सामग्री पर जाएँ

गुप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप, ऊ रक्षे । इति कविकल्पद्रुमः । (भ्वां-परं- सकं-वेट् ।) आयन्तत्वादुभयपदमिति वोपदेवः । गोपायति गोपायते । अरे तु आयस्याप्राप्ति- पक्षे परस्मैपदमेव । अगोपीत् । जुगोप गोरूप- धरामिवोर्व्वीमिति रघुः ॥ ऊ, गोपिष्यति गीप्स्यति । इति दुर्गादासः ॥

गुप, क भासि । इति कविकल्पद्रुमः ॥ (चुरां-परं- अकं-सेट् ।) क, गोपयति । भासि दीप्तौ । इति दुर्गादासः ॥

गुप, ङ गोपनकुत्सयोः । इति कविकल्पद्रुमः ॥ (भ्वां आत्मं-सकं-सेट् ।) गोपनमपह्नवः । ङ, कङ्कणझनत्कारञ्च किं गोपसे । अत्र त्यादयो न स्युरिति रमानाथः । कुत्सा । निन्दा । सा जुगुप्सां प्रचक्रेऽसून् । इति भट्टिः । इति दुर्गा-दासः ॥

गुप, य इर् व्याकुलत्वे । इति कविकल्पद्रुमः ॥ (दिवां-परं-अकं सकञ्च-सेट् ।) व्याकुलत्वं व्याकुलीभावस्तत्करणञ्च । य, धीरो न गुप्यति महत्यपि कार्य्यजाते । इति हलायुधः । गुप्यति गा वृष्टिः । आकुलीकरोतीत्यर्थः । इति चतु- र्भुजः । इर्, अगुपत् अगोपीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप¦ गोपने सक॰ आत्म॰ सेत् कुत्सने स्वार्थे सन् अनिट्कुत्सनमिह कुत्सापूर्वकनिवृत्तिस्तत्र अक॰ निन्दनञ्च तत्रसक॰। पापात् जुगुप्ससते अगुप्सीष्ट। जुगुपसां[Page2612-b+ 38] बभूव आस चक्रे जुगुप्सितः। गोपने गोपते अगोपिष्ट जुगुपे।
“आद्विधानैर्गुपितो वार्हतैः मोक्षरक्षितःऋ॰

१० ।

८५ ।

१ ।
“तथा राष्ट्रं गुपितं क्षत्रियस्य”

१० ।

१०

९ ।

३ । तत्र निन्दार्थत्वे
“जुगुप्सेरन्न चाप्ये-नम् संवसेयुश्च सर्वशः” मनुः
“यदा बुध्यति बोद्धव्यंलोकवृत्तं जुगुप्सते” भा॰ व॰

३१

१ अ॰।

गुप¦ रक्षणे भ्वा॰ सक॰ पर॰ वेट् स्वार्थे सार्वधातुके नित्य-मायः आर्द्धधातुके वा। गोपायति अगोपायीत् अगोपीत्अगौप्सीत्। गोपायाम्--बभूव आस चकार जुगोप। गोपायितः गुप्तः। गुप्तिः गोपायनम् गोपनम्।
“जुगोपात्मानमत्रस्नुः” रघुः।
“आत्मानं सततं गोपायीत” श्रुतिः
“जुगोप गोरूपधरामिवोर्वीम्” रपुः।
“नैनं गोप्स्यतिदुर्बुद्धिमद्य बाणहतं मया” भा॰ भी॰

३८

६३ श्लो॰
“अगोपिष्टां पुरोलङ्कामगौप्तां रक्षसां बलम्” भट्टिः।
“यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा” मनुः।

गुप¦ व्याकुलत्वे दिवा॰ अक॰ पर॰ सेट् इरित्। गुप्यतिअगुपत् अगोपीत् जुगोप। गुपितः।

गुप¦ भासने चुरा॰ उभ॰ अक॰ सेट्। गोपयति ते अजु-गुपत् त। गोपयाम् बभूव आस चकार चक्रे। चतुर्ण्णागुपधातूनामुदाहरण कविरहस्ये यथा
“गोपायति क्षितिमिमां चतुरब्धिसीमां पापाज्जुगुप्सत उदारमतिः स-दैव। वित्तं न गोपयति यस्तु बणीयकेभ्यो धीरो न गु-प्यति महत्यपि कार्य्यजाते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप¦ r. 1st cl. (जुगुप्सते)
1. To conceal, to hide.
2. To censure, to blame or despise, (this root takes सन् irregularly.) (उ) गुपू r. 1st cl. (गोपयति) To guard or protect. (इर) गपिर r. 4th cl. (गुप्यति)
1. To be confused or disturbed.
2. To disturb or perplex. गुप r. 10th cl. (गोपयति)
1. To shine.
2. To speak.

"https://sa.wiktionary.org/w/index.php?title=गुप&oldid=334364" इत्यस्माद् प्रतिप्राप्तम्