गम्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्यम्, त्रि, (गम्यते इति । गम् + कर्म्मादौ यत् ।) प्राप्यम् । इत्यमरः । ३ । २ । ४२ ॥ (यथा, भगवद्गीतायाम् । १३ । १७ । “ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्व्वस्य विष्ठितम् ॥”) गमनयोग्यञ्च ॥ (यथा, महामारते । ३ । ८५ । १०२ । “गम्यान्यपि च तीर्थानि कीर्त्तितान्यगमानि च ॥” स्त्रियां, सम्भोगार्हा स्त्री । यथा, महाभारते । १ । ८३ । ३५ । “अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः ॥”)

"https://sa.wiktionary.org/w/index.php?title=गम्यम्&oldid=131415" इत्यस्माद् प्रतिप्राप्तम्