गुण

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण, त् क मन्त्रणे । इति कविकल्पद्रुमः ॥ (अदन्त चुरां-परं-सकं-सेट् ।) ह्रस्वी । मूर्द्धन्योपधः । गुणयति । इति दुर्गादासः ॥

गुणः, पुं, (गुण्यते मन्त्र्यते मन्त्रणादिभिर्निश्चीयते राजभिरितिशेषः । गुण मन्त्रणे + घञ् ।) षट्- प्रकारराजनीतिविशेषः । तद्यथा । सन्धिः १ विग्रहः २ यानम् ३ आसनम् ४ द्वैधम् ५ आश्रयः ६ ॥ (यथा, मनुः । ७ । १६० । “सन्धिञ्च विग्रहञ्चैव यानमासनमेव च । द्वैधीभावं संश्रयञ्च षड्गुणांश्चिन्तयेत् सदा ॥” एते षड्गुणास्तु नीतिविदा राज्ञा कदा केनो- पायेन च प्रयोक्तव्यास्तद्विवरणादिकन्तु तत्रैव । ७ । १६१ । श्लोकमारभ्य द्रष्टव्यम् ॥) धनुरा- कर्षणरज्जुः । छिला इति भाषा । (यथा, रघुवंशे । ९ । ५४ । “अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडि द्गुणसंयुतम् । धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेशरी ॥”) तत्पर्य्यायः । मौर्व्वी २ ज्या ३ शिञ्जिनी ४ शिञ्ज्या ५ ज्यावा ६ पतञ्चिका ७ । इति शब्द- रत्नावली ॥ जीवा ८ । इति जटाधरः ॥ रज्जुः । (यथाह कश्चित् । “गुणवन्तोऽपि सीदन्ति न गुणग्राहको यदि । सगुणोऽपि पूर्णकुम्भो यथा कूपे निमज्जति ॥” सूत्रम् । यथा, आर्य्यासप्तशत्याम् । ३६९ । संख्या ५ परिमाणम् ६ पृथक्त्वम् ७ संयोगः ८ विभागः ९ परत्वम् १० अपरत्वम् ११ बुद्धिः १२ सुखम् १३ दुःखम् १४ इच्छा १५ द्वेषः १६ यत्नः १७ गुरुत्वम् १८ द्रवत्वम् १९ स्नेहः २० संस्कारः २१ धर्म्मः २२ अधर्म्मः २३ शब्दः २४ । इति भाषापरिच्छेदः ॥ (सात्त्विकनायकगुणा यथा, साहित्यदर्पणे । ३ । ५८ । “शोभाविलासोमाधुर्य्यङ्गाम्भीर्य्यं ध्यैर्य्यतेजसी । ललितौदार्य्यमित्यष्टौ सत्त्वजाः पौरुषागुणाः ॥ एतेषां विशेषविवरणन्तु तत्तच्छब्दे द्रष्टव्यम् ॥) अप्रधानम् । सूदः । इन्द्रियम् । त्यागः । वटी । इति मेदिनी ॥ णे । १० ॥ भीमसेनः । तन्तुः । दोषान्यविशेषणम् । इति हेमचन्द्रः ॥ विद्यादि । इति विश्वः ॥ (व्यञ्जनम् । यथा, मनुः । ३ । २२६ । “गुणांश्च सूपशाकाद्यान् पयोदधिघृतं मधु । विन्यसेत् प्रयतःसम्यक् भूमावेव समाहितः ॥” “गुणान् व्यञ्जनानि अन्नापेक्षयाऽप्राधान्यात् गुणयुक्तान् वा ।” इति तट्टीकायां कुल्लूकभट्टः ॥ आवृत्तिः । यथा, महाभारते । “आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणाः । षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥”) व्याकरणोक्तसंज्ञाविशेषः । यथा । इङोऽरले- ङ्णुः । अस्यार्थः । इ उ ॠ ऌ एषां स्थाने ए ओ अर् अल् एते गुणसंज्ञा भवन्ति । इति मुग्धबोधम् । काव्यगुणस्य लक्षणं यथा, -- ये रसस्याङ्गिनो धर्म्माः शौर्य्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥ इति काव्यप्रकाशः ॥ तस्य भेदाः । श्लेषः प्रसादः समता माधुर्य्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥ इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ॥ इति दण्डी ॥ माधुर्य्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश ॥ तस्य दशसंख्याभावे हेतुर्यथा, -- केचिदन्तर्भवन्त्येषु दोषत्यागात् परे श्रिताः । अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥ इति भरतमुनिः । स्मृत्युक्तगुणविशेषा उपवास- शब्दे द्रष्टव्याः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण पुं।

ज्या

समानार्थक:मोर्वी,ज्या,शिञ्जिनी,गुण

2।8।85।1।6

लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः। स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम्.।

पदार्थ-विभागः : उपकरणम्,आयुधम्

गुण वि।

पाककर्ता

समानार्थक:सूपकार,बल्लव,आरालिक,आन्धसिक,सूदा,औदनिक,गुण

2।9।28।1।5

आरालिका आन्धसिकाः सूदा औदनिका गुणाः। आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु॥

स्वामी : महानसाधिकारी

वृत्ति : पचनम्

 : महानसाधिकारी

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

गुण पुं।

रज्जुः

समानार्थक:शुल्ब,वराटक,रज्जु,वटी,गुण

2।10।27।1।5

शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः। उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः॥

 : गजमध्यबन्धनचर्मरज्जुः, वृषादेर्युगबन्धनरज्जुः, दोहनकाले_पादबन्धनरज्जुः, पशुबन्धनरज्जुः, चर्ममयरज्जुः, अश्वादेस्ताडनी, प्रग्रहः, तुलासूत्रम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

गुण पुं।

रूपरसगन्धादयः

समानार्थक:गुण

3।3।47।1।1

मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः। निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः॥

पदार्थ-विभागः : , गुणः

गुण पुं।

सत्वरजस्तमाः

समानार्थक:गुण

3।3।47।1।1

मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः। निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

गुण पुं।

शुक्लनीलादयः

समानार्थक:गुण

3।3।47।1।1

मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः। निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः॥

पदार्थ-विभागः : , गुणः, रूपम्

गुण पुं।

सन्धिविग्रहादयः

समानार्थक:गुण

3।3।47।1।1

मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः। निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण¦ आमन्त्रणे आम्रेडने आवृत्ता इत्येकं अद॰ चु॰ उभ॰ सक॰सेट्। गुणयति--ते अजुगुणत्--त।
“गुण्यान्त्यमङ्कंगुणकेन हन्यात्”।
“विषमे गच्छे व्येके गुणकःस्थाप्यः समेऽर्द्धिते वर्गः”
“गुण्यः पृथग्वा गुणित-समेतः” लीला॰।
“वर्गेण वर्गं गुणयेत् भजेच्च” वीजग॰[Page2601-a+ 38]

