गर्भाशय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भाशयः, पुं, (आशेतेऽस्मिन्निति । आ + शी + अघिकरणे अप् । गर्भस्य भ्रूणस्य आशयः शय्यावदाश्रयस्थानम् ।) जरायुः । येन वेष्टितो गर्भः कुक्षौ तिष्ठति सः । इत्यमरः । २ । ६ । ३८ ॥ गर्भशय्या । इति भावप्रकाशः ॥ (यथा, महा- भारते । १४ । १८ । ५ । “शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् । क्षेत्रं कर्म्मजमाप्नोति शुभं वा यदि वाऽशुभम् ॥” “पूर्णषोडशवर्षा स्त्री पूर्णत्रिंशेन सङ्गता । शुद्धे गर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि ॥ वीर्य्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः । रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा ॥” इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भाशय पुं।

गर्भवेष्टनचर्मः

समानार्थक:गर्भाशय,जरायु

2।6।38।2।1

दम्पती जम्पती जायापती भार्यापती च तौ। गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भाशय¦ पु॰ आशेतेऽत्र आ + शी--आधारे अच्

६ त॰। गर्भाधारस्थाने गर्भशय्यायाम्
“पुरुषेभ्योऽधिकाश्चान्येनारीणामाशयास्त्रयः। एको गर्भाशयः प्रोक्तः पित्त-पक्वाशयान्तरे” इति भावप्र॰ तस्य पित्तपक्वाशययो-र्मध्यस्थत्वमुक्तम्
“स्त्रीणां गर्भाशयोऽष्टमः”।
“ततो-ऽग्निसोमसंयोगात् संसृज्यमानो गर्भो गर्भाशयमनु-प्रतिपद्यते”
“दैवसंयोगादव्ययोऽचिन्त्यः (आत्मा)भूतात्मना सहान्वक्षं सत्वरजस्तमोभिर्देवासुरैरपरैश्चभावैर्वायुनाऽभिप्रेर्य्यमाणो गर्भाशयमनुप्रविश्यावतिष्ठते” इति च सुश्रुतः। तदाधारावरकत्वात्

२ जरायौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भाशय¦ m. (-यः) The womb, the uterus. E. गर्भ the embryo, and आशय asy- lum or abode.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्भाशय/ गर्भा m. = र्भ-वसतिMBh. xiv Sus3r.

"https://sa.wiktionary.org/w/index.php?title=गर्भाशय&oldid=499114" इत्यस्माद् प्रतिप्राप्तम्