वा गृह्यते दाहजो रसः ॥ स दाहाकर्षितो गन्धस्तृतीयः परिकीर्त्तितः । ३ । सगन्धकरवीविल्वगन्धिनीतिलकं तथा ॥ प्रभृतीनां रसो योऽसौ निष्पीड्य परिगृह्यते । स संमर्द्दोद्गतो गन्धः संमर्द्दज इतीष्यते ॥ ४ ॥ मृगनाभिसमुद्भूतस्तत्कोषोद्भव एव वा । गन्धः प्राण्यङ्गजः प्रोक्तो मोददः स्वर्गवासि- नाम् ॥ ५ ॥ कर्पूरगन्धसाराद्याः क्षोदे घृष्टे च संस्थिताः । चन्द्रभागादयश्चापि रसे पङ्के च सङ्गताः ॥ गन्धसारस्तु सर्व्वत्र संसर्गादौ प्रयुज्यते । मृगनाभिर्भवेद्घृष्टश्चूर्णोऽप्यन्यस्य योगतः ॥ एवं सर्व्वस्तु सर्व्वत्र गन्धो भवति पञ्चघा । घृष्टादिभावादन्योन्यं गन्धः प्रीतिकरः परः ॥ गन्धस्य विस्तरो भेदः प्रोक्तः कालीयकादयः । सर्व्वः पञ्चविधेष्वेव प्रविष्टो भवति क्षणात् ॥” * ॥ “गन्धो मलयजो यस्तु दैवे पैत्र्ये च सम्मतः । तत्पङ्को वा रसो वापि चूर्णो वा विष्णुतुष्टिदः ॥ सर्व्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः । तस्मात् सर्व्वप्रयत्नेन दद्यान्मलयजं सदा ॥ कृष्णागुरुः सकर्पूरः सहितो मलयोद्भवैः । वैष्णवीप्रीतिदो गन्धः कामाख्यायाश्च भैरव ! ॥ कुङ्कमागुरुकस्तूरीचन्द्रभागैः समीकृतैः । त्रिपुराप्रीतिदो गन्धस्तथा चण्ड्याश्च शम्भुना ॥ दैवतोद्देशपूर्ब्बेण गन्धान् सम्पूज्य साधकः । देवायेज्याय वितरेत् सर्व्वसाध्येषु पूजकः ॥ गन्धेन लभते कामं गन्धो धर्म्मप्रदः सदा । अर्थानां साधको गन्धो गन्धे मोक्षः प्रतिष्ठितः ॥ अयं वां कथितो गन्धः पुत्त्रौ वेतालभैरवौ ! ॥ इति कालिकापुराणे ६८ अध्यायः ॥ प्रतिवेशी । लेशः । सम्बन्धः । गन्धकः । इति मेदिनी ॥ (यथा, प्रयोगामृते । “शोधितो यस्तु गन्धः स्यात् जरामृत्युरुजापहः । अग्निसन्दीपनः श्रेष्ठो वीर्य्यवृद्धिकरोऽस्थिकृत् ॥”) गर्व्वः । इति हेमचन्द्रः ॥ शोभाञ्जनः । इति शब्दरत्नावली ॥ घृष्टचन्दनम् । यथा, “घृष्टो मलयजो गन्धः ।” इति शुद्धितत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्ध पुं।

घ्राणेन्द्रियविषयः

समानार्थक:गन्ध

1।5।7।2।3

मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम्. रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥

 : सुगन्धः, दूरगामिगन्धः, इष्टगन्धः, दुर्गन्धः

पदार्थ-विभागः : , गुणः, गन्धः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्ध¦ अर्द्दने (हिंसायाम्) गत्यां भूषणे च चुरा॰ आ॰ सक॰ सेट्। गन्धयते अजिगन्धत। गन्धनम्
“गन्धनक्षेपणसेवनसाहसिक्यप्रतियत्नकथनोपयोगेषु कृञः” पा॰
“गन्धगंहिंसनम्, गन्धनाङ्गे उपयमे तु” इति च सि॰ कौ॰।
“गन्धनाङ्गे सूचनार्थे इत्यर्थः। तेन सूचनार्थेऽपि।

