गुरु

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरुः, पुं, (गृणाति उपदिशति वेदादिशास्त्राणि इन्द्रादिदेवेभ्यः इति । यद्वा गीर्य्यते स्तूयते देव- गन्धर्व्वमनुष्यादिभिः । गॄ + “कृग्रोरुच्च ।” उणां । १ । २४ । इति उत् ।) बृहस्पतिः । (यथा, देवीभागवते । १ । ११ । ४४ । “इत्याश्वास्य गुरुं शक्रो दूतं वक्तुं विचक्षणः ॥”) निषेकादिकृत् । इत्यमरः । ३ । ३ । १६१ ॥ (यथा, मनुः । २ । १४२ । “निषेकादीनि कर्म्माणि यः करोति यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥”) निषेको गर्भाधानं आदिना सीमन्तोन्नयनादे- र्मन्त्रविद्यादानादेश्चग्रहणम् । तत्कर्त्तापित्रादि- र्गुरुः स्यात् । इति भरतः ॥ मन्त्रदाता । तस्य वर्ज्जनीयत्वं यथा, कालिकापुराणे ५४ अध्याये । “अभिशप्तमपुत्त्रञ्च सन्नद्धं कितवन्तथा । क्रियाहीनमकल्पाङ्गं वामनं गुरुनिन्दकम् ॥ सदा मत्सरसंयुक्तं गुरुं मन्त्रेषु वर्ज्जयेत् । गुरुर्म्मन्त्रस्य मूलं स्यान्मूलशुद्धौ सदा शुभम् ॥” अपि च । क्रियासारसमुच्चये । “श्वित्री चैव गलत्कुष्ठी नेत्ररोगी च वामनः । कुनखी श्यावदन्तश्च स्त्रीजितश्चाधिकाङ्गकः ॥ हीनाङ्गः कपटी रोगी बह्वाशी बहुजल्पकः । एतैर्दोषैर्व्विहीनो यः स गुरुः शिष्य सम्मतः ॥” इति तन्त्रसारः ॥ * ॥ गुरुवर्गो यथा, -- “उपाध्यायः पिता ज्येष्ठभ्राता चैव महीपतिः । मातुलः श्वशुरस्त्राता मातामहपितामहौ ॥ बन्धुर्ज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः । मातामही मातुलानी तथा मातुश्च सोदराः ॥ श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रीषु । इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्बिजाः ॥ अनुवर्त्तनमेतेषां मनोवाक्कायकर्म्मभिः । गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ॥ नैतैरुर्पविशेत् सार्द्धं विवदेन्नात्मकारणात् । जीवितार्थमपि द्वेषाद्गुरुभिन्नव भाषणम् ॥ उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः । गुरूणाञ्चैव सर्व्वेषां पूज्याः पञ्च विशेषतः ॥ तेयामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता । यो भापयति या सृते येन विद्योपदिश्यते ॥ ज्येष्टभ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः । आत्मनः सर्व्वयत्नेन प्राणत्यागेन वा पुनः ॥ पूजनीया विशेषेण पक्षैते भूतिमिच्छता । यावत् पिता च माता च द्वावेतौ निर्व्विकारिणौ ॥ तावत सर्व्वं परित्यज्य पुत्त्रः स्यात्तत्परायणः । मया प्रोच्यमानम् । अथ शुचये कृतोत्तरासङ्गाया- व्याकुलायोपस्थितायाध्ययनकाले शिष्याय यथा- शक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा ते च पद-पाद-श्लोका भूयः क्रमेणानुसन्धेया एव- मेकैकशो घटयेदात्मनाचानुपठेत् ।” तत्रैव चतुर्थे “शास्त्रं गुरुमुखोद्गीर्णमादायोपास्य चासकृत् । यः कर्म्म कुरुते वैद्यः स वैद्योऽन्ये तु तस्कराः ॥”)

गुरुः, त्रि, (गीर्य्यते स्तूयते महत्त्वात् । गॄ + कृग्रो- रुच्च” उणां । १ । २४ । इति उत्) महान् । (यथा, ऋग्वेदे । ४ । ५ । ६ । “इदं मे अग्ने ! कियते पावका- मिनते गुरुं भारं न मन्म ।”) दुर्जरः । अलघुः । इति मेदिनी ॥ रे । २५ ॥ (यथा, पञ्चतन्त्रे । २ । १९९ “प्राप्तो बन्धनमप्ययं गुरुमृगस्तावत् त्वया मे हृतः ।” पराक्रान्तः । यथा, पञ्चतन्त्रे । ३ । २८ । “सोत्साहशक्तिसम्पन्नो हन्याच्छत्रुं लघुर्गुरुम् ।” भारायमाणः । यथा, रघुः । १२ । १०२ । “अथ मदगुरुपक्षैर्लोकपालद्विपानाम् ।” अथ मदेन गजगण्डसञ्चारसंक्रान्तेन गुरुपक्षैः भारायमाणपक्षैः अलिबृन्दैः ।” इति टीका- कृन्मल्लिनाथः । अतिशयः । यथा, मेघटूते । १ । १ । “कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तं गमितमहिमा वर्षभोग्येन भर्त्तुः ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरु पुं।

बृहस्पतिः

समानार्थक:बृहस्पति,सुराचार्य,गीष्पति,धिषण,गुरु,जीव,आङ्गिरस,वाचस्पति,चित्रशिखण्डिज

1।3।24।1।5

बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः। जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

गुरु पुं।

संस्कारादिकर्तुर्गुरुः

समानार्थक:गुरु,देशिक,तीर्थ

2।7।7।1।3

उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः। मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती॥

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरु¦ पु॰ गिरत्यज्ञानं गृणात्युपदिशति धर्म्मं गॄ--गिरणेगॄ--शब्दे कर्त्तरि, गीर्य्यते स्तूयते वा कर्मणि वा कु उच्च

१ वृहस्पतौ देवाचार्य्ये अमरः।
“गुरुकाव्यानुगां बिभ्रत्” माघः।
“गुरोर्भृगोरस्तबाल्ये” नीचस्थे सिंहगे गुरौ” ज्यो॰ त॰।

२ प्रभाकराख्ये मीमांसकभेदे तस्य तन्नामता यथा
“अत्र तु नोक्तम् तत्रापिनोक्तम् अतः पौनरुक्त्यम्” इत्यत्रस्वगुरोः संशये जाते प्रभाकरेण तदसन्निधाने तत्पुस्तकेतुना, अपिना, इति पदच्छेदः कृतः उत्तरकाले गुरुणातद्दृष्ट्या केनेदृशः पदच्छेदः कृतः इति पृष्टे अन्यशिष्ट्येद्वारा प्रभाकरकृतत्वं निश्चित्य तस्य संशयापनोदकत्वात्गुरुरिति संज्ञा कृतेति अख्यायिका
“गुरोर्गिरः पञ्च-दिनान्यधीत्य” सा॰ द॰।
“अर्थापत्तिर्गुरूणाम्” शब्द॰ प्र॰।
“निषेकादीनि कर्म्माणि यः करोति यथाविधि। सम्भावयति चान्नेन स विप्रो गुरुरुच्यते” मनूक्ते
“स गु-रुर्यः क्रियां कृत्वा वेदमस्मै प्रयच्छति” याज्ञ॰ उक्ते चनिषेकादिक्रियाकर्त्तरि

३ पितरि प्रायश्चित्तविवे॰।
“न केबलंतद्गुरुरेकपार्थिवः” रघुः गुरुतल्पगशब्दे विवृतिः।
“अल्पंवा बहु वा यस्य श्रतस्योपकपरोति यः। तमपीह गुरुंविद्यात् श्रुतोपक्रियया तया” मनूक्ते शास्त्रोपदेशके

४ आचा-र्य्यादौ तद्विषये
“पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणःस्मृतः। गुरुराहवनीयस्तु साग्नित्रेता गरीयसी” इमंलोकं मातृभक्त्या पितृभक्त्या तु मध्यमम्। गुरुशुश्रू-षया त्वेवं ब्रह्मलोकं समश्नुते” मनुः।
“तै गुरुर्गुरु-पत्नी च” रघुः।
“आचार्य्यश्च पिता ज्येष्ठो भ्राता चैवमहीपतिः। मातुलः श्वशुरस्त्राता मातामहपितामहौ। [Page2614-a+ 38] वर्णज्येष्ठः पितृव्यश्च पुंस्येते गुरवो मताः” देबलोक्तेषु

५ एकादशसु आचार्य्यादिषु
“अनेनैकादशगुरवः सङ्के-तिताः” प्रा॰ वि॰। गुरुतल्पपगशब्दे विवृतिः। (
“उपाध्यायः पिता ज्येष्ठभ्राता चैव महीपतिः। मातुलः श्वशुरस्त्राता मातामहपितामहौ। वर्ण्णज्येष्ठःपितृव्यश्च पुंस्येते गुरवः स्मृताः। मातामही मातु-लानी माता मातुश्च सोदराः। श्वश्रूः पितामहीज्येष्ठा धात्री च गुरवः स्त्रीषु। इत्युक्तो गुरुवर्गोऽयंमातृतः पितृतो द्विजाः!। अनुवर्त्तनमेतेषां मनोवाक्कायकर्मभिः। गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्यकृताञ्जलिः। नैतैरुपविशेत् साद्धं विवदेन्नात्मकारणात्। जीवितार्थमपि द्वेषाद्गुरुभिर्न्नैव भाषणम्। उदितोऽपिगुणैरन्यैर्गुरुद्वेषी पतत्यधः। गुरूणाञ्चैव सर्वेषां पूज्याःपञ्च विशेषतः। तेषामाद्यास्त्रयः श्रेष्ठास्तेषां मातासुपूजिता। यो भावयति या सूते येन विद्योपदिश्यते। ज्येष्ठ भ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः। आत्मनःसर्वयत्नेन प्राणत्यागेन वा पुनः। पूजनीया विशेषेