गमक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमकः पुं, (गमयति प्रापयति बोधयति वा मूर्च्छनादि- लक्षणैर्य आत्मानमिति । गम् + णिच् + ण्वुल् ।) स्वरविशेषः । यथा, सङ्गीतदामोदरे । “गमकः स्वश्रुतिस्थानच्छायां श्रुत्यन्तराश्रयाम् । स्वरो यो मूर्च्छ नामेति गमकः स इहोच्यते ॥ कम्पितः स्फुरितो नीलो भिन्नः स्थविर एव च । आहतान्दोलितो चेति गमकाः सप्त कीर्त्तिताः ॥ माघपौषनिशायान्तु शेषप्रहरमात्रके । साधकः सलिले स्थित्वा गमकान् सप्त साधयेत् ॥ दाक्षिणात्याहरिप्रीत्यै गायन्ति गमकानिमान् ॥” (गमयति बोघयतीति । गम् + णिच् + ण्वुल् । बोधकमात्रे त्रि । यथा, मालतीमाधवे । ३ । “यत् प्रौढत्वमुदारता च वचसां यच्चार्थतो गौरवं तच्चेदस्ति ततस्तदेव गमकं पाण्डित्य वैदग्ध्ययोः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमक¦ त्रि॰ गमयति गम--णिच्--ण्वुल्।

१ गमयितरि

२ बोधकेच
“सापेक्षत्वेऽपि गमकत्वात् समासः” महाभा॰
“यत् प्रौढत्वमुदारता च वचसां यच्चार्थतोगौरवम्तच्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः” मा-लतीमा॰।

३ स्वरभेदे।
“गमकः स्वश्रुतिस्थानस्थानांश्रुत्यन्तराश्रयात्। स्वरो यो मूर्च्छनामेति गमकः सइहोच्यते। कम्पितः स्फुरितो लीनो भिन्नः स्थविरएव च। आहतान्दोलितौ चेति गमकाः सप्त की-र्त्तिताः। साघपोषनिशायान्तु शेषप्रहरमात्रके। साधकः सलिले स्थित्वा गमकान् सप्त साधयेत्। दाक्षि-णात्या हरिप्रीत्यै गायन्ति गमकानिमान्” सङ्गी॰ दा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमक [gamaka], a. (-मिका f.) [गम्-ण्वुल्]

Indicative or suggestive, a proof or index of; तदेव गमकं पाण्डित्यवैद- ग्ध्ययोः Māl.1.7.

Convincing. -कः A kind of musical note (of which there are seven cf. स्वरोत्थान- प्रकारस्तु गमकः परिकीर्तितः । स कम्पितादिभेदेन स्मृतः सप्तविधो बुधैः ॥ स्थानप्राप्त्या दधानं प्रकटितगमकां मन्द्रतारव्यवस्थाम् Nāg.1.12).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमक mfn. causing to understand , making clear or intelligible , explanatory , leading to clearness or conviction( e.g. हेतु, " a convincing reason ") Sarvad. i , 35

गमक mfn. indicative of( gen. ) Ma1lati1m. i , 7

गमक n. (in music) a deep natural tone PSarv.

"https://sa.wiktionary.org/w/index.php?title=गमक&oldid=498994" इत्यस्माद् प्रतिप्राप्तम्