गन्ध¦ पु॰ गन्ध--पचाद्यच्। व्राणेन्द्रियग्राह्ये पृथिवीवृत्तौविशेषगुणभेदे अमरः।

२ प्रतिवेशिनि त्रि॰

२ लेशे

४ सम्बन्धे

५ गन्धके च मेदि॰

६ गर्व हेमच॰।

७ शोभाञ्जने शब्दरत्ना॰।
“घृष्टो मलयजो गन्धः” इति स्मृत्युक्ते

८ घृष्टचन्दने च। गन्धश्च पृथिवीमात्रस्य गुणः।
“रूपगन्धस्पर्शवती पृ-थिवी” कणा॰ सू॰। न च पाषाणादौ गन्धरसयो-रनुपलम्भात् तत्राव्यापकमिति वाच्यम्। तत्रापा-ततो गन्धरसयोरनुपलम्भेऽपि तदीयभस्मसु तदुपलं-म्भस्य सत्त्वात् य एवावयवाः पाषाणारम्भकास्त एव तद्भ-स्मारम्भका अपि
“यत् द्रव्यं तद्द्रव्यध्वंसजन्यं तत्तदुपा-नोपादेयमिति” व्याप्तेरतो नाव्याप्तिः। गन्धवत्त्वमुत्-पत्तिकाले घटादाव्याप्तमतो गन्धसमानाधिकरद्रव्यत्व-व्याप्यजातिमत्त्वं पृथिवीत्वलक्षणम्। मुक्ताबल्याञ्च[Page2520-a+ 38]
“तत्र क्षितिर्गन्धहेतुरिति” का॰ व्याख्यायाम् तथैवोक्तं यथा
“गन्धहेतुरिति गन्धसमवायिकारणमित्यर्थः। यद्यपि गन्ध-वत्त्वमात्रं लक्षणमुचितं तथापि पृथिवीत्वजातौ प्रमाणो-पन्यासाय कारणत्वमुपन्यस्तम्। तथाहि पृथिवीत्वं हिगन्धसमवायिकारणतावच्छेदकतया सिध्यति अन्यथा गन्ध-त्वावच्छिन्नस्याकस्मिकत्वापत्तेः। न च पाषाणदौ गन्धा-भावाद्गन्धवत्त्वमव्याप्तमिति वाच्यं तत्रापि गन्धसत्त्वात्अनुपलब्धिस्तु अनुत्कटत्वेनाप्युपपद्यते कथमन्यथा तद्भ-स्मनि गन्ध उपलम्यते? भस्मनो हि पाषाणध्वंसजन्यत्वात्पाषाणोपादानोपांदेयत्वं सिध्यति,
“यद् द्रव्यं यद्द्रव्य-ध्वंसजन्यं तत्तदुपादानोपादेयमिति व्याप्तेः दृष्टञ्चैतत्खण्डपटे महापटध्वंसजन्ये। इत्थञ्च पाषाणपरमाणोःपृथिवीत्वात् तज्जन्यस्य पाषाणस्यापि पृथिवीत्वं तथा चतस्यापि गन्धवत्त्वे बाधकाभावः”। गुणग्रन्थे च तस्य घ्राण-ग्राह्यत्वंद्वैविध्यञ्चोक्तं यथा
“घ्राणग्राह्यो भवेद्गन्धो घ्राणस्यै-वोपकारकः। सौरभञ्चासौरभञ्च स द्विधा परिकीर्त्तितः” गन्धस्य पृथिव्यां स्वाभाविकत्वमौपाघिकत्वं वेति सन्दिह्यस्वाभाविस्यैव तल्लक्षणत्वं कणा॰ सू॰ वृत्त्योः सनर्थितं यथा
“पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्राद्र्भावो वस्त्रेगन्धानावलिङ्गम् व्यवस्थितः पृथिव्यां गन्धः। ” सू॰
“इदानीं भूतानां लक्षणानि गन्धादीनि परीचिक्षिषुर्गन्धादीनां स्वाभाविकत्वमौपाधिकत्वञ्च व्यवस्थापयन्नाह। रूपरसगन्धस्पर्शा यत्र कारणगुणप्रक्रमेणोत्पद्यन्ते तत्रम्प्राभाविकाः सन्तो लक्षणवामुपयन्ति नान्यथा नहिसमीरणे उषलभ्यमानं सौरभं शिलातले उपलभ्यमानंशैत्यं जले उपलभ्यमानमौष्ण्यं वा लक्षणं भवतितदेतदाह पुष्पवस्त्रयोरिति नहि कनककेतकीकुसुमसन्निकृष्टे वाससि कनककेतकीसौरभमुपलभ्यमानं वा-ससः। नहि वाससः कारणगुणप्रक्रमेण तदुत्पन्नम्,किन्तर्हि कनककेतकीसन्निधानादौपाधिकं नहि वस्त्रेगन्धाभावे केतकीगन्धाभावो लिङ्गम्। किं लिङ्गमतउक्तं गुणान्तराप्रादुर्भाव इति गुणान्तरात् कारणगुणात्अप्रादुर्भावोऽनुत्पत्तिः यदि हि वस्त्रे यो गन्ध उपलम्यतेम तस्य खाभाविकः स्यात्तदा तदवयवेषु तन्तुषु केतकी-सन्निकर्षात् पूर्व्वं तत्र वस्त्रे चोपलभ्येत न चैवमित्यर्थः। तथा च विवादाध्यासितो गन्धो न वस्त्रसमवेतः तदवयव-गुणाजन्यविशेषगुणत्वात् शीतोष्णस्पर्शवत्। खा-भाविकं गन्धं पृथिव्या लक्षणमाह पृथिव्यां व्यवस्थितो-[Page2520-b+ 38] ऽयोगान्यायेगाभ्यां परिच्छिन्नः समानासमानजातीय-व्यावर्त्तकतया गन्धोलक्षणमित्यर्थः भवति हि पृथिवीगन्धवत्येव, पृथिव्येव गन्धवतीति, तदेवं समानजातीयंभ्योजलाद्यष्टभ्योऽसमानजातीयेभ्यो गुणादिभ्यश्च व्यावर्त्तकःस्वाभाविकः पृथिव्यां गन्ध इति व्यवस्थितम्” वृत्तिः। तत्र पृथिव्या उक्तार्थकगन्धवत्त्वलक्षणं यदुक्तं तस्य कथ-ङ्कारं लक्षणता स्यादित्याशङ्कापूर्वकं कणादसू॰ उप॰वृत्तौ समर्थितं यथा(