गुण¦ पु॰ गुण--भावे कर्त्तरि वा अच्।

१ धनुषोमौर्व्याम्धनुराकर्षणदामनि,

२ रज्जुमात्रे,
“गुणवन्तीऽपि सी-दन्ति न गणग्राहको यदि। सगुणीऽपि पूणकुम्भोयथा कूपे निभज्जति” उद्भटः।

३ शौर्य्यादिधर्मे, राज्ञां

४ सन्धिविग्रहादिषु षट्सु साधनेषु,
“षड्गुणाःशक्तयान्तिस्रः” अमर।
“षाड्गुण्यनुपयुञ्जते” इतिमावः।

५ ज्ञानविद्यादिषु,
“गुणा गुणानुबन्धिचादिति” रघुः। सांख्यतते पुरुषोपभोगोपकरणभूतत्वात् तद्बन्धनो-पयोगित्वाच्च सत्वरजस्तमआदिषु

६ पदार्थेषु।
“प्रकृते-र्गुणसमूढाः सज्जन्ते गुणकर्मसु” गीता।

७ अप्र-धाने,
“षष्ठीं कुर्य्यात्तदा गुणे” भर्त्तृहरिः। तद्-म णसंविज्ञानबहुयोहिः। न्यायमते

८ रूपादिषु चतुर्विं-शतिपार्थेषु
“सत्वे निविशतेऽपैति पृथग्जातिषुदृश्यते। आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः” भाव्योक्ते द्रव्यसात्राश्रिते द्रव्यभिन्ने उत्पाद्यानुपाद्यता-समानाधिंकरणे सिद्धरूपे

९ वस्तुधर्मे,
“अदेङ्गुणः” पा॰परिभाषिते

१० अकारे

११ एकारे

१२ ओकारे च
“दुषधा-तोरिवास्माकं दोषसम्पत्तये गुणः” उद्भटः। अलङ्कारोक्तेषु

१३ माधुर्य्यादिषु,
“तददोषौ शब्दार्थौ सगुणावनलङ्कृतो पुनः क्वापि” काव्यप॰।
“निर्दोषं गुण-वत् काव्यमलङ्कारैरलङ्कृतम्” सा॰ द॰।

१४ आवृत्तौ,
“विधियज्ञाज्जपयज्ञो विशिष्टो दशमिर्गुणेः” मनुः।

१५ उ-त्कर्षे,।

१६ विशेषणे
“समासतद्धितकृतां यत्किञ्चिदुप-दर्शकम्। प्रधानगुणभावे च तत्र दृष्टो विपर्ष्ययः” सा-काङ्क्षापयवं भेदे, परानाकाङ्क्षशब्दकम्। क्रियाप्रधानमे-कार्थं सगुणं वाक्यमुच्यते” हरिः। सगुणं सविशेषणंक्रियान्वयिकरणादिविशेषणसहितमित्यर्थः।

१७ अप्रधान-धर्मभेदे तेजोबलवीर्य्यैश्वर्यवैराग्यादिशक्त्यादौसं हि परा-श्रितत्वादप्रधानभूतः
“उपैत्यन्यज्जहात्यन्यत् दृष्टोद्रव्यान्त-एष्वपि। वाचकः सर्वलिङ्गानां द्रव्यादन्योगुणः स्मृतः” इत्युक्तलक्षणे

१८ धर्मभेदे च देशकालज्ञतादिषु चतुर्दसु

१९ धर्मभेदेषु ते च
“देशकालज्ञता

१ दार्द्यं

२ सर्वक्लेशसहि-ष्णुता

३ । सर्वविज्ञानता

४ दाक्ष्य

५ मोजः

६ संवृत-मन्त्रता

७ । अविसंवादिता

८ शौर्य

९ शक्तिज्ञत्वं

१० कृत-ज्ञता

११ । शरणागतवात्सल्य

१२ ममर्षित्व

१३ मचापलम्

१४ । एते चतुर्दशगुणाः प्रोक्ताः शास्त्रेषु सूरिभिः” इत्युक्ताः।
“दया सर्वभूतेषु

१ , क्षान्तिः

२ अनसूया

३ शौचम्

४ अना-यासः

५ मङ्गलम्

६ अकार्पण्यम्

७ अस्पृहा

८ इति”। [Page2601-b+ 38]

२० गौतमोक्तधर्मभेदे।

२१ सूदे

२२ इन्द्रिये

२३ त्यागे

२४ वट्याम्मेदि॰। दोषान्यधर्मे

२५ विद्यादौ मुमुक्षासाधने

२६ विवे-कवैराग्यसुश्रूषादौ च।
“प्रक्षीणदोषाय गुणान्विताय” वेदान्तसा॰। प्रधाननिर्वाहके

२७ अङ्गे।
“गुणानाञ्च प-रार्थत्वादसम्बन्धः समत्वात् स्यात्” जैमि॰। तिथिनक्षत्र-वारादिसाधनं पुण्यपापयोः प्रधानगुणभावेन सात-न्त्र्येण न ते क्षमाः”
“शब्दात्तु तदुवस्थानमुपादेये गुणोभवेत्” भट्टका॰।

२८ सादृस्यादिवस्तुधर्म च।
“लक्ष्य-माणगुणैर्योगात् वृत्तोरष्टा तु गौणता” काव्यप्र॰।

२९ वस्तुधर्ममात्रे
“गुणः प्रधानसंस्कारः प्रधानं प्रति-पद्यते” काव्यप॰।
“सतो गुणान्तराधनं प्रतियत्नः” सि॰ कौ॰।
“गन्धं स्पर्शोरसो रूपं शब्दश्चेति गुणाःस्मृताः। तस्य गन्धस्य वक्ष्यामि विस्तरामिहितान्गुणान्” भा शा॰

१८

४ अ॰। गन्धरूपगुणस्य
“गु-णादिर्निर्गुणक्रिय” इत्युक्तेः प्रसिद्धगुणशून्यत्वात्धर्ममात्रपरता
“निर्गुणं निष्क्रियं शान्तं निरवद्यंनिरञ्जनत्वं इत्यादिश्रुतौ गुणशब्दस्य धर्ममात्रपर-त्वम्।
“ब्रह्मत् ब्रह्मण्यनिर्दिश्ये निर्गुणे गुणवृत्तयः। कथं चरन्ति श्रुतयः” माग॰

१० ।

८७ अ॰।

३० दूर्वायाम् स्त्री राजनि॰ तस्या बहुतन्तुमत्त्वात्तथा-वर्ण्णोत्पत्त्यनन्तरभाविषु शिक्षोक्तेषु

३१ विवारादिषु बाह्य-प्रयत्नेषुपु॰
“वर्णाभिव्यक्त्यनन्तरभाविनस्तु आन्तरतम्यपरी-क्षोपयुक्ताः कण्ठविवरविकाशादेरास्यबहिर्भागावच्छिन्नस्यकार्य्यस्य जनका यत्ना गुणशब्देनोच्यत्ते” शब्देन्दुशे-खरः। बाह्यप्रयत्नाश्च एकादशघा विवारसवार-श्वासतादघोषाघोषाल्पप्राणमहाप्राणाः उदात्तादयश्चत्रयःस्वराः।
“स्थानेऽन्तरतमः” पा॰।
“तुल्यास्यप्रयत्नंसवर्णमिति” पा॰।
“सादृश्यञ्च स्थानतो वर्णतः गुणतःप्रमाणतश्च” तत्र गुणतः (बाह्यप्रयत्नात्) यथा। नादवतोघोषवतो महाप्राणस्य संवृतकण्ठस्थस्य हकारस्य स-दृशस्तादृश एव थकारः”। सुश्रुतोक्ते

३२ अष्टविधवीर्य्येच।
“केचिदाहुरष्टविधं वीर्य्यम् उष्णं शीतं स्निग्धंरूक्षं विशदं पिच्छितं मृदु तीक्ष्णञ्च” सुश्रुते विभज्य
“वीर्य्य-संज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः” इति तेषांगुणत्वमुक्तम्। गुण--कर्मणि अच्।

३३ गुणिते।
“आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा। षड्गुणोव्यवसायश्च कामश्चाष्टगुणः स्मृतः चाण॰। वैद्यकोक्तद्रव्यगुणाश्चभावप्र॰ गुणग्रन्थे दृश्यास्तच्छवदे[Page2602-a+ 38] व ते प्रायेण उक्ता वक्ष्यन्ते च

३४ भीमसेने हेम॰

३५ त्रित्व-संख्यायाञ्च सत्वे निविशते इत्यस्यायमर्थः। सत्वं द्रव्यम्। सत्व एव निविशते इति सावधारणम्। तेन स त्ताव्यावर्त्त्यते। सत्ता हि न केवलं द्रव्ये वर्त्ततेकिन्तु द्रव्यगुणकर्मसु। ननु द्रव्य एव द्रव्यत्वं वर्त्ततेइति तत्रातिव्याप्तिरतआह अपैतीति असम्बन्धोभवतीत्यर्थः अर्थात् द्रव्ये यथा पीततायां जातायांफलादेर्नीलतापैति नैवं द्रव्यत्वं द्रव्यादपैति। एव-मपि गोत्वं गोषु वर्त्तते अश्वादावसम्बद्धम् तत्राति-व्याप्तिरतआह पृथग्जातिषु दृश्यत इति। गोत्रंहि द्रव्यत्वावान्तरनानाजातिषु न दृश्यते गुणस्तु दृश्यतेयथा अभ्रे नीलता दृष्टा तृणादिष्वपि सा दृश्यते। तेनपूर्व्वार्द्धेन सकलजातेर्व्यवच्छेदः। एवं तर्हि कर्म द्रव्येवर्त्तते ततोऽपैति, पृथग् जातिषु दृश्यते चेति तत्राति-व्याप्तिरतआह आधेयश्चाक्रियाजश्चेति। उत्पाद्यानुत्-पाद्यतासमानाधिकरणजातिमान् इत्यर्थः। तत्रोत्पाद्योयथा घटादेः पाकजो रूपादिः। अक्रियाजः अनुत्पाद्योयथा आकाशादेर्महत्त्वादिः। क्रिया तु सर्वाप्युत्पाद्यैवन क्वापि नित्येति तस्या नित्यत्वसामानाधिकरण्या-भावात् गुणत्वामावः। एवमपि द्रव्यस्य गुणत्वापत्तिःअवयविद्रव्यं हि अवयवद्रव्येषु निविशते, असमवा-यिकारणसंयोगनिवृत्तौ च स्वयं विनाशात्ततोऽपैति भि-न्नजातीयेषु च हस्तपादादिषु दृश्यते। तच्च द्विविधं भ-वति नित्यानित्यभेदेन निरवयवस्यात्मपरमाण्वादेर्नित्य-त्वादवयविद्रव्यस्य तु घटादेरनित्त्यत्वादतआह असत्व-प्रकृतिरिति। अद्रव्यस्बभावः द्रव्यभिन्न इति यावत्। वैशेषिकमतप्रसिद्धगुणभेदलक्षणादिकं कणादसूत्रवृत्त्यो-रुक्तं यथा
“रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथकत्वंसयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौप्रयत्नाश्च गुणाः”

१ ।

७ सू॰।
“गुणत्येन रूपेण गुणानां सर्वद्रव्याश्रितत्वं द्रव्याभिव्य-ङ्ग्यत्वं द्रव्याभिव्यञ्जकत्वञ्चेति द्रव्यानन्तरं गुणानामुद्देशंविभागञ्चाह रूपेत्यादि चकारेण गुरुत्वद्रवत्वस्नेहसंस्कार-धर्म्माधर्मशब्दान् समुच्चिनोति ते हि प्रसिद्धगुणभावा एवेतिकण्ठतो नोक्त{??}। गुणत्वञ्चामीषां यथास्थानं लक्षणतःस्वरूपतश्च वक्ष्यति तत्र रूपरसगन्धस्पर्शानां समानकालीनरूपरसगन्धस्पर्शसामानाधिकरण्यं नास्तीति सूचनार्थं[Page2602-b+ 38] समासः। सङ्ख्यापरिमाणयोस्तु समानकालीनसङ्ख्यपरिमाणसामानाधिकरण्यसूचनायासमासो बहुवचन-निर्देशश्च यद्यप्येकत्वसमाधिकरणं नैकत्वान्तरं न वामहत्त्वदीर्घत्वसमानाधिकरणं महत्त्वदीर्घत्वान्तरं तथापिद्वित्वादीनामन्योऽन्यं सामानाधिकरण्यं महत्त्वदीर्घत्वादीनाञ्च विजातीयपरिमाणयोः सामानाधिकरण्यमस्त्येव। पृथक्त्वञ्च यद्यपि द्विपृथक्त्वादिसमानाधिकरणं, तेनसङ्ख्यावद्बहुत्वेनैव निर्द्देष्टुमर्हति तथाप्यवधिव्यङ्ग्यत्व-लक्षणं सङ्ख्यातो वैधर्म्यं सूचयितुमेकवचननिर्द्देशः। संयोगविभागयोर्द्वयोरप्येककर्मजन्यत्वसूचनाय द्विवचनं,परत्वापरत्वयोरन्योन्याश्रयनिरूप्यतया दिक्काललिङ्गत्व-विशेषसूचनाय च द्विवचनं, बुद्धीनां विद्यादिभेदेनसाङ्ख्याभिमतैकमात्रबुद्धिनिराकरणसूचनाय बहुवचनं,सुखदुःखयोर्द्वयोरपि भोगत्वावच्छेद्यैककार्य्यजनकत्वम्अविशेषेण चादृष्टोन्नायकत्वं सुखस्यापि दुःखत्वेन भाव-नञ्च ख्यापयितुं द्विवचनम्। इच्छाद्वेषयोर्द्वयोरपि प्रवृत्तिंप्रति कारणत्वसूचनाय द्विवचनं प्रयत्नानां विहितनिषि-द्धगोचराणां दशविधानां पुण्यहेतुत्वं, दशविधानाञ्च पाप-हेतुत्वमभिसन्धाय बहुवचनमित्युन्नेयम्। यद्वा रूप-रसगन्धस्पर्शानां मौतिकेन्द्रियव्यवस्थाहेतुत्वज्ञापनार्थंपाकजप्रक्रियाव्यवस्थापनार्थं वा ते समस्योक्ताः सङ्ख्यायांद्वित्वबहुत्वादौ विप्रतिपत्तिरिति तन्निराकरणसूचनार्थंबहुत्वेनाभिधानं पृथक्त्वे तु सङ्ख्याबहुत्वेनैवास्यापिबहुत्वमिति सूचनायावधिज्ञानव्यञ्जनीयत्वं सङ्ख्यातोवैधर्म्म्यमिति सूचनाय च पृथगभिधानम्। परिमाणे तुदीर्घत्वह्रस्वत्वादिविप्रतिपत्तिनिरासाय बहुवचनम्। संयोगविभागयोरन्योन्यविरोधज्ञापनाय द्विवचनं, परत्वापरत्व-योर्दैशिककालिकभेदेन भिन्नजातीत्वसम्भवेन चतुष्ट्वापत्तौगुणविभागो न्यूनः स्यात् इति तत्रापि द्विवचनमित्या-द्युन्नेयम्” उप॰ वृत्तिः।
“द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इतिगुणलक्षणम्”

