गुडः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडः, पुं, (गवते अव्यक्तशब्दं करोतीति । गु ङ शब्दे + “क्वादिभ्यः कित् ।” उणां । १ । ११४ । इति डः स च कित् ।) गोलः । हस्तिसन्नाहः । इति मेदिनी । डे । १० ॥ ग्रासः । इति हेम- चन्द्रः ॥ कार्पासी । इति राजनिर्घण्टः ॥ इक्षु- पाकः । इत्यमरः । ३ । ३ । ४१ । तस्य पर्य्यायः । इक्षुसारः २ मधुरः ३ रसपाकजः ४ खण्डजः ५ द्रवजः ६ सिद्धः ७ मोदकः ८ अमृतसारजः ९ शिशुप्रियः १० सितादिः ११ अरुणः १२ रसजः १३ । इति राजनिर्घण्टः ॥ इक्षुरसक्वाथः १४ गण्डोलः १५ मधुवीजकः १६ । इति वैद्यकम् ॥ गण्डोलम् १७ गुलः १८ स्वादुखण्डः १९ । इति शब्दरत्नावली ॥ स्वादुः २० । इति त्रिकाण्डशेषः ॥ अस्य गुणाः । वृष्यत्वम् । स्निग्धत्वम् । गुरुत्वम् । वातनाशित्वम् । मूत्रशोधनत्वम् । नातिपित्तहरत्वम् । मेदःकफ- कृमिवलप्रदत्वञ्च । इति राजवल्लभः ॥ मधुरत्वम् । क्षारत्वम् । उष्णत्वम् । कफनाशित्वम् । पित्त- रक्ते अहितत्वम् । जीर्णश्चैव रसायनः ॥ पुरा- तनस्य तस्य गुणाः । पित्तपवनार्त्तित्रिदोषपाण्डु- प्रमेहश्रमनाशित्वम् । द्रव्यान्तरसंयोगेन विशे- षतो ज्वरनाशित्वम् । रुचिकारित्वम् । हृद्य- त्वम् । सन्तापशान्तिप्रदत्वम् । विण्मूत्रामय- शोधनत्वम् । अग्निजननत्वम् । स्निग्धत्वम् । स्वादु- तरत्वम् । लघुत्वम् । पथ्यत्वञ्च । इति राज- निर्घण्टः ॥ अधिकगुणत्वम् । रक्तप्रसन्नबल- कारित्वम् । मधुरत्वञ्च । इति राजवल्लभः ॥ यावनालरसपाकभवगुडगुणाः । क्षारत्वम् । कटु- त्वम् । मधुरत्वम् । कफवातनाशित्वम् । पित्त- प्रदत्वम् । सततनिषेवणेन कण्डूतिकुष्ठजनन- त्वम् । जनन इत्यत्र शमन इति क्वचित् पाठः । अस्रविदाहदायित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ “इक्षो रसो यः संपक्वो जायते लोष्टवद्दृढः । स गुडो गौडदेशे तु मत्स्यण्ड्येव गुडो मतः ॥ श्लेष्माणमाशु विनिहन्ति सदार्द्रकेण पित्तं निहन्ति च तदेव हरीतकीभिः । शुण्ठ्या समं हरति वातमशेषमित्थं दोषत्रयक्षयकराय नमो गुडाय ॥ इति भावप्रकाशः ॥ (“बल्यो वृष्यो गुरुः स्निग्धो वातघ्नो मूत्रशोधनः । नातिपित्तहरो मेध्यः कफक्रिमिकरो गुडः ॥ पित्तघ्नो मधुरः शुद्धो वातहा मूत्रशोधनः । स पुराणोऽधिकगुणो गुल्मार्शोऽरोचकापहः ॥ क्षये कासे क्षतक्षीणे पाण्डुरोगेऽसृजि क्षये । हितो योगेन संयुक्तो गुडः पथ्यतमो मतः ॥ गुदामये कामलशोषमेहे गुल्मामये पाण्डुहलीमके च । वाते सपित्तासृजि राजरोगे रुचिप्रदो रोगहरो गुडः स्यात् ॥ कासे शोफे गुडो नेष्टः अन्यत्रापि हितो मतः । योगयुक्तोऽपि सर्व्वत्र हितो गुणगणो नयः ॥ क्षामक्षीणे पवनकुपिते श्वासमूर्च्छातुराणां अध्वश्रान्तश्रममदविषे मूत्रकृच्छ्राश्मरीणाम् । जीर्णः क्षामज्वरविषमगे रक्तपित्तप्रकोपे तृष्णादाहक्षयरुधिरगे सर्व्वरोगान्निहन्ति ॥” इति गुडगुणाः ॥ इति हारीते प्रथमस्थानेऽष्टमेऽध्याये ॥ * ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुडः [guḍḥ], 1 Treacle, molasses; गुडधानाः Sk.; गुडौदनः Y.1. 34; गुडद्वितीयां हरीतकीं भक्षयेत् Suśr.

A globe, ball; साग्निः सगुडशृङ्गिका Mb.3.15.8.

A ball for playing with.

A mouthful, bit.

An elephant's armour.

The cotton tree.

A pill; Śāraṅgdhara 13.1.-Comp. -उदकम् water mixed with molasses. -उद्भवा sugar. -ओदनम् rice boiled with coarse sugar; Y.1. 33. -करी f. N. of a Rāgiṇī (गुर्जरी). -तृणम्, -दारुः, -रुn. sugar-cane. -त्वच्-चा f. the aromatic bark of the Laurus Cassia (Mar. दालचिनी). -धेनुः f. a milch-cow symbolically represented by molasses and offered as a present to Brāhmaṇas. -पिष्टम् a sort of sweatmeat, flour and molasses ground and boiled together; Y.1. 289. -फलः the Pīlu tree. -शर्करा refined sugar. -शृङ्गम् a cupola. -शृङ्गिका an apparatus or missile for throwing balls; Mb.3.15.8. -हरीतकी myrobalan preserved in molasses (Mar. मुरांवळा).

"https://sa.wiktionary.org/w/index.php?title=गुडः&oldid=332483" इत्यस्माद् प्रतिप्राप्तम्