“ननु लक्षणमिदं व्यतिरेकिलिङ्गमितरभेदसाधकं व्यव-हारसाधकं वा तत्र पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्यन्नेतरभिन्नं तन्न गन्धवत् यथा जलादि इतरभेदा-भावव्यापकाभावप्रतियोगिगन्धवती चेयं तस्मादितर-भिन्ना। तत्रेतरभेदस्य साध्यस्य प्रसिद्धौ ततोहेतोर्व्यतिरेकेसपक्षविपक्षव्यावृत्ततयाऽसाधारण्यम्। अव्यतिरेके चान्व-यित्वम्। अप्रसिद्धौ च अप्रसिद्धविशेषणः पक्षः। तथाच तत्रन सन्देहो न वा सिषाधयिषा न वा तद्विशिष्टज्ञानरूपा-नुमितिः। किञ्च हेतुसाध्यव्यतिरेकयोर्व्याप्तिस्तथाच न व्या-प्तस्य पक्षधर्मत्वं पक्षधर्मस्य न व्याप्तत्वमिति वैषम्यम्, अतएवोपनयवैयर्थ्यमपि व्याख्यायते नत्वगृहीतव्याप्तिकमितितदुक्तम्,
“साध्याप्रसिद्धिर्वैषस्यं व्यर्थतोपनयस्य च। अन्व-येनैव सिद्धिश्च व्यतिरेकिणि दूषणम्” इति। एवंव्यवहारसाध्यकेऽपि, तत्र यद्यपि व्यवहारः पृथिवी-पदवाच्यत्वं तच्च पृथिवीत्वजातावप्यस्ति तत्र च पृथिवीत्वंहेतुर्नास्तीत्यसाधारण्यं तथापि पृथिवीत्वप्रवृत्तिनिमि-त्तकपृथिवीपदवाच्यत्वं साध्यमिति नासाधारण्यं यद्वापृथिवीत्वं क्वाचित्कपदप्रवृत्तिनिमित्तं जातित्वात् घटत्व-वदिति सामान्यतः सिद्धौ पृथिवीपदं पृथिवीत्वप्रवृत्ति-निमित्तकम् इतराप्रवृत्ति निमित्तकत्वे सति सप्रवृत्तिनि-मित्तकत्वात् यन्नैवं तन्नैवमिति साध्यम्। तथा चात्रापिसाध्याप्रसिद्धिरेवेति चेत् मैवम्, इतरेषां जलादीनाम्भेदस्य घट एव प्रसिद्धेः। वाय्वादेरतीन्द्रियस्यापि भेदस्यअन्योन्याभावस्य घटादौ प्रत्यक्षत एव सिद्धत्वात् अन्यो-न्याभावग्रहे अधिकरणयोग्यतामात्रस्य तन्त्रत्वात् स्तम्भःपिशाचो न मवतीत्यादौ तथाद र्शमात्, नचैवं धटएव तर्हि दृष्टान्तोऽस्तु किं व्यतिरेकिणा
“ऋजुमार्गेणसिद्ध्यन्तं कोहि वक्रेण साधयेत्” इति वाच्यम्अव्यतिरेकिलिङ्ग चेदनाभासं, तदाऽयमपि मार्गोवक्ररुचिं प्रत्यप्रतिहत एव साध्याप्रसिद्धेर्निरासे तन्मूल-[Page2521-a+ 38] कदोषाणां निरस्तत्वात्। व्यतिरेकसहचारेण अन्वय-व्याप्तेरेव ग्रहात् व्यतिरेकव्याप्त्याऽन्वयव्याप्तेरनुमानाद्वान वैषम्यम्। नचोपनयवैयर्थ्यम्, गृहीतव्याप्रेरेव हेतोःपक्षे उपसंहारात् तदुक्तम्,
“नियम्यत्वनियन्तृत्वे भाव-योर्यादृशी मते। त एव विपरीते तु विज्ञेये तद-भावयोः”। इति व्यवहारस्तु गन्धवती पृथिवीत्यु-पदेशादेव यथा कम्बुग्रीवादिमान् घटपदवाच्य इति। तथा कुत्रचिदेव घृतादौ मृदादौ च गन्धवत्त्वेनोपलक्ष-णेन पृथिवीत्वे पृथिवीपदप्रवृत्तिनिसित्तत्वं येनोपदेशाद्गृहीतम्, गन्धवत् सर्व्वं पृथिवीत्वेन प्रवृत्तिनिमित्तेन-पृथिवीपदवाच्यं गन्धवत्त्वात् यन्नैवं तन्नैवमिति व्यति-रेकी तस्याप्यवतरत्येव। ननु भेदसाधकव्यतिरेकिणिभेदो वैधर्म्म्यं खरूपभेदो वा अन्योन्याभावो वा नतावदाद्यौ प्रत्यक्षत एव तदवगमात् न तृतीयः अभाव-भेदस्यापि साध्यत्वेन तदन्योन्याभावस्य तत्राभावात् तेनसह स्वरूपभेदे साध्ये साध्याननुगमादितिचेन्न अभाव-प्रतियोगिकान्योन्याभावस्यापि साध्यत्वात् स यद्य-तिरिक्तस्तदाऽस्त्येव न चेत् स्वरूपमादाय तत्पर्य्यवसा-नात् वस्तुतोभिन्नएव तद्वैधर्म्म्यस्य तदन्योन्याभावव्याप्य-त्वात्, नचानवस्था यावत्येवानुभवस्तावत्येऽविश्रामात्अन्यत्र त्वननुभवेनैव विश्रामात् यत्तु त्रयोदशान्योन्या-मावास्त्रयोदशसु प्रसिद्धाः मिलिताः पृथिव्यां साध्यन्तेइति तत्तुच्छं प्रव्येकं प्रसिद्धेरतन्त्रत्वात् मिलितप्रसिद्धेर-भावात् किन्तु निर्गन्धत्वावच्छिन्नप्रतियोगिताकान्योन्या-भावः साध्येत प्रतियोगितावच्छेदकभेदेनाभावभेदस्या-वश्यकत्वात् स च घटादावेव प्रत्यक्षसिद्ध इत्युक्तत्वात्”। (जलाद्यष्टद्रव्याणि गुणादिभावपञ्चकञ्चेति त्रयोदश)तस्य चाश्रयनाशादेव नाशादनित्यत्वं यथाह कणादसू॰। (
“पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च” सू॰
“पृथिव्यादीनां वाय्वन्तानामवयविनां रूपादयश्च-त्वारोगुणा अनित्याः। यद्यप्यन्येऽपि गुणा अवयविषुवर्त्तमाना अनित्या एव, तथापि तेषामन्यतोऽपि विनाशः,रूपादयश्चत्वारोगुणा आश्रयनाशादेव नश्यन्ति न तुविरोघिगुणान्तरात्, द्रव्यानित्यत्वादिति द्रव्यस्याश्रयभू-तस्यानित्यत्वादाश्रितानामनित्यत्वमित्यर्थः। ” उप॰ वृ॰
“रूपादीनामनित्यत्वे यद्याश्रयानित्यत्वं तन्त्रं तदा नि-त्याश्रयवृत्तीनां गित्यत्वमित्याक्षेपबललभ्यमित्याह”।
“एतेननिव्येषु नित्यत्वमुक्तम्। ” सू॰
“रूपादीनामेव चतुर्णां[Page2521-b+ 38] नित्येष्वाश्रयेषु वर्त्तमानानां नित्यत्वमुक्तम् एतेनेति एतंनेति आश्रयानित्यत्वेनानित्यत्वाभिधानेनेत्यर्थः” उप॰ वृ॰। एतेन मुक्तावल्यां सर्वगन्धोऽनित्य इत्युक्तिश्चिन्त्या। तस्य पाकजत्वमपि कणादसू॰ वृत्तौ उक्तं यथा
“कारणगुणपूर्वकाः पृथिव्यां पाकजाः” सू॰
“पाकजारूपरसगन्धस्पर्शा इत्यर्थः कारणगुणपूर्वका इति रूपा-श्रयस्य घटादेर्यत् समवायिकारणं कपालादि तद्गुणपू-र्वकाः तथा च कपालरूपकारणैकार्थसमवायप्रत्यासत्त्याघटरूपाद्यसमवायिकारणम्, एवं रसादापाप”। रूपादीनां पाकप्रकारः पाकजशब्दे वक्ष्यते। गुणगुणि-नोरभेद इति वेदान्तिनो मन्यन्ते कणादसूत्रवृत्तौ तन्नि-रासितं यथा। (
“ननु नीलपीतादयोगुणा द्रव्याभिन्ना एव धर्मधर्भिणो-रभेदादितिचेन्न रूपं घटः स्पर्शोघट इत्यादिव्यवहारप्र-सङ्गात्, ननु नेदमनिष्टं यतो भवत्येव शुक्लः पटो नीलःपट इत्यादिप्रतीतिरितिचेन्न मतुब्लोपादभेदोपचाराद्वाप्रतीत्युपपत्तेः। भेदे प्रमाणे सति कल्पनेयं यथाकथञ्चिदुपपद्ध्यते इति चेन्न चन्दनस्य रूपं चन्दनस्य गन्ध इत्या-दिव्यपदेशबलाद्भेदसिद्धेः पटस्य रूपाभेदे पटवद्रूपमपित्वगिन्द्रियेण गृह्य त पटमानयेत्युक्ते यत्किञ्चिद्रूपमानयेत्रूपमानयेत्युक्ते यत्किञ्चिद्द्रव्यमानयेत्। अस्तुतर्हि भेदा-भेदः अत्यन्तभेदेऽत्यन्ताभेदे च सामानाधिकरण्यानुपपत्तेरितिचेन्न अवच्छेदभेदं विना विरुद्धयोर्भेदाभेदयोरेकत्रासम्भवात्, अन्योन्याभावत्वमव्याप्यवृत्तिवृत्ति नित्याभाव-वृत्तिधर्मत्वादत्यन्ताभावत्ववदितिचेन्न एकत्र संयोगतदत्य-न्ताभावयोः प्रतीतिबलादत्यन्तभावस्याव्याप्यवृत्तित्वाभ्यु-पगमात् अन्योन्याभावे तु तथाप्रतीतेरभावात्। ”( वेदान्तिमते तु तत्सत्त्वनियतसत्ताकत्वरूपतादात्म्यस्यै-वाभेदत्वस्वीकारात् न तद्दोषावतारः। अतएवोक्तं
“सत्यैक्येमिथोभेदस्तादात्म्यमिति”। ऐक्ये तत्सत्त्वनियतसत्ता-कत्वे सति मिथः परम्परं भेदः इति तैरभ्युपगमान्नकिञ्चिद्दूषणमवहतीति। (
“रूपरसगन्धपर्शाः रूपत्वादिगुणत्वसाक्षाद्व्याप्यजाति-मन्तः। ” इत्युपक्रम्य उप॰ वृत्तौ तल्लक्षणमुक्तं यथा
“घ्राणमात्रग्राह्यो गुणो गन्धः घ्राणमात्रग्राह्यगुणत्व-व्याप्यजातिमत्त्वं गन्धत्वं स च मरभिरसरभिश्चेतिद्विविधः यद्वा पृथिवीवृत्तिमात्रवृत्तिगुणत्वसाक्षाद्व्याप्य-जातिमत्त्वं गन्धत्वम्। [Page2522-a+ 38]( सचायं गन्धः द्विविधः सुरभिसुरभिश्च। भा॰ आश्व॰

