गायकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गायकः, त्रि, (गायतीति । गै गाने + ण्वुल् ।) गानकर्त्ता । इति शब्दरत्नावली ॥ (यथा, माघे । ११ । १० । “कलमविकलतालं गायकैर्बोधहेतोः ॥”) तत्पर्य्यायः । गायनः २ गाथकः ३ । इति त्रिकाण्डशेषः ॥ गाता ४ । तस्य दोषा यथा, -- “लज्जितं भीतमुत्तेषु अव्यक्तमनुनासिकम् । काकस्वरः शिरःकम्पो लयस्थानविवर्ज्जितम् ॥ विस्वरं विरमञ्चैव विश्लिष्टं विषमाहतम् । व्याकुलं तालहीनञ्च गातुर्दोषाश्चतुर्द्दश ॥” इति सङ्गीतदामोदरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गायकः [gāyakḥ], [गै-ण्वुल्] A singer, musician; न नटा न विटा न गायकाः Bh.3.27.

An actor.

"https://sa.wiktionary.org/w/index.php?title=गायकः&oldid=330128" इत्यस्माद् प्रतिप्राप्तम्