गारुड
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गारुडम्, क्ली, (गरुडस्य इदमिति । गरुड + अण् वृद्धिश्च । यद्वा, गरुडं श्रोतारमालम्ब्य भगवता यदुपदिष्टम् । यद्बा, गरुडेन प्रोक्तमिति । तन्नि- रुक्तिरुक्ता शिवपुराणे यथा, -- “गरुडस्तु स्वयं वक्ता यत्तद् गारुडसंज्ञकम् ।”) गरुडपुराणम् । इति पुराणम् ॥ यथा, -- गरुड उवाच । “मम माता च विनता नागैर्दासीकृता हरे ! । यथाहं दैवतान् जित्वा चामृतं ह्यानयामि तत् ॥ दास्याद्धि मोक्षयिष्यामि यथाह्रं वाहनं तव । महाबलो महावीर्य्यः सर्व्वज्ञो नागदारणः । पुराणसंहिताकर्त्ता यथाहं स्यां तथा कुरु ॥ विष्णुरुवाच । यथा त्वयोक्तं गरुड ! तथा सर्व्वम्भविष्यति । देवादीन् सकलान् जित्वा चामृतं ह्यानयिष्यसि ॥ नागदास्यान्मातरं स्वां विनतां मोक्षयिष्यसि । महाबलो वाहनन्त्वं भविष्यसि विषार्द्दनः ॥ पुराणं मत्प्रसादाच्च मम माहात्म्यवाचकम् । यदुक्तं मत्स्वरूपञ्च तव चाविर्भविष्यति ॥ गारुडं तव नाम्ना तल्लोके ख्यातिं गमिष्यति । यथाहं देवदेवानां श्रीः ख्याता विनतासुत ! ॥ तथा ख्यातिं पुराणेषु गारुडं गरुडैष्यति । यथाहं कीर्त्तनीयोऽथ तथा त्वं गरुडात्मना ॥ मां ध्यात्वा पक्षिमुख्येदं पुराणं गद गारुडम् । इत्युक्तो गरुडो रुद्र ! कश्यपायाह पृच्छते ॥ कश्यपो गरुडं स्तुत्वा वृक्षं दग्धमजीवयत् । स्वयञ्चाप्यमलो भूत्वा विद्ययान्यानजीवयत् ॥ पक्षी ओम् तं स्वाहा जापी विद्येयं गारुडी परा । गरुडोऽहं गारुडं हि शृणु रुद्र ! महात्मकम् ॥” इत्याद्ये महापुराणे गारुडे प्रश्नाध्यायो नाम द्बितीयः ॥ * ॥ (अस्मिन् पुराणे एकोनविंशत्- सहस्रसंख्यकश्लोका वर्त्तन्ते । यथा, देवीभाग- वते । १ । ३ । ११ । “एकोनविंशत् साहस्रं गारुडं हरिभाषितम् ॥” अस्य विणेषविवरणन्तु पुराणशब्दे द्रष्टव्यम् ॥ * ॥) गारुडी विद्या गरुडपुराणे २०२ अध्यायादौ द्रष्टव्या ॥ स्वर्णम् । इति हेमचन्द्रः ॥ विषमन्त्रः । इति जटाधरः ॥ (गरुडः गरुडवर्णस्तस्येदम् । नरुड + अण् । गरुडवर्ण इव वर्णोऽस्येति भावः ।) मरकतमणिः । इति राजनिर्घण्टः ॥ (यथा- रघौ । १३ । ५३ । “त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः । राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति ॥” गरुडाकारेण सेनारचनयाधिष्ठितत्वात् महा- व्यूहभेदः । यथा, महाभारते । ६ । ५३ । २ । “गारुडञ्च महाव्यूहं चक्रे शान्तनवस्तदा ॥” एतस्य रचनायां गरुडाकृतित्वविवृतिर्यथा, तत्रैवाध्याये । ३--८ । “गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव । चक्षुषी च भरद्वाजः कृतवर्म्मा च सात्त्वतः ॥ अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ । त्रिगर्त्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतैः ॥ भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष ! । मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये ॥ जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः । पृष्ठे दुर्य्योधनो राजा सोदर्य्यैः सानुगैर्वृतः ॥ विन्दानुविन्दावावन्त्यौ काम्बोजाश्च शकैः सह । पुच्छमासन् महाराज ! शूरसेनाश्च मारिष ! ॥ दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः । कारूषाश्च विकुञ्जाश्च मुण्डाः कुण्डीवृषास्तथा ॥ बृहद्बलेन सहिता वामपार्श्वे समास्थिताः ॥” कदा वास्य व्यूहस्य प्रयोजनं तदाह मनुः । ७ । १८६--१८७ । “शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥” “सूक्ष्ममुखपश्चाद्भागः पृथुमध्यो वराहव्यूहः । एष एव पृथुतरमध्यो गरुडव्यूहः ॥” इति तट्टीका- कृत् कुल्लूकभट्टः ॥)
