गुन्द्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुन्द्रः, पुं, (गुद्रि + अच् ।) शरतृणम् । इत्यमरः । २ । ४ । १६२ ॥ वृक्षविशेषः । गोदपठेर इति देशान्तरीयभाषा । तत्पर्य्यायः । पटरकः २ अच्छः ३ शृङ्गवेराह्वमूलकः ४ । अस्य गुणाः । कषायत्वम् । मधुरत्वम् । हिमत्वम् । पित्तरक्त- मूत्रकृच्छ्रनाशित्वम् । स्तन्यश्रुक्ररजोमूत्रशोधन- त्वञ्च । इति भावप्रकाशः ॥ (“गुन्द्रान् दग्ध्वा कृतं भस्म हरितालं मनःशिला । उपदंशविसर्पाणामेतच्छान्तिकरं परम् ॥” इति सुश्रुते चिकित्सितस्थाने १९ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुन्द्र पुं।

गुन्द्रः

समानार्थक:गुन्द्र,तेजनक,शर

2।4।162।1।4

ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः। नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुन्द्र¦ पु॰ गुद्रि--कर्म्मणि अच्।

१ शरतृणे (गोपठेर) वृक्षेअमरः।
“गुन्द्रः कषायो मधुरः शिशिरः पित्तरक्तजित्। स्तन्यशुक्ररजोमूत्रशोधनो मूत्रकृच्छ्रजित्” भावप्र॰।

२ भ-द्रमुस्तके

३ प्रियङ्गुवृक्षे च स्त्री अमरः।

४ गवेधुकायां स्त्रीरत्नमाला

५ एरकायां स्त्री भावप्र॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुन्द्रः [gundrḥ], A kind of grass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुन्द्र m. Saccharum Sara( शर) L.

गुन्द्र m. the plant पटरकBhpr.

गुन्द्र mn. the root of Cyperus pertenuis L.

"https://sa.wiktionary.org/w/index.php?title=गुन्द्र&oldid=334318" इत्यस्माद् प्रतिप्राप्तम्