५० अ॰ अस्य दशविधतोक्ता यथा। शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः। एते पञ्च-गुणा भूमेर्विज्ञेया द्विजसत्तमाः!। पार्थिवश्च सदा गन्धोगन्धश्च बहुधा स्मृतः। तस्य गन्धस्य वक्ष्यामि विस्तरेणबहूत् गुणान् (भेदान्)। इष्टश्चानिष्ट गन्धश्च मधुरोऽम्लःकटुस्तथा। निर्हारी संहतः स्निग्धो रूक्षो विशद एव च। ( दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत”। तत्रेष्टः

१ कस्तूरिकादौ, अनिष्टः

३ विष्ठादौ, मधुरः

३ मधु-पुष्पादौ, कटुः

४ मरिचादौ, निर्हारी

५ हिङ्गादौ। संहतश्चित्रगन्धः

६ अनेककल्कद्रव्यादौ, स्निग्धः

७ सद्य-स्तप्तवृतादौ। रूक्षः

८ सार्षपतैलादौ। विशदः

९ शाल्यादौ,अम्लः

१० तिन्तिड्यादौ। तस्योत्कटानुकटत्वादिकःअवान्तरधर्म्मः उद्भूतशब्दे

११

८१ पृ॰ विवृतः। तत्र सुरभिगन्धः पञ्चविधुः पूजाङ्गम् यथाह कालि॰ पु॰।
“गन्धञ्च सम्यक् शृणुतं पुत्रौ! वेतालभैरवौ!। चूर्ण्णीकृतो

१ वा घृष्टो

२ वा दाहकर्षित

३ एव वा। रसः सम्मर्दजो

४ वापि प्राण्यङ्गोद्भव

५ एव वा। गन्धः पञ्चविधः प्रोक्तो देवानां प्रीतिदायकः। गन्ध-चूर्णं गन्धपत्रचूर्णं सुमनसां तथा। प्रशस्त-गन्धबुक्तानां पत्रचूर्ण्णानि यानि च! तानि गन्धाह्वा-यानि स्युः स गन्धः प्रथमः

१ स्मृतः। घृष्टो मल-यजो गन्धः सरलश्च नमेरुणा। अगरुप्रभृतिश्चापियस्य पङ्कः प्रदीयते। घृष्ट्वा, स वृष्टो गन्धोऽयं द्वितीयःपरिकीर्त्तितः

२ । देवदार्वगुरुब्रह्मसालसारान्तचन्दनाः। पियादीनाञ्च यो दग्ध्वा गृह्यते दाहजो रसः। स दाहाकर्षितो गन्धस्तृतोयः परिकीर्त्तितः

३ । स गन्धः करवी-विल्वगन्धिनीतिलकं तथा। प्रभृतीनां रसो योऽसौनिष्पीड्य परिगृह्यते। स सम्मर्दाद्गतो गन्धः सम्मर्द्दजइतीर्य्यते

४ । मृगनाभिसमुद्भूतस्तत्कोषोद्भव एव वा। गन्धः प्राण्यङ्गजः प्रोक्तो मोददः स्वर्गवासिनाम्

५ । कर्पूरगन्धसाराद्याः क्षोदे वृष्टे च संस्थिताः। चन्द्रभा-गादयश्चापि रमे पङ्के च सङ्गताः। गन्धसारस्तु सर्वत्रससर्गादौ प्रयुज्यते। मृगनाभिर्भवेद्घृष्टश्चूर्णोऽप्यन्यस्ययोगतः। एवं सर्तस्तु सर्वत्र गन्धो भवति पञ्चधा। घृष्टादिभावादन्योन्यं गन्धः प्रीतिकरः परः। गन्धस्यविस्तरो भेदः प्रोक्तः कालीयकादयः। मर्वः पञ्चविधे-स्त्रेव प्रविष्टो भवति क्षणात्। गन्धो मलयजो यस्तु[Page2522-b+ 38] दैवे पैत्रे च सम्मतः। तत्पङ्को वा रसो वापि चूर्णो वाविष्णुतुष्टिदः। सर्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः। तस्मात् सर्वप्रयत्नेन दद्यान्मलयजं सदा। कृष्णागुरुःसकर्पूरः सहितो मलयोद्भवैः। वैष्णवप्रीतिदो गन्धःकामाख्यायाश्च भैरवौ!। कुङ्कुमागुरुकस्तूरीचन्द्रभागैःममीकृतैः। त्रिपुराप्रीतिदो गन्धस्तथा चण्ड्याश्च श-म्भुना। दैवतोद्देशपूर्वेण गन्धान् सम्पूज्य साधकः। देवायेज्याय बितरेत् सर्वसाध्येषु पूजकः। गन्धेन ल-भते कामं गन्धो धर्म्मप्रदः सदा। अर्थानां साधकोगन्धो गन्धे मोक्षः प्रतिष्ठितः। अयं वै कथितो गन्धःपुत्रौ वेतालभैरवौ” कालि॰ पु॰

६८ अ॰।

३ कृष्णागुरुणि न॰ शब्दार्थचि॰
“नवपरिमलगन्धः केनशक्योवरीतुम्” सा॰ द॰।
“गन्धवद विरन्दनोक्षिता” रघुः।
“वर्ज्जयेन्मधुमासं च गन्धं माल्यं रसान् स्त्रियः” मनुः।

४ गन्धवति त्रि॰। उद् + पूति + सु + सुरभि + शब्दात् परस्यगन्धस्य वहु॰ टच् समा॰। उत्कटो गन्धोऽस्य उद्गन्धिःएवं पूतिगन्धिः सुगन्धिः सुरभिगन्धिः।
“गन्धस्येत्त्वेतदेकान्तग्रहणम्” वार्त्ति॰
“एकान्त एकदेश इवाविभागेनलक्ष्यमाण इत्यर्थः यथा सुगन्धि पुष्पम् सलिलं वासुगन्धिर्वायुरिति” च सि॰ कौ॰। अत्र औपाधिकगन्धवस्वात्तथात्वम् शोभना गन्धा गन्धयुक्ताः पदार्थाः सन्त्यस्यसुगन्ध आपण इत्यादौ न” सि॰ कौ॰।
“कण्डूयतः कट-भुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य”
“सुगन्धितामप्रतियत्नपूर्वाम्” माघः।
“आघ्रायि वान्गन्धवहः सुगन्धस्तेनारविन्दव्यतिषङ्गवांश्च” भट्टिः।
“अर-विन्दव्यतिषङ्गवत्त्वात् गन्धस्येत्त्वं न भवति विभागेनलक्ष्यत्वादिति जयम॰। एवं उपमानपूर्वकस्य तस्येत्समा॰ पद्मगन्धिः।
“प्रस्थं हिमाद्रेर्मृगनाभिगन्धि” कुमा॰ लेशवाचकत्वे{??}पि इत् समा॰।
“सूपगन्धि घृतगन्धिभोजनम्” सि॰ कौ॰। देवादौ गन्धदानेऽङ्गुलिविशेष-नियमः तन्त्रसारे उक्तो यथा
“मध्यमानामिकाङ्गुष्ठैर-ङ्गुल्यग्रेण पार्वति!। दद्याच्च विमलं गन्धं मलमन्त्रेणसाधकः”। तत्र देयगन्धस्तु चन्दनकर्पूरकालागुर्वात्मकःयथाह तन्त्रसा॰ निबन्धे
“गन्धश्चन्दनकर्पूरकालागुरु-भिरीरितः” तद्यीजनप्रकारो गन्धयुक्तिशब्दे दृश्यः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्ध¦ r. 10th cl. (गन्धयते)
1. To injure, to hurt or kill.
2. To move, to go.
3. To ask or beg.

गन्ध¦ m. (-न्धः)
1. Smell, odour.
2. A perfume, a fragrance or fragrant substance.
3. A diffusive fragrance.
4. Sulphur.
5. Connexion, relationship.
6. A neighbour.
7. A plant, (Morunga hyperanthera, &c.)
8. Pride, arrogance.
9. Small, diminutive, a little, a small quantity, &c.
10. Pounded Sandal. f. (-न्धा) The bud of the Cham- paca flower, (Michelia Champaca.) n. (-न्धं) Aloe-wood. E. गन्ध् to hurt, to move, &c. affix अच्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धः [gandhḥ], [गन्ध्-पचाद्यच्]

Smell, odour; गन्धमाघ्राय चोर्व्याः Me.21; अपघ्नन्तो दुरितं हव्यगन्धैः Ś.4.8; R.12.27. (गन्ध is changed to गन्धि when as the last member of a Bah. comp. it is preceded by उद्, पूति, सु, सुरभि, or when the compound implies comparison; सुगन्धि, सुरभिगन्धि, कमलगन्धि मुखम्; शालिनिर्यासगन्धिभिः R.1.38; आहुति˚ 1.53; also when गन्ध is used in the sense of 'a little').

Smell considered as one of the 24 properties or guṇas of the Vaiśeṣikas; it is a property characteristic of पृथिवी or earth which is defined as गन्धवती पृथ्वी T. S.

The mere smell of anything, a little, a very small quantity; घृतगन्धि भोजनम् Sk.

A perfume, any fragrant substance; एषा मया सेविता गन्धयुक्तिः Mk.8; Y.1. 231; Mu.1.4.

Sulphur.

Pounded sandal wood.

Connection, relationship.

A neighbour.

Pride, arrogance; as in आत्तगन्ध humbled or mortified.

An epithet of Śiva.

A sectarial mark on the forehead.

Similarity (सादृश्य); डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि Mb.1.1.3.

न्धम् Smell.

Black aloewood. -Comp. -अधिकम् a kind of perfume. -अपकर्ष- णम् removing smells. -अम्बु n. fragrant water. -अम्ला the wild lemon tree. -अश्मन् m. sulphur. ...... गन्धा- श्मानं मनःशिलाम् । Śiva. B.3.19. -अष्टकम् a mixture of 8 fragrant substances offered to deities, varying in kind according to the nature of the deity to whom they are offered. Generally sandal, camphor, saffron, उशीर, cyperus pertenuis (Mar. नागरमोथा), गोरोचन, देवदार and a flower are used in the mixture. -आखुः the musk-rat.-आजीवः a vendor of perfumes. -आढ्य a. rich in odour, very fragrant; स्रजश्चोत्तमगन्धाढ्याः Mb. (-ढ्यः) the orange tree. (-ढ्यम्) sandal-wood. -इन्द्रियम् the organ of smell. -इभः, -गजः, -द्विपः, -हस्तिन् m. 'the scentelephant', an elephant of the best kind; यस्य गन्धं समाघ्राय न तिष्ठन्ति प्रतिद्विपाः । स वै गन्धगजो नाम नृपतेर्विजयावहः ॥ Pālakāpyam; शमयति गजानन्यान्गन्धद्विपः कलभो$पि सन् V.5. 18; R.6.7;17.7; गन्धेन जेतुः प्रमुखागतस्य गन्धद्विपस्येव मतङ्गजौघः । Ki.17.17. -उत्तमा spirituous liquor. -उदम् scented water; Bhāg.9.11.26. -उपजीविन् m. one who lives by perfumes, a perfumer. -ओतुः (forming गन्धोतु वार्तिक or गन्धौतु) the civet cat.

कारिका a female servant whose business is to prepare perfumes.

a female artisan living in the house of another, but not altogether subject to another's control. -कालिका, -काली f. N. of Satyavatī, mother of Vyāsa; Mb.1. -काष्ठम् aloe-wood.

कुटी a kind of perfume.

(टिः, टी) The Buddhist temple, any chamber used by Buddha; पुण्योद्देशवशाच्चकार रुचिरां शौद्धोदनेः श्रद्धया । श्रीमद्गन्धकुटीमिमामिव कुटीं मोक्षस्य सौख्यस्य च ॥ (An inscription at Gayā V.9. Ind. Ant. Vol.X). -केलिका, -चेलिका musk. -ग a.

taking a scent, smelling.

redolent. -गजः see गन्धेभ. -गुण a. having the property of odour. -घ्राणम् the smelling of any odour. -चरा f. The fourth stage of must of an elephant; Mātaṅga L.9.15. -जलम् fragrant water; सिक्तां गन्धजलैः Bhāg.1.11.14. -ज्ञा the nose. -तूर्यम् a musical instrument of a loud sound used in battle (as a drum or trumpet).

तैलम् a fragrant oil, a kind of oil prepared with fragrant substances.

sulphur-butter. -दारु n. aloe-wood. -द्रव्यम् a fragrant substance. -द्वार a. perceptible through the odour. -धारिन् a. bearing fragrance. (-m.) an epithet of Śiva. -धूलिः f. musk. -नकुलः the musk-rat. -नालिका, -नाली the nose.-निलया a kind of jasmine. -पः N. of a class of manes.-पत्रा, -पलाशी a species of zedoary. -पलाशिका turmeric.-पालिन् m. an epithet of Śiva. -पाषाणः sulphur.-पिशाचिका the smoke of burnt fragrant resin (so called from its dark colour or cloudy nature, or perhaps from its attracting demons by fragrance).

पुष्पः the Vetasa plant.

The Ketaka plant.

(ष्पम्) a fragrant flower.

flowers and sandal offered to deities at the time of worship. -पुष्पा an indigo plant.-पूतना a kind of imp or goblin.

फली the Priyañgu creeper.

a bud of the Champaka tree. -बन्धुः the mango tree. -मातृ f. the earth. -मादन a. intoxicating with fragrance.

(नः) a large black bee.

sulphur.

an epithet of Rāvaṇa. (-नः, -नम्) N. of a particular mountain to the east of Meru, renowned for its fragrant forests (-नम्) the forest on this mountain.-मादनी spirituous liquor. -मादिनी lac. -मार्जारः the civet cat. -मुखा, -मूषिकः, -मूषी f. the musk rat.

मृगः the civet cat.

the musk-deer. -मैथुनः a bull.-मोदनः sulphur. -मोहिनी a bud of the Champaka tree. -युक्तिः f. preparation of perfumes. -रसः myrrh (Mar. रक्त्याबोळ); लाक्षां गन्धरसं चापि ...... Śiva. B.3.2. ˚अङ्गकः turpentine. -राजः a kind of jasmine.

(जम्) a sort of perfume.

sandal-wood. -लता the Priyañgu creeper.

लोलुपा a bee.

a fly or gnat.-वहः the wind; रात्रिंदिवं गन्धवहः प्रयाति Ś.5.4; दिग्दक्षिणा गन्धवहं मुखेन Ku.3.25. -वहा the nose.

वाहः the wind; देहं दहन्ति दहना इव गन्धवाहाः Bv.1.14.

the musk-deer. -वाही the nose. -विह्वलः wheat. -वृक्षकः, -वृक्ष the Śāla tree. -व्याकुलम् a kind of fragrant berry (कक्कोल.) -शुण़्डिनी the musk-rat. -शेखरः musk.

सारः sandal.

a kind of jasmine. -सुखी, -सूयी the musk shrew. -सोमम् the white water-lily. -हस्तिन्m. a scent-elephant; यस्य गन्धं समाघ्राय न तिष्ठन्ति प्रतिद्विपाः । तं गन्धहस्तिनं प्राहुर्नृपतोर्विजयावहम् ॥ Pālakāpyam. -हारिका a female servant whose business is to prepare perfumes; cf. गन्धकारिका.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्ध m. smell , odour (nine kinds are enumerated , viz. इष्ट, अनिष्ट, मधुर, कटु, निर्हारिन्, संहत, स्निग्ध, रूक्ष, विशदMBh. xii , 6848 ; a tenth kind is called अम्लL. ) RV. i , 162 , 10 AV. VS. etc. ( ifc. f( आ). MBh. BhP. )

गन्ध m. a fragrant substance , fragrance , scent , perfume (generally used in pl. ; in comp. = " fragrant " See. -जलetc. ) Gobh. La1t2y. Pa1rGr2. etc.

गन्ध m. sulphur

गन्ध m. pounded sandal-wood Caurap.

गन्ध m. a sectarial mark on the forehead (called so in the south of India) RTL. p.66

गन्ध m. myrrh L.

गन्ध m. Hyperanthera Moringa L.

गन्ध m. ( ifc. )the mere smell of anything , small quantity , little MBh. i , 989 Pa1n2. 5-4 , 136 Pat. Sus3r. i , 13

गन्ध m. connection , relationship L.

गन्ध m. a neighbour L.

गन्ध m. pride , arrogance Megh. 9 (for गर्ध?)

गन्ध m. शिवMBh. xii , 10378

गन्ध n. smell Dhya1nabUp. 7 and 9

गन्ध n. black aloe-wood L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Upamadga (see gandhamodavaha). (Cal. Edn.). Vi. IV. १४. 9.

"https://sa.wiktionary.org/w/index.php?title=गन्ध&oldid=498862" इत्यस्माद् प्रतिप्राप्तम्