वाचस्पत्यम्[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गारुड¦ न॰ गरुडायोक्तं भगवता, तस्येदम् वा अण्।
१ गरुडपुराणे
२ विषहरमन्त्रभेदे जटाधरः। गरुडा-कृतित्वात्
३ व्यूहभेदे।
“गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा” भ॰ भी॰
५६ अ॰। तस्य च गरुडाकृतित्वंतदुत्तरश्लोकानां पर्य्यालोचनयाऽवसेयम्।
४ मरकतमणौराजनि॰ तस्य च नीलवर्णतया गरुडवर्णता तच्चगारुत्मतशब्दे वक्ष्यते।
“सोऽयं वटः श्याम इति प्रतीतोराशिर्मणीनामिव गारुडानाम्” रघुः।
५ स्वर्णेहेम॰ तल्लोमतुल्यवर्णत्वात्तथा।
६ पातालगरुडलतायाम्स्त्री राजनि॰ ङीप्। गरुडो देवताऽंस्य अण्।
७ अस्त्रभेदे।
“अलं विषादेन अर्जुनेन प्रयुक्तं गारुडम-स्त्रम्। पश्य पश्य। पक्षाघातनिपातमारुतभरोत्प्रो-त्क्षिप्तपृथ्वीधराश्चञ्चूदष्टविशालभोगभुजगाः सूर्य्योपकण्ठ-स्पृशः। सन्तोषं जनयन्त्यमी कुलगुरोस्तीक्ष्णास्तथा सा-रथेर्मन्ये वैरिनृपप्रमाथविकसद्विक्रान्तयः पक्षिणः”। धनञ्जयवि॰ तत्प्रयोगकृत्यमुक्तम्।
शब्दसागरः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गारुड¦ m. (-डः)
1. Gold.
2. A Mantra or charm against poison.
3. An emerald. E. गरुड the vehicle of VISHNU, and अण् affix; of or rela- ting to GARUDA.
Apte[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गारुड [gāruḍa], a. (-डी f.) [गरुडस्येदं अण्]
Shaped like Garuḍa.
Coming from or relating to Garuḍa.
डः, डम् An emerald; राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति R.13.53.
A charm against (snake) poison; संगृहीतगारुडेन K.51 (where it has sense 1 also).
A missile presided over by Garuḍa.
A military array (व्यूह) of the shape of Garuḍa.
Gold.
Monier-Williams[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गारुड mfn. (fr. गर्) , shaped like the bird गरुड, coming from or relating to गरुडMBh. vi R. vi , vii etc.
गारुड mfn. N. of a कल्पperiod MatsyaP. liii , 52
गारुड mfn. a kind of rice Gal.
गारुड n. (= गरुड-माणिक्य)an emerald Ragh. xiii , 53 (?)
गारुड n. (used as an antidote) Ka1d. iii , 29
गारुड n. gold L.
गारुड n. a मन्त्रagainst poison L.
गारुड n. N. of a तन्त्रwork.
Purana Encyclopedia[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Gāruḍa : adj.: Of a vyūha.
Described as mahāvyūha; used by Bhīṣma on the third day of the war. [See Garuḍa ]
_______________________________
*3rd word in right half of page p103_mci (+offset) in original book.
Mahabharata Cultural Index[सम्पाद्यताम्]