१ ।

८ सू॰
“द्रव्यमाश्रयितुं शीलमस्येति द्रव्याश्रयी एतच्च द्रव्येऽपिगतमत आह अगुणवानिति तथापि कर्मण्यतिव्याप्तिरि-त्यत आह संयोगविभागेष्वकारणं तथापि संयोगविभाग-धर्माधर्मेश्वरज्ञानादीनामसङ्ग्रहःस्यादत उक्तमनपेक्ष इतिअत्रानपेक्ष इत्यनन्तरं गुण इति पूरणीयं संयोगविभा-गेष्वनपेक्षः सन् कांरणं यो न भवति स गुण इत्यर्थः। [Page2603-a+ 38] संयोगविभागादीनां संयोगविभागौ प्रति सापेक्षत्वात्नित्यवृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं गुणत्वं सं-योगविभागौ मिलितौ प्रति समवायिकारणत्वासमवायिका-रणत्वरहिते सामान्यवति यत् कारणत्वं तद्गुणत्वाभिव्य-ञ्जकं, संयोगविभागयोः प्रत्येकमेव संयोगविभागकारण-कत्वं न मिलितयोः, धर्माधर्मेश्वरज्ञानादोनां द्वयोर्निमित्त-कारणत्वमात्रं न समवायिकारणत्वं नाप्यसमवायिका-रणत्वमिति तेषां संग्रहः, यद्वा संयोगविभागसमवायित्वा-समवायिकारणत्वशून्यत्वं सामान्यसमानाधिकरणं गुण-त्वव्यञ्जकं सामान्यवत्त्वे सति कर्मान्यत्वे च सत्यगुणवत्त्व-मेव वा गुणलक्षणम्॥ ” उप॰ वृत्तिः
“नित्यवृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं गुणत्वंसमवायिकारणावृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वंवा{??}समवायिकारणवृत्तिनित्यवृत्तिसत्तासाक्षाद्व्याप्यजाति-मत्त्वं वा कार्य्यासमानाधिकरणकर्मावृत्तिजातिमत्त्वं वा” तत्रेवीक्तम्। कर्म्मत्वजातेः सत्तासाक्षाद्व्याप्यत्वेऽपि नि-त्यवृत्तित्वाभावात् द्रव्यत्वजातेस्तथात्वेऽपि नित्यवृत्तिनित्यवृत्तित्वाभावान्नातिव्याप्तिः गुणत्वजातेस्तु नित्येष्वा-त्मादिषु वर्त्तमाने नित्ये महत्त्वादौ सत्त्वात् तामादायलक्षणसमन्वयः। व्याप्तिश्च भेदगर्भा बोध्या। तेन स-त्ताव्याप्यत्वस्य स्वस्मिन्नपि सत्त्वेन तामादाय न द्रव्यकर्मणोरतिव्याप्तिः।
“तेषां मूर्त्तामूर्त्तगुणत्वादिभेदः भाषायामुक्तो यथा। (
“रूपं रसः स्पर्शगन्धौ परत्वमपरत्वकम्। द्रवोगुरुत्वं स्नेहश्च वेगो मूर्त्तगुणा अमी। धर्म्माधर्म्मौभावना च शब्दो बुद्ध्यादयोऽपि च। एतेऽमूर्त्तगुणाःसर्वे विद्वद्भिः परिकीर्त्तिताः। संख्यादिश्च विभागान्तउभयेषां गुणी मतः। संयोगश्च विभागश्च संख्याद्वित्वादिकास्तथा। द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रितागुणाः। अतः शेषा गुणाः सर्व्वे मता एकैकवृत्तयः। बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः। अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः। संख्या-दिरपरत्वान्तो द्रवोऽसांसिद्धिकस्तथा। गुरुत्ववेगौसामान्यगुणा एते प्रकीर्त्तिताः। संख्यादिरपरत्वान्तोद्रवत्वं स्नेह एव च। एते तु द्वीन्द्रियग्राह्या अथस्पर्शान्तशब्दकाः। बाह्यैकैकेन्द्रियग्राह्या, गुरुत्वादृष्ट-भावनाः। अतीन्द्रिया, विभूनान्तु ये स्युर्वैशेषिकागुणाः। अकारणगुणोत्पन्ना एते तु परिकीर्त्तिताः। [Page2603-b+ 38] अपाकजास्तु स्पर्शान्ता द्रवत्वञ्च तथःविधम्। स्नेह-वेगगुरुत्वैकपृथक्त्वपरिमाणकम्। स्थितिस्थापक इत्येतेस्युःकारणगुणोद्भवाः। सयोगश्च विभागश्च वेगश्चैतेतु कर्म्मजाः। स्पर्शान्तपरिमाणैकपृथक्त्वस्नेहशब्दके। भवेदसमवायित्व, मथ वैशेषिके गुणे। आत्मनः स्यान्नि-मित्तत्व, मुष्णस्पर्शगुरुत्वयोः। वेगेऽपि च द्रवत्वे चसंयोगादिद्वये तथा। द्विधैव कारणत्वं, स्यादथ प्रादे-शिको भवेत्। वैशेषिको विभुगुणः संयोगादिद्वयंतथा”। एते च गुणाः द्रव्यभिन्ना गन्धशब्दे

