सामग्री पर जाएँ

गुज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुज, कूजने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) पञ्चमस्वरी । गोजति । कूजन- मव्यक्तशब्दः । इति दुर्गादासः ॥

गुज, इ कूजने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) पञ्चमस्वरी । इ, कर्म्मणि गुञ्ज्यते । कूजनमव्यक्तशब्दः । गुञ्जति भ्रमरः कुञ्जे । इति दुर्गादासः ॥

गुज, शि ध्वनौ । इति कविकल्पद्रुमः ॥ (तुदां- (कुटां)-परं-अकं-सेट् ।) शि, गुजति अगु- जीत् जुगोज । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुज¦ ध्वनौ तुदा॰ कुटा॰ पर॰ अक॰ सेट्। गुजति अगुजिष्टजुगोज। प्रनिगुजति।

गुज¦ कूजने भ्वा॰ पर॰ अक॰ सेट्। जोजति अगोजीत्। जुगेज।

गुज¦ कूजने भ्वा॰ पर॰ सक॰ सेट् इदित्। गुञ्जति अगुञ्जीत्जुगुञ्ज गुञ्जितम् गुञ्जः गुञ्जन्। (गुनगुन)इति ध्वनितमिह कूजनम्।
“न जुगुञ्ज यः कल-मिति”।
“न गुञ्जितं तन्न जहार यन्मनः”।
“रेणून् पुपूरिरे गुञ्जा” जुगुञ्जुः करघट्टिताः” भट्टिः।
“लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन्”
“गुञ्जन्मत्तमधुव्रतः” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुज¦ r. 1st cl. (गोजति) or (शि) r. 6th cl. (गुजति) or (इ) गुजि r. 1st cl. (गुञ्जति) To sound, to sound inarticulately, to buz, to hum, &c.

"https://sa.wiktionary.org/w/index.php?title=गुज&oldid=332364" इत्यस्माद् प्रतिप्राप्तम्