सामग्री पर जाएँ

गलगण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गलगण्डः, पुं, (गले गण्डः स्फोटक इव ।) गल- रोगविशेषः । गरगण्ड इति भाषा ॥ अथ गल- गण्डाधिकारः । तत्र गलगण्डस्य सामान्यं लिङ्गमाह । “निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले । महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् ॥” निबद्धो दृढः अचलो वा । मुष्कवत् अण्डवत् । गल इति हनुमन्ययोरुपलक्षणम् । तथा च भोजः । “महान्तं शोथमल्पं वा हनुमन्या गलाश्रयम् । मुष्कवल्लम्बमानं तु गलगण्डं विनिर्द्दिशेत् ॥” * ॥ संप्राप्तिमाह । “वातः कफश्चापि गले प्रदुष्टो मध्ये तु संसृत्य तथैव मेदः । कुर्व्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः ॥” क्रमशः शनैः शनैः ॥ स्वलिङ्गैः वातकफमेदो- लक्षणैः ॥ * ॥ वातिकमाह । “तोदान्वितः कृष्णशिरावनद्धः श्यावारुणो वा पवनात्मकस्तु । पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छया पाकमियात् कदाचित् ॥ वैरस्यमास्यस्य च तस्य जन्तो- र्भवेत्तथा तालुगलप्रशोषः ।” चिरवृद्ध्यपाकः चिरेण वृद्धिरपाकश्च यस्य सः ॥ श्लैष्मिकमाह । “स्थिरः सवर्णो गुरुरुग्रकण्डुः शीतो महांश्चापि कफात्मकस्तु । चिराच्च वृद्धिं भजतेऽचिराद्वा प्रपच्यते मन्दरुजः कदाचित् ॥ माधुर्य्यमास्यस्य च तस्य जन्तो- र्भवेत्तथा तालुगलप्रलेपः ।” कदाचित् प्रपच्यते वा पाकोऽपि चिराद्गवति ॥ प्रलेपः श्लेष्मणा ॥ * ॥ मेदोजमाह । “स्निग्धो मृदुः पाण्डुरनिष्टगन्धो मेदोऽन्वितः कण्डुयुतो रुजश्च । प्रलम्बतेऽलावुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः ॥ स्निग्धास्यता तस्य भवेच्च जन्तो- र्गलेन शब्दं कुरुते च नित्यम् ।” देहक्षये कार्श्ये क्षयं देहवृद्धौ वृद्धिं यातीत्यर्थः ॥ * ॥ असाध्यमाह । “कृच्छ्राच्छसन्तं मृदुसर्व्वगात्रं संवतसरातीतमरोचकार्त्तम् । क्षीणञ्च वैद्यो गलगण्डयुक्तं भिन्नस्वरं नैव नरं चिकित्सेत् ॥” * ॥ अथ गलगण्डचिकित्सा । “सर्षपान् शिग्रुबीजानि शणबीजातसीयवान् । मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत् ॥ गलगण्डो गण्डमाला ग्रन्थयश्चैव दारुणाः । प्रलेपादस्य नश्यन्ति विलयं यान्ति सत्वरम् ॥ १ ॥ रक्षोघ्नतैलयुक्तेन जलकुम्भीकभस्मना । लेपनं गलगण्डस्य चिरोत्थस्यापि नाशनम् ॥ रक्षोघ्नः सर्षपः ॥ २ ॥ श्वेतापराजितामूलं प्रातः पिष्ट्वा पिबेन्नरः । सर्पिषा नियताहारो गलगण्डप्रशान्तये ॥ ३ ॥ तिक्तालावुफले पक्वे सप्ताहमुषितं जलम् । सद्यः स्याद्गलगण्डघ्नं पानात् पथ्यानुसेविनाम् ॥ ४ ॥ तैलं पिबेच्चामृतवल्लिविम्बा हिंस्राह्वयावृक्षकपिप्पलीभिः । सिद्धं बलाभ्यां सह देवदारु हिताय नित्यं गलगण्डरोगी ॥ वृक्षकोऽत्र तुणिः । उक्तञ्च निघण्टौ धन्वन्तरिणा । ‘तुणिस्तुणी कपीतस्तु नन्दिवृक्षोऽथ वृत्त्रकः ।’ बलाभ्यां बलातिबलाभ्यांम् । अमृतादितैलम् ॥ ५ ॥ यवमुद्गपटोलादिकटुरूक्षान्नभोजनम् । वमनं रक्तमोक्षञ्च गलगण्डे प्रयोजयेत् ॥ ६ ॥ दापयेद्गलगण्डे तु प्रच्छन्नानि बहूनि च । गण्डगोपालिकां पिष्ट्वा तत्र लेपं प्रकल्पयेत् ॥ अवश्यं नश्यति क्षिप्रं गलगण्डो गदोऽमुना । प्रलेपस्त्वनुभूतोऽयं बहुधा बहुभिर्ज्जनैः ॥ प्रच्छन्नानि पछना इति लोके । गण्डगोपालिका गण्डगुया इति लोके प्रसिद्ध आम्रवाटिकायां सुलभः कीटविशेषः ॥ ७ ॥ लवणं जलकुम्भ्यास्तु कणाचूर्णेन संयुतम् । प्रभाते नित्यमश्नीयात् गलगण्डप्रशान्तये ॥” ८ ॥ इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गलगण्ड¦ पु॰

७ त॰ (गरगण्ड)। रोगभेदे। तल्लक्षणादि यथा(
“निवद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले। महान्वा यदि वा ह्रस्वो गलगण्डं तमादिशेत्। निबद्धो दृढःअचलो वा। मुष्कवत् अण्डवत्। गले इति हनुम-न्ययोरुपलक्षणम्। तथा च भोजः
“महान्तं शोथ-मल्पं वा हनुमन्यागलाश्रयम्। मुष्कवल्लम्बमानं तुगलगण्ड विनिर्दिशेत्” संप्राप्तिमाह वातः कफ-श्चापि गले प्रदुष्टो मध्ये तु संसृत्य तथैव मेदः। कुर्वन्तिगण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः। क्रमशः शनैः शनैः स्वलिङ्गैः वातकफमेदालक्षणैः। तत्र वातिकमाह। तोदान्वितः कृष्णासरावनद्धः श्यावा-रुणो वा पवनात्मकस्तु। पारुष्ययुक्तश्चिरवृद्ध्यपाकोयदृच्छया पाकमियात् कदाचित्। वैरस्यमास्यस्यच तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः। चिरवृद्ध्य-पाकः चिरेण वृद्धिरपाकश्च यस्य सः। श्लैष्मिकमाहस्थिरः सवर्णो गुरुरुग्रकण्डुः शीतो महांश्चापि क-फात्मकस्तु। चिराच्च वृद्धिं भजतेऽचिराद्वा प्रपच्यतेमन्दरुजः कदाचित्। माधुर्य्यमास्यस्य च तस्य जन्तो-र्भवेत्तथा तालुगले प्रलेपः। कदाचित् प्रपच्यते वापाकोऽपि चिराद्भवति। प्रलेषः श्लेष्मणा। मेदोजमाह स्निग्धो मृदुः पाण्डुरनिष्टगन्धे मेदोऽन्धितःकण्डुयुतोऽरुजश्च प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः। स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेन शब्दं कुरुते च नित्यम्। देहक्षये काश्ये क्षयं,देहवृद्धौ वृद्धिं यातीत्वर्थः। असाध्यमाह
“कृच्छ्रा-च्छ्र्वसन्तं सृदुसर्वगात्रं संवत्सरातीतमरोचकात्तेम्। [Page2562-a+ 38] क्षीणञ्च वैद्यो गलगण्डयुक्ते भिन्नस्वरं नैव नर चिकि-त्सेत्” भावप्र॰।
“यवमुद्गषटोलानि कटुरूक्षञ्च भोज-नम्। छर्द्दिं सरक्तमोर्क्षा च गलगण्डे प्रयोजयेत्” चक्रद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गलगण्ड¦ m. (-ण्डः) Inflammation, enlargement of the glands of the neck. E. गल throat and गण्ड a swelling or boil.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गलगण्ड/ गल--गण्ड in comp. neck and cheek MBh. ii , 902

गलगण्ड/ गल--गण्ड m. goitre Sus3r. i ff. Dhu1rtas. ii , 11

गलगण्ड/ गल--गण्ड m. = गण्ड-मालाL.

"https://sa.wiktionary.org/w/index.php?title=गलगण्ड&oldid=499134" इत्यस्माद् प्रतिप्राप्तम्