२५

२४ पृ॰ दर्शिते उप-स्करवृत्तिवाक्ये स्पष्टमुक्ताः। तद्भिन्ना अपि ते द्रव्याधीनाइति वैशेषिकादय आहुः। वैदान्तिकादयस्तु द्रव्याभिन्ना एवगुणा इति मन्यन्ते यथाह शा॰ भा॰
“वैशेषिकास्तन्त्रार्थ-भूतान् षट् पदार्थान् द्रव्यगुणकर्मसामान्यविशेषसमवा-याख्यानत्यन्तभिन्नान् भिन्नलक्षणानभ्युपगच्छन्ति यथामनुष्योऽश्वः शश इति। तथात्वमभ्युपगम्य तद्विरुद्धंद्रव्याधीनत्वं शेषाणामभ्युपगच्छन्ति। तन्नोपपद्यते कथंयथाहि लोके शशकुशपलाशप्रभृतीनामत्यन्तभिन्नानां सतांनैवेतरेतराधीनत्वं भवति एवं द्रव्यादीनामप्यत्यन्तभिन्नानांनैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हति। अथ चभवति द्रव्याधीनत्वं गुणादीनाम्। ततो द्रव्यभावेभावात् द्रव्याभावे चाभावात् द्रव्यमेव सेस्थानादिभेदाद-नेकशब्दप्रत्ययभाग् भवति। यथा देवदत्त एकएव सन्नबस्था-न्तरयोगादनेकशब्दप्रत्ययभाग् भवति तद्वत् तथासतिसाङ्ख्यसिद्धान्तप्रसङ्गः स्वसिद्धान्तविरोधश्चापद्येयाताम्। नन्व्यग्नेरन्यस्यापि सतीधूमस्याग्न्यधीनत्वं दृश्यते, सत्यंदृश्यते भेदप्रतीतेस्तु तत्राग्निधूमयोरन्यत्वं निश्चीयते इहतु शुक्लःकम्बलोरोहिणी धेनुर्नीलमुत्पलमिति द्रव्यस्यैवतस्य तस्य तेन विशेषेण प्रतीयमानत्वान्नैव द्रव्यगुणयो-रग्निधूमयोरिव भेदप्रतीतिरस्ति। ” इतःपरं भाष्यम्अयुतसिद्धशब्दे

३४

५ पृ॰ दर्शितम्। तत्र च द्रव्याभि-न्नत्वं गुणादीनामुक्तम्। सां॰ प्रव॰ भा॰ समवायनिराकरणेणैव गुणादीनां द्रव्या-भिन्नत्वमुक्तं यथा(
“कादाचित्कविभागे सत्येव सम्बन्धः सिध्यतिअन्यथा वक्ष्यमाणरीत्या स्वरूपेणैवोपपत्तौ सम्बन्ध-कल्पनानवकाशात्। स च कादाचित्को विभागो नसम्बन्धनित्यत्वे सम्भवति। अतः सम्बन्धग्राहकप्रमाणे-[Page2604-a+ 38] नैव बाधान्न नित्यः सम्बन्धः। नन्वेवं नित्ययोर्गुणगु-णिनोर्नित्यः समवायो नोपपद्येत तत्राह” सा॰ भा॰
“न समवायोऽस्ति प्रमाणाभावात्” सा॰ सू॰। ” ननुवैशिष्ट्यप्रत्यक्षं विशिष्टबुद्ध्यन्यथानुपपत्तिश्च प्रमाणंतत्राह” भा॰।
“उभयत्राप्यन्यथासिद्धेर्नप्रत्यक्षमनुमानंवा” सू॰।
“उभयत्रापि वैशिष्ट्यप्रत्यक्षे तदनुमाने चस्वरूपेणैवान्यथासिद्धेर्न तदुभयं समवाये प्रमाणमि-त्यर्थः। अयं भावः। यथा समवायवैशिष्ट्यबुद्धिःतत्स्वरूपेणैवेष्यतेऽनवस्थामयादिति तत्र प्रत्यक्षानुमानेअन्यथासिद्धे। एवं गुणगुणिप्रभृतीनां विशिष्टबुद्धिरपिगुणादिस्वरूपेणैवेष्यताम्। अतस्तत्रापि प्रत्यक्षानुमानेअन्यथासिद्धे इति। नन्वेवं संयोगोऽपि न सिद्ध्यति भूत-लादौ घटादिप्रत्ययस्यापि स्वरूपेणैवान्यथासिद्धेरितिचेन्न वियोगकालेऽपि भूतलघटयोः स्वरूपतादवस्थ्येनविशिष्टबुद्धिप्रसङ्गात्। समवायस्थले च समवेतस्यकदापि स्वाश्रयवियोगी नास्तीति नायं दोषः। कश्चित्तु तादात्म्यसम्बन्धेनात्र समवायस्यान्यथासिद्धिमाहतन्न शब्दमात्रभेदात्। तादात्म्यं ह्यत्र नानन्यत्वंवक्तव्यम् गुणवियोगेऽपि गुणिसत्त्वात् वैशिष्ट्या-प्रत्ययाच्च। किन्तु भेदाभेदबुद्धिनियामकः सम्बन्धविशेषएवागत्या वक्तव्यः। तथाच तस्य समवाय इति वातादात्म्यमिति वा नाममात्रं भिन्नम् सम्बन्धिद्वयाति-रिक्तः सम्बन्धस्तु सिद्ध एवेति। यदि च तादात्म्यंस्वरूपमेवोच्यते तदास्माभिरपि तदेवोक्तमिति शब्दमात्र-भेद इति”।
“सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च” इत्युक्तेःशुक्लादिशब्दानां शुक्लादयो गुणा शक्यताबच्छेदकाभवन्ति शुक्लादयो हि सिद्धवस्तुधर्मा गवादिकं सजाती-येभ्यो व्यवच्छिन्दन्ति इति तेषां तत्पदप्रवृत्तिनिमित्तत्वम्। साङ्ख्यमते सत्वादयो गुणाद्रव्यात्मकाः सूक्ष्मभूतोपादा-नत्वात् तेषाञ्च पुरुषभोगसाधनत्वेनाङ्गत्वात् तथात्वंयथाह शा॰ प्र॰ भा॰। (
“सत्वादीनि द्रव्याणि न वैशेषिकादिमतसिद्धा गुणाःसंयोगविभागवत्त्वात् लघुत्वचलत्वगुरुत्वादिधर्मकत्वाच्च। तेष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः पुरुषोपकरणत्वात्पुरुषपशुबन्धनत्रिगुणात्मकमहदादिरज्जुनिर्मातृत्वाच्च प्र-युज्यते”। राज्ञां नीत्यङ्गानि सन्ध्यादयश्च षट् यथा[Page2604-b+ 38]
“सन्धिविग्रहयानानि स्थानमासनमेव च। द्वैधीभावश्चविज्ञेयाः षड्गुणा नीतिवेदिनामिति”। रसाङ्गगुणाश्च
“ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः। उत्कर्षहेतवस्ते स्युरचलस्थितयी गुणाः इत्युपक्रमे
“श्लेषः

१ प्रसादः

२ समता

३ माधुर्य्यं

४ सुकुमारता

५ । अर्थव्यक्ति

६ रुदारत्व

७ मोजः

८ कान्ति

९ समाधयः

१० । इति वैद-र्भीमार्गस्य प्राणा दश गुणाः स्मृताः” अन्यमतप्रसिद्धान्दश गुणानुक्त्वा तेषां त्रिष्वेवान्तर्भावात् गुणत्रैविध्य-माह स्म काव्यप॰
“माधुर्य्यौजः प्रसादाख्यास्त्रयस्ते न पुन-र्दश। केचिदन्तर्भवन्त्येषु दोषत्यागात् परे श्रिताः। अन्येभजन्ति दोषत्वं कुत्रचिन्न ततो दश”। काव्यप्र॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण¦ r. 10th cl. (गुणयति)
1. To invite.
2. To advise.
3. To multiply.

गुण¦ m. (-णः)
1. A quality, attribute, or property in general.
2. A pro- perty of all created things; three are particularized, the Satwa, Raja and Tama, or principles of truth or existence, passion or foul- ness, and darkness or ignorance.
3. A means of defence, one of six expedients in government, as, peace, war, a march, a halt, a stra- tagem, and recourse to protection: see सन्धि &c.
4. Form, shape, &c. or property of the body.
5. Knowledge, ignorance, &c. or quality of the mind.
6. Heroism, valor, &c.
7. White, black, &c. or the attributes of color.
8. An organ of sense.
9. A string in general.
10. A bow-string.
11. Abandoning, leaving.
12. A cook.
13. A name of Bhima.
14. Secondary subordinate.
15. Excellence, merit, free- dom from fault or blemish.
16. (In arithmetic,) The given coeffici- ent of any number.
17. (In geometry,) The chord of an arc.
18. (In grammar,) The substitution of e, o, ar and al for i, u, ri, lri.
19. (In rhetoric,) Consistency of plan, elegance of expression, &c. as the merits of a composition.
20. In composition with numerals, multiplication, as द्विगुण twice, त्रिगुण thrice. f. (-णा) A plant of the firbes of which bow-strings are made: see मूर्व्वा। E. गुण to address or advice, affix क्त।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण [guṇa], a. Of good quality (गुणवान्); भ्राता कथं नाम मया गुणस्य भ्रातुर्वधं राम विरोचयेत Rām.4.24.9.

गुणः [guṇḥ], [गुण्-अच्]

A quality (good or bad); सुगुण, दुर्गुण; यदङ्गनारूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः Śi.3.42.

(a) A good quality, merit, virtue, excellence; कतमे ते गुणाः Māl.1; वसन्ति हि प्रेम्णि गुणा न वस्तुनि Ki.8.37; R.1.9,22; साधुत्वे तस्य को गुणः Pt.4.18. (b) Eminence.

Use, advantage, good (with instr. usually), Pt. 5.; कः स्थानलाभे गुणः 2.21; H.1.49; Mu.1.15.

Effect, result, efficacy, good result; संभावनागुणमवेहि तमीश्वराणाम् Ś.7.4; गुणमहतां महते गुणाय योगः Ki.1.25;6. 7.

(a) A single thread or string. (b) Thread, string, rope, cord, मेखलागुणैः Ku.4.8;5.1; तृणैर्गुणत्व- मापन्नैर्वध्यन्ते मत्तदन्तिनः H.1.32; यतः परेषां गुणग्रहीतासि Bv.1. 9 (where गुण also means 'a merit').

The bowstring; गुणकृत्ये धनुषो नियोजिता Ku.4.15,29; कनकपिङ्गतडिद्- गुणसंयुतम् R.9.54.

The string of a musical instrument; कलवल्लकीगुणस्वानमानम् Śi.4.57.

A sinew.

A quality, attribute, property in general; यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि Ms.9.22.

A quality, characteristic or property of all substances, one of the seven categories of padārthas of the Vaiśeṣikas, (the number of these properties is 24).

An ingredient or constituent of nature, any one of the three properties belonging to all created things; (these are स्त्व, रजस् and तमस्); गुणत्रयविभागाय Ku.2.4; सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः Bg.14.5; R.3.27.

A wick, cotton thread; नृपदीपो धनस्नेहं प्रजाभ्यः संहरन्नपि । अन्तर- स्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित् ॥ Pt.1.221.

An object of sense, (these are five रूप, रस, गन्ध, स्पर्श, and शब्द); गुणैर्गुणान्स भुञ्जान आत्मप्रद्योतितैः प्रभुः Bhāg.11.3.5.

Repetition, multiplication, denoting 'folds' or 'times', usually at the end of comp. after numerals; आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा । ष़ड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ Chāṇ.78; so त्रिणुण; शतगुणीभवति becomes a hundred-fold, अध्यर्धगुणमाहुर्यं बले शौर्ये च केशव Mb.11.2.1.

A secondary element, a subordinate part (opp. मुख्य); न च गुणानुग्रहार्थं प्रधानस्यावृत्तिर्युक्ता ŚB. on MS.12.1.4.

Excess, abundance, superfluity; पराङ्मुखवधं कृत्वा को$त्र प्राप्तस्त्वया गुणः Rām.4.17.16.

An adjective, a word subordinate to another in a sentence.

The substitution of ए, ओ, अर् and अल् for इ, उ, ऋ (short or long) and लृ, or the vowels अ, ए, ओ and अर् and अल्.

(In Rhet.) Quality considered as an inherent property of a Rasa or sentiment. Mammaṭa thus defines गुण. ये रहस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्ष- हेतवस्ते स्युरचलस्थितयो गुणाः ॥ K. P.8. (Some writers on rhetoric, such as Vāmana, Jagannātha Paṇḍita, Daṇḍin and others, consider Guṇas to be properties both of शब्द and अर्थ, and mention ten varieties under each head. Mammaṭa, however, recognises only three, and, after discussing and criticizing the views of others, says: माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश K. P.8); Ki.17.6.

(In gram. and Mīm.) Property considered as the meaning of a class of words; e. g. grammarians recognise four kinds of the meaning of words; जाति, गुण, किया and द्रव्य, and give गौः, शुक्लः, चलः and डित्थः as instances to illustrate these meanings.

(In politics) A proper course of action, an expedient. (The expedients to be used by a king in foreign politics are six: 1 सन्धि peace or alliance; 2 विग्रह war; 3 यान march or expedition; 4 स्थान or आसन halt; 5 संश्रय seeking shelter; 6 द्वैध or द्वैधीभाव duplicity; सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः Ak.) see Y.1.346; Ms.7.16; Śi.2.26; R.8.21.

The number 'three' (derived from the three qualities).

The chord of an arc (in geom.).

An organ of sense.

A subordinate dish; Ms. 3.226,233.

A cook.

An epithet of Bhīma as in युधिष्टिरो$पि गुणप्रियः Vas.

Leaving, abandonment.

A multiplier, coefficient (in math.)

Division, subdivision, species, kind.

The peculiar property of letters which are pronounced with external utterance (बाह्यप्रयत्न); they are eleven. -Comp. -अग्ऱ्यम् a principal quality; ˚वर्तिन्; स्वमूर्तिभेदेन गुणाग्ऱ्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः R.3.27. -अगुणः merit and demerit Ms.3.22;9.331; अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतो$नु- धावति Si.16.44. -अतीत a. freed from all properties, being beyond them; सर्वारम्भपरित्यागी गुणातीतः स उच्यते Bg.14.25. (-तः) the Supreme Being. -अधिष्ठानकम् the region of the breast where the girdle is fastened.-अनुबन्धित्वम् connection or association with virtues; गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव R.1.22. -अनुरागः love or appreciation of the good qualities of others; गुणा- नुरागादिव सख्यमीयिवान्न बाधते$स्य त्रिगणः परस्परम् Ki.1.11.-अनुरोधः conformity or suitableness to good qualities.-अन्तरम् a different (higher) quality; गुणान्तरं व्रजति शिल्पमाधातुः M.1.6. -अन्वित, -उपपन्न, -युक्त, -संपन्न a. endowed with good qualities, meritorious, worthy, good, excellent. -अपवादः, -निन्दा disparagement, detraction.-अभिधानम् A subsidiary injunction; द्रव्योपदेशाद्वा गुणा- भिधानं स्यात् M.8.4.5.

आकरः 'a mine of merits', one endowed with all virtues; सृजति तावदशेषगुणाकरं पुरुषरत्न- मलङ्करणं मुवः Bh.2.92.

N. of Śiva. -आढ्य a. rich in virtues. -आत्मन् a. having qualities. -आधारः 'a receptacle of virtues', a virtuous or meritorious person.-आश्रय a. virtuous, excellent.

ईश्वरः the Supreme Being.

the Chitrakūṭa mountain. -उत्कर्षः excellence of merit, possession of superior qualities. -उत्कीर्तनम् panegyric, eulogium. -उत्कृष्ट a. superior in merit; Ms.8.73. -उपेत a. endowed with good qualities; पुत्रमेवङ्गुणोपेतं चक्रवर्तिनमाप्नुहि Ś.1.12. -ओघः, -घम् superior or abundant merits. -कथनम् extolling, praising.

a condition or state of mind of the hero of a drama to which he is reduced by Cupid. -कर्तृत्वम् the state of an agent of properties; गुणकर्तृत्वे$पि तथा कर्तेव भवत्युदासीनः Sāṅ. K.2. -कर्मन् n.

an unessential or secondary action.

(in gram.) the secondary or less immediate (i. e. indirect) object of an action; e. g. in the example नेता$श्वस्य स्रुघ्नं स्रुघ्नस्य वा, स्रुघ्नम् is a गुणकर्मन्.˚विभाग a. distinguishing an action and an attribute.-कल्पना f. imputing a figurative meaning, one of the modes of interpreting a sentence. According to it an expression may be understood as conveying not what is actually expressed by it but the quality or qualities thereof. e. g. सिंहो देवदत्तः means प्रसह्यकरी देवदत्तः; ŚB. on MS.1.2.1. -काण्डः a series of subsidiary (details); एवमेक उत्कृष्यमाणः सर्वं गुणकाण्डमुत्कर्षति ŚB. on MS.5. 1.24. -कार a. productive of good qualities, profitable, salutary.

(रः) a cook who prepares sidedishes or any secondary articles of food.

an epithet of Bhīma.

(in math.) the multiplier.-कीर्तनम्, -श्लाघा, -स्तुतिः f. praise, extolling. -कृत्यम् the function of a bow-string; गुणकृत्ये धनुषो नियोजिता Ku.4.15. -गणः a number or series of good qualities; Bhāg.5.3.11. -गानम् singing of merits, panegyric, praise. -गृध्नु a.

desiring good qualities; ये चान्ये गुणगृध्नवः Bhāg.3.14.2.

possessing enviable or good qualities. -गृह्य a. appreciating or admiring merits (wherever they may be), attached to merits; appreciative; ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः Ki.2.5. -गौरी a woman chaste by virtuous conduct; अनृतगिरं गुणगौरि मा कृथा माम् Śi. -ग्रहणम् appreciating merits. -ग्रहीतृ, -ग्राहक, -ग्राहिन् a. appreciating the merits (of others); श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी Ratn.1.4; Śi.2.82; Bv.1.9. -ग्रामः a collection of virtues or merits; गुरुतरगुणग्रामांभोजस्फुटोज्ज्वलचन्द्रिका Bh.3.116; गणयति गुणग्रामम् Gīt.2; Bv.1.13. -घातिन्a. detractor, envious, censorious. -ज्ञ a. knowing how to admire or appreciate merits, appreciative; भगवति कमलालये भृशमगुणज्ञासि Mu.2; गुणा गुणज्ञेषु गुणा भवन्ति H. Pr.47. -त्रयम्, -त्रितयम् the three constituent properties of nature; i. e. सत्त्व, रजस् and तमस्. ˚आभासः life.-दोषौ (du.) virtue and vice; ˚कथा; Pt.2.67. -धर्मः the virtue or duty incidental to the possession of certain qualities. -निधिः a store of virtues. -पदी a woman having feet as thin as cords. -पूगम् great merits; भवद्गुणपूगपूरितम् (श्रवणम्) Śi.9.64. -प्रकर्षः excellence of merits, great merit; गुणप्रकर्षादुडुपेन शम्भोरलङ्- घ्यमुल्लङ्घितमुत्तमाङ्गम् Mk.4.23. -भावः being subsidiary to something else; परार्थता हि गुणभावः । ŚB. on MS.4.3.1.-भोक्तृ a. perceiving the properties of things; निर्गुणं गुणभोक्तृ च Bg.13.14. -महत् a superior quality. -मुष्टिःf. a particular method of stringing the bow; cf. पताका वज्रमुष्टिश्च सिंहकर्णस्तथैव च । मत्सरी काकतुण्डी च योजनीया यथा- क्रमम् ॥ Dhanur.84. -रागः delighting in the merits of others; गुणरागगतां तस्य रूपिणीमिव दुर्गतिम् Ks.2.51. -राशिः an epithet of Śiva -लक्षणम् mark or indication of an internal property. -लयनिका, -लयनी a tent. -लुब्ध a.

desirous of merits.

attached to merits. -वचनम्, -वाचकः a word which connotes an attribute or quality, an adjective, or substantive used attributively; as श्वेत in श्वेतो$श्वः.

वादः pointing out good merits.

a statement in a secondary sense; गुणवादस्तु MS. 1.2.1 (Śabara explains this as: गौण एष वादो भवति यत् सम्बन्धिनि स्तोतव्ये सम्बन्ध्यन्तरं स्तूयते । ŚB. on ibid.).

a statement contradictory to other arguments; Madhusūdana. -विवेचना discrimination in appreciating the merits of others, a just sense of merit. -विशेषाः external organs, mind and spiritual ignorance; परस्पर- विलक्षणा गुणविशेषाः (बाह्येन्द्रियमनो$हङ्काराश्च) Sāṅ. K.36.-षः a different property. -वृक्षः, -वृक्षकः a mast or a post to which a ship or boat is fastened. -वृत्तिः f.

a secondary or unessential condition or relation (opp. मुख्यवृत्ति).

the character or style of merits. -वैशेष्यम् pre-eminence of merit; अन्योन्यगुणवैशेष्यान्न किंचिदतिरिच्यते Ms.9.296. -शब्दः an adjective. -संख्यानम् 'enumeration of the three essential qualities', a term applied to the Sāṅkhya (including the Yoga) system of philosophy; ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः प्रोच्यते गुणसंख्याने Bg.18.19.

संगः association with qualities or merits.

attachment to objects of sense or worldly pleasures. -संग्रहः a collection of merits or properties; कथं गुणज्ञो विरमेद्विना पशुं श्रीर्यत्प्रवव्रे गुणसंग्रहेच्छया Bhāg.4.2.26. -संपद् f. excellence or richness of merits, great merit, perfection; गुणसंपदा समधिगम्य Ki.5.24.

सागरः 'an ocean of merit, a very meritorious man.

an epithet of Brahmā.-हीन a.

void of merit', meritless; काममामरणात्तिष्ठेद्- गृहे कन्यर्तुमत्यपि । न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित् Ms.9. 89.

poor (as food).

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण m. ( ग्रह्Un2. )a single thread or strand of a cord or twine( e.g. त्रि-ग्See. ) , string or thread , rope TS. vii Mr2icch. Kum. Ragh.

गुण m. a garland W.

गुण m. a bow-string R. iii , 33 , 16 ( चाप-) Ragh. ix , 54 R2itus. Hit.

गुण m. (in geom. ) a sinew

गुण m. the string of a musical instrument , chord S3is3. iv , 57 : ifc. ( f( आ). )with numerals " fold , times "(See. चतुर्-, त्रि-, दश-, द्वि-, पञ्च-; rarely the numeral stands by itself along with गुण[ e.g. विशिष्टो दशभिर् गुणैः, " of ten times higher value " Mn. ii , 85 ] AV. x , 8 , 43 MBh. iii , 15649 Hariv. 509 ; [ गुण= भाग] Pa1n2. 5-2 , 47 Ka1s3. )

गुण m. a multiplier , co-efficient (in alg. )

गुण m. subdivision , species , kind( e.g. गन्धस्य गुणाः, the different kinds of smell MBh. xii , 6847 )

गुण m. the 6 subdivisions of action for a king in foreign politics (viz. peace , war , march , halt , stratagem , and recourse to the protection of a mightier king) Mn. vii , 160 Ya1jn5. i , 346 MBh. ii , 155

गुण m. = उपा-य(See. , denoting the 4 ways of conquering an enemy) R. v , 81 , 41

गुण m. " requisite "See. णो-पे-त

गुण m. a secondary element , subordinate or unessential part of any action( e.g. 565507 सर्व-गुणmfn. " reaching to all subordinate parts " , hence " valid throughout " Ka1tyS3r. ) S3a1n3khS3r. A1s3vS3r. Ka1tyS3r. R. v , 1 , 71

गुण m. an auxiliary act S3a1n3khBr. xxvi , 4

गुण m. a secondary dish (opposed to अन्नi.e. rice or the chief dish) , side-dish Mn. iii , 224 ff.

गुण m. (= -कर्मन्, in Gr. )the secondary or less immediate object of an action Pa1n2. 1-4 , 51 Sch.

गुण m. a quality , peculiarity , attribute or property La1t2y. S3a1n3khGr2. Mn. iii , ix , etc.

गुण m. an attribute of the 5 elements (each of which has its own peculiar quality or qualities as well as organ of sense ; thus 1. ether has शब्द, or sound for its गुणand the ear for its organ ; 2. the air has tangibility and sound for its गुणs and the skin for its organ ; 3. fire or light has shape or colour , tangibility , and sound for its गुणs , and the eye for its organs ; 4. water has flavour , shape , tangibility , and sound for its गुणs , and the tongue for its organ ; 5. earth has the preceding गुणs , with the addition of its own peculiar गुणof smell , and the nose for its organ) Mn. i , 20 and 76-78 MBh. xii , 6846 ff. S3ak. i , 1 BhP. iii , 5 , 35

गुण m. (in सांख्यphil. ) an ingredient or constituent of प्रकृति, chief quality of all existing beings (viz. सत्त्व, रजस्, and तमस्i.e. goodness , passion , and darkness , or virtue , foulness , and ignorance ; See. RTL. pp. 31 ; 36 ; 163 ) Mn. i ; iii , 40 ; xii , 24 ff. Sa1m2khyak. Bhag. xiii f.

गुण m. (hence) the number " three " VarBr2S. iic , 1

गुण m. a property or characteristic of all created things (in न्यायphil. twenty-four गुणs are enumerated , viz. 1. रूप, shape , colour ; 2. रस, savour ; 3. गन्ध, odour ; 4. स्पर्श, tangibility ; 5. संख्या, number ; 6. परिमाण, dimension ; 7. पृथक्त्व, severalty ; 8. संयोग, conjunction ; 9. विभाग, disjunction ; 10. परत्व, remoteness ; 11. अपरत्व, proximity ; 12. गुरुत्व, weight ; 13. द्रवत्व, fluidity ; 14. स्नेह, viscidity ; 15. शब्द, sound ; 16. बुद्धिor ज्ञान, understanding or knowledge ; 17. सुख, pleasure ; 18. दुःख, pain ; 19. इच्छा, desire ; 20. द्वेष, aversion ; 21. प्रयत्न, effort ; 22. धर्म, merit or virtue ; 23. अधर्म, demerit ; 24. संस्कार, the self-reproductive quality)

गुण m. an epithet Ka1tyS3r.

गुण m. good quality , virtue , merit , excellence Mn. MBh. etc.

गुण m. the merit of composition (consistency , elegance of expression , etc. ) Ka1vya7d. i , 41 f. Kpr. viii Sa1h. viii

गुण m. the peculiar properties of the letters (11 in number , viz. the 8 बाह्य-प्रयत्नास्[q.v.] and the 3 accents) Ka1s3. on Pa1n2. 1-1 , 9 and 50 (See. -मात्र)

गुण m. the first gradation of a vowel , the vowels अ(with अर्, अल्Pa1n2. 1-1 , 51 ) , ए, ओNir. x , 17 RPra1t. xi , 6 Pa1n2.

गुण m. an organ of sense L.

गुण m. a cook(See. -कार) L.

गुण m. भीम-सेन(See. -कार) L.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GUṆA : See under Pattu (Ten).


_______________________________
*5th word in right half of page 301 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण पु.
एक सहायक या गौण कृत्य, का.श्रौ.सू. 1.6.1० मुख्य या प्रधान कृत्य की दृष्टि में, रज्जु का तन्तु, मा.श्रौ.सू. 1०.3.4.15.

"https://sa.wiktionary.org/w/index.php?title=गुण&oldid=499324" इत्यस्माद् पुनः प्राप्तिः