गुणवान्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणवान्, [त्] पुं, त्रि, (गुणोविद्यतेऽस्य । गुण + मतुप् मस्य वत्वम् ।) सम्बन्धी । इति त्रिकाण्ड- शेषः ॥ गुणविशिष्टः । यथा, “दाता दयालु- र्गुणवान्नरः स्यात् गरे परेषामुपकारकर्त्ता । इति कोष्ठीप्रदीपः ॥ (पुं, यदुवंशीय सुनाभस्य दौहित्रः । यथा, हरिवंशे । १५५ । “गुणवत्यपि पुत्रञ्च गुणवन्तमजीजनत् ॥” स्त्रियां ङीप् । तस्य सुनाभस्य दुहिता । यथा, तत्रैव । १५३ । “वज्रनाभस्य तनयः सुनाभो नाम विश्रुतः । दुहितृद्वयञ्च नृपते ! तस्य रूपगुणान्वितम् । एकचन्द्रवती नाम्ना गुणवत्यथ चापरा ॥” गायत्त्रीरूपा महादेवी । यथा, देवीभागवते । १२ । ६ । १२ । “गुहावासा गुणवती गुरुपापप्रणाशिनी ॥” गङ्गा । यथा, काशीखण्डे । २९ । ५३ । “गूढरूपा गुणवती गुर्व्वी गौरववर्द्धिनी ॥” अप्सरोविशेषः । यथा, तत्रैव ९ अध्याये । “अलम्बुषा गुणवती स्थूलकेशी कलावती ॥”

"https://sa.wiktionary.org/w/index.php?title=गुणवान्&oldid=132012" इत्यस्माद् प्रतिप्राप्तम्