गिरिज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिजम्, क्ली, (गिरौ जायते इति । जन् + डः ।) अभ्रकम् । शिलाजतु । शैलजम् । लोहम् । इति मेदिनी । जे २३ ॥ गैरिकम् । इति राज- निर्घण्टः ॥

गिरिजः, पुं, (गिरौ जायते इति । जन् + डः ।) मधूकवृक्षविशेषः । तत्पर्य्यायः । गौरशाकः २ मधूलः ३ स्वल्पपत्रकः ४ । इति रत्नमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिज नपुं।

अभ्रकम्

समानार्थक:अभ्रक,गिरिज,अमल

2।9।100।1।3

गवलं माहिषं शृङ्गमभ्रकं गिरिजामले। स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

गिरिज नपुं।

शिलाजतुः

समानार्थक:गैरेय,अर्थ्य,गिरिज,अश्मज,शिलाजतु

2।9।104।1।3

गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु। वोलगन्धरसप्राणपिण्डगोपरसाः समाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिज¦ न॰ गिरौ जायते जन--ड।

१ शैलजे शिलाजतुनि

२ लोर्ध्रे

३ अभ्रके च मेदि॰।

४ गेरिके राजनि॰

५ मधुकवृक्षे

६ गौरशाके पु॰ रत्नमा॰।

७ हिमाद्रिजातायां पार्वत्यां[Page2589-b+ 38] स्त्री
“आगतं शिवबक्त्रेभ्यो गतश्च गिरिजानने” यामलम्।
“यदा यदा स गिरिजामृदुनामाक्षरागतम्” काशी॰

६६ अ॰

८ मातुलाङ्ग्यां स्त्री मेदि॰

९ श्वेतवुह्नायां रत्नमा॰।

१० क्षुद्रपाषाणभेदलतायां

११ त्रायमाणलतायां

१२ कारीवृक्षे

१३ मल्लिकायां

१४ गिरिकदल्यां च स्त्री राजनि॰।

१५ पर्वतजातमात्रे त्रि॰। गिरि वाचि जायते जन--डअलुक्स॰।

१६ स्तुतिरूपवाक्यनिष्पन्ने च
“मरुत्वते गिरिजाएवया मरुत्” ऋ॰

५ ।

८७ ।

२ । गिरिजा वाचिनिष्पन्नाः” भा॰। पार्वत्या हिमालयरूपगिरेर्जन्मकथा शिवपुराणे

१३ अ॰हिमालयस्य मेनकानाम्नी पत्नी बभूवेत्युक्त्वा
“प्रसूतिरभव॰त्तस्याः मेनायाः कन्यका शुभा” इत्युपक्रमे
“तां पार्वती-त्याभिजनाच्च नामतो जुहाव तद्बन्धुजनः स्वभावतः। मात्रा निषिद्धा तपसे यदा तु सा ययावुमाख्यां भवभक्तिभाविनी”। कालिकापुराणे तु तस्याः कालीतिनाम तत्-कथा

४१ ।

४२ अ॰ दृश्या।

१७ गङ्गायाञ्च स्त्री तस्या अपितत उत्पत्तिकथा कालिकापु॰

४७ अ॰ दृश्या।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिज¦ mfn. (-जः-जा-जं) Mountain-born, mountaineer. &c. m. (-जः) The Mahuwa tree, (Bassia.) f. (-जा)
1. A name of goddes PARVATI, as the daughter of the personified HIMALAYA mountain
2. The Shad- dock or pumplemouce, (Citrus decumana.)
3. A plant considered as a white species of Rasna: see राम्ना।
4. The hill plantain.
5. Jas- mine.
6. A pebble, a small stone. n. (-जं)
1. Talc.
2. Benzoin or gum benjamin; it is also confounded with styrax, another gum resin.
3. Bitumen.
4. Iron. E. गिरि, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिज/ गिरि--ज m. " mountain-born " , the Mahwa tree (Bassia) L.

गिरिज/ गिरि--ज m. Bauhinia variegata L.

गिरिज/ गिरि--ज m. N. of a बाभ्रव्यAitBr. vii , 1 , 7

गिरिज/ गिरि--ज n. talc L.

गिरिज/ गिरि--ज n. red chalk , ruddle L.

गिरिज/ गिरि--ज n. iron L.

गिरिज/ गिरि--ज n. benzoin or gum benjamin W.

"https://sa.wiktionary.org/w/index.php?title=गिरिज&oldid=499315" इत्यस्माद् प्रतिप्राप्तम्