गुड
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुड, इ क वेष्टे । रक्षे । इति कविकल्पद्रुमः ॥ (चुरां-परं-सकं-सेट् ।) पञ्चमस्वरी । इ क, गुण्डयति । अनेकार्थत्वाच्चूर्णीकरणेऽपि । गुण्ड- यति हिङ्गुलं लोकः । इति दुर्गादासः ॥
गुड, शि रक्षे । व्याघाते । इति कविकल्पद्रुमः ॥ (तुदां-(कुटां)-परं-सकं-सेट् ।) शि, गुडति अगुडीत् । इति दुर्गादासः ॥
गुडः, पुं, (गवते अव्यक्तशब्दं करोतीति । गु ङ शब्दे + “क्वादिभ्यः कित् ।” उणां । १ । ११४ । इति डः स च कित् ।) गोलः । हस्तिसन्नाहः । इति मेदिनी । डे । १० ॥ ग्रासः । इति हेम- चन्द्रः ॥ कार्पासी । इति राजनिर्घण्टः ॥ इक्षु- पाकः । इत्यमरः । ३ । ३ । ४१ । तस्य पर्य्यायः । इक्षुसारः २ मधुरः ३ रसपाकजः ४ खण्डजः ५ द्रवजः ६ सिद्धः ७ मोदकः ८ अमृतसारजः ९ शिशुप्रियः १० सितादिः ११ अरुणः १२ रसजः १३ । इति राजनिर्घण्टः ॥ इक्षुरसक्वाथः १४ गण्डोलः १५ मधुवीजकः १६ । इति वैद्यकम् ॥ गण्डोलम् १७ गुलः १८ स्वादुखण्डः १९ । इति शब्दरत्नावली ॥ स्वादुः २० । इति त्रिकाण्डशेषः ॥ अस्य गुणाः । वृष्यत्वम् । स्निग्धत्वम् । गुरुत्वम् । वातनाशित्वम् । मूत्रशोधनत्वम् । नातिपित्तहरत्वम् । मेदःकफ- कृमिवलप्रदत्वञ्च । इति राजवल्लभः ॥ मधुरत्वम् । क्षारत्वम् । उष्णत्वम् । कफनाशित्वम् । पित्त- रक्ते अहितत्वम् । जीर्णश्चैव रसायनः ॥ पुरा- तनस्य तस्य गुणाः । पित्तपवनार्त्तित्रिदोषपाण्डु- प्रमेहश्रमनाशित्वम् । द्रव्यान्तरसंयोगेन विशे- षतो ज्वरनाशित्वम् । रुचिकारित्वम् । हृद्य- त्वम् । सन्तापशान्तिप्रदत्वम् । विण्मूत्रामय- शोधनत्वम् । अग्निजननत्वम् । स्निग्धत्वम् । स्वादु- तरत्वम् । लघुत्वम् । पथ्यत्वञ्च । इति राज- निर्घण्टः ॥ अधिकगुणत्वम् । रक्तप्रसन्नबल- कारित्वम् । मधुरत्वञ्च । इति राजवल्लभः ॥ यावनालरसपाकभवगुडगुणाः । क्षारत्वम् । कटु- त्वम् । मधुरत्वम् । कफवातनाशित्वम् । पित्त- प्रदत्वम् । सततनिषेवणेन कण्डूतिकुष्ठजनन- त्वम् । जनन इत्यत्र शमन इति क्वचित् पाठः । अस्रविदाहदायित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ “इक्षो रसो यः संपक्वो जायते लोष्टवद्दृढः । स गुडो गौडदेशे तु मत्स्यण्ड्येव गुडो मतः ॥ श्लेष्माणमाशु विनिहन्ति सदार्द्रकेण पित्तं निहन्ति च तदेव हरीतकीभिः । शुण्ठ्या समं हरति वातमशेषमित्थं दोषत्रयक्षयकराय नमो गुडाय ॥ इति भावप्रकाशः ॥ (“बल्यो वृष्यो गुरुः स्निग्धो वातघ्नो मूत्रशोधनः । नातिपित्तहरो मेध्यः कफक्रिमिकरो गुडः ॥ पित्तघ्नो मधुरः शुद्धो वातहा मूत्रशोधनः । स पुराणोऽधिकगुणो गुल्मार्शोऽरोचकापहः ॥ क्षये कासे क्षतक्षीणे पाण्डुरोगेऽसृजि क्षये । हितो योगेन संयुक्तो गुडः पथ्यतमो मतः ॥ गुदामये कामलशोषमेहे गुल्मामये पाण्डुहलीमके च । वाते सपित्तासृजि राजरोगे रुचिप्रदो रोगहरो गुडः स्यात् ॥ कासे शोफे गुडो नेष्टः अन्यत्रापि हितो मतः । योगयुक्तोऽपि सर्व्वत्र हितो गुणगणो नयः ॥ क्षामक्षीणे पवनकुपिते श्वासमूर्च्छातुराणां अध्वश्रान्तश्रममदविषे मूत्रकृच्छ्राश्मरीणाम् । जीर्णः क्षामज्वरविषमगे रक्तपित्तप्रकोपे तृष्णादाहक्षयरुधिरगे सर्व्वरोगान्निहन्ति ॥” इति गुडगुणाः ॥ इति हारीते प्रथमस्थानेऽष्टमेऽध्याये ॥ * ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुड पुं।
गोलः
समानार्थक:गुड
3।3।42।1।2
दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः। सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥
पदार्थ-विभागः : आकृतिः
गुड पुं।
इक्षुपाकः
समानार्थक:गुड
3।3।42।1।2
दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः। सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥
पदार्थ-विभागः : पक्वम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुड¦ वेष्टने रक्षणे चूर्णने च चुरा॰ उभ॰ इदित सक॰ सेट्। गुण्डयति--ते अजुगुण्डत्--त। गुण्डः गुण्डिता। गुण्डनं गुण्डा।
गुड¦ रक्षणे व्याषात च तुदा॰ कटा॰ पर॰ सक॰ सेट्। गुडति। अगुडोत। जुगोड। [Page2597-b+ 38]
गुड¦ पु॰ गु--ड कित्।
१ इक्षुविकारे इक्षुशब्दे
९०
९ पृ॰विवृतिः।
“ऐक्षवं गुडवर्जितम्” ति॰ त॰। गुडेन निर्वृत्तादिगुड + अश्मा॰ र। गुडर गुडनिर्वृत्ते त्रि॰। गुडायसाधुगुडा॰ ठञ्। गौडिक गुडसाधने इक्षौ। भक्ष्येणमिश्रणे स॰ गुडधाना गुडौदन गुडमिश्रितधानादौ।
“सिता चतुर्गुणा देया वटीषु द्विगुणो गुडः” वैद्यकम्।
२ गोले वर्त्तुलाकारपदार्थे
“प्रादुरासन्महीपाल! कार्ष्णायसमया गुडाः” भा॰ द्रो॰
२०
० अ॰
३ हस्तिसन्नाहे मेदि॰।
४ ग्रासे हेमच॰।
५ कार्पास्यांस्त्री राजनि॰।
६ स्नुहीवृक्षे स्त्री गुडाप्रायाः केशायस्य। गुडाकेशः अर्ज्जुनः। उज्ज्वलद॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुड(शि)¦ r. 6th cl. (गुडति) To defend, to guard or preserve. (इ) गुडि r. 1st and 10th cls. (गुण्डति गुण्डयति)
1. To surround, to enclose,
2. To pound, to grind, to reduce to powder.
3. (According to some authorities,) To preserve.
गुड¦ mfn. (-डः-डा-डं) Round, globular, m. (-डः)
1. A globe or ball.
2. Treacle, molasses, the first thickening of the juice of the cane by boiling.
3. Anelephant's trappings or armour.
4. A mouthful. f. (-डा)
1. A plant, (Euphorbia tirucalla:) see स्नुही
2. Powder, pounded substance. E. गुङ् to sound, affix ड।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुड [guḍa], a. Thick; मुखं मुकुन्दस्य गुडालकावृतम् Bhāg.1.38.9. cf. गुडाकेशः.
गुडः [guḍḥ], 1 Treacle, molasses; गुडधानाः Sk.; गुडौदनः Y.1. 34; गुडद्वितीयां हरीतकीं भक्षयेत् Suśr.
A globe, ball; साग्निः सगुडशृङ्गिका Mb.3.15.8.
A ball for playing with.
A mouthful, bit.
An elephant's armour.
The cotton tree.
A pill; Śāraṅgdhara 13.1.-Comp. -उदकम् water mixed with molasses. -उद्भवा sugar. -ओदनम् rice boiled with coarse sugar; Y.1. 33. -करी f. N. of a Rāgiṇī (गुर्जरी). -तृणम्, -दारुः, -रुn. sugar-cane. -त्वच्-चा f. the aromatic bark of the Laurus Cassia (Mar. दालचिनी). -धेनुः f. a milch-cow symbolically represented by molasses and offered as a present to Brāhmaṇas. -पिष्टम् a sort of sweatmeat, flour and molasses ground and boiled together; Y.1. 289. -फलः the Pīlu tree. -शर्करा refined sugar. -शृङ्गम् a cupola. -शृङ्गिका an apparatus or missile for throwing balls; Mb.3.15.8. -हरीतकी myrobalan preserved in molasses (Mar. मुरांवळा).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गुड m. (See. गुटिका, गुल; गुड्Un2. 1 ) a globe or ball MBh. iii , vii
गुड m. a ball to play with(See. गिरि-) L.
गुड m. a pill S3a1rn3gS. xiii , 1
गुड m. a bit , mouthful L.
गुड m. sugar which forms itself into lumps , dry sugar , treacle , molasses , first thickening of the juice of the sugar-cane by boiling Ka1ty. Mn. Ya1jn5. MBh. etc.
गुड m. an elephant's trappings or armour L.
गुड m. the cotton tree L.
गुड m. Euphorbia antiquorum L.
गुड m. ( pl. )N. of a people (in मध्य-देश) VarBr2S. xiv , 3
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--with ghee for पिण्ड at Gaya. वा. १०५. ३४.