गर्भधारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भधारण¦ न॰

६ त॰। अपत्योत्पादनार्थं शुक्रशोणितानु-बन्धरूपगर्भग्रहणे। तद्धारणलिङ्गञ्च मिताक्षारायांदर्शितं यथा
“गर्भधारणञ्च श्रमादिभिर्लिङ्गरवगन्तव्यंतथाच श्रुतिः
“सद्योगृहीतगर्भायाः श्रमो ग्लानिःपिपासा अशक्त्या निषदनं शुक्रशोणितयोरनुबन्धः[Page2553-b+ 38] स्फुरणञ्च योन्याः” गर्भशब्ददर्शिते भावप्र॰ वाक्ये विवृतिःतद्धारणाय विधिः आ॰ त॰ दर्शितो यथा
“पुत्रानुत्पत्तौ पारस्करः
“सा यदि गर्भं नादधीत निदि-ग्धिकायाः सिंह्याः श्वेतपुष्पायाः उपोष्य पुष्येण मूल-मुद्धृत्य चतुर्थेऽहनि स्नातायां निशायामुदकेन पिष्ट्वादक्षिणस्यां नासिकायामासिञ्चतीति
“इयमौषधी त्राय-माणा सहमाना सरस्वती। अस्या अहं पुत्रः पितु-रिव नाम जनयत्यभित इति”
“सा परिणीता ऋतुकालेकृताभिगमना यदि गर्भं न धारयति तदा उपोष्यपुष्ये नक्षत्रे श्वेतकण्ठकारिकाया मूलमुत्थाप्य चतुर्थे-ऽहनि ऋतुस्नातायाः पत्न्या रात्रावुदकेन दक्षिण-नासापुटे पतिरियमीषधी त्रायमाणा, इति मन्त्रेणसिञ्चति नस्यं दधाति दक्षिणहस्तानामिकाङ्गुष्ठाभ्यांगृहीत्वा प्राक्शिरःसंविष्टायाः इति। आयुर्वेदोयेऽपि।
“पिप्पल्या शृङ्गवेरञ्च मरिचं नागकेशरम्। आज्येनसह भुञ्जीत अपि बन्ध्या प्रसूयते”।
“गर्भधारणजंवाऽपि न खेदं समवाप्स्यसि” भा॰ व॰

१२

६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भधारण¦ n. (-णं) Impregnation, gestation. E. गर्भ, and धारण holding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भधारण/ गर्भ--धारण n. gestation , pregnancy , iii , 10449

"https://sa.wiktionary.org/w/index.php?title=गर्भधारण&oldid=499092" इत्यस्माद् प्रतिप्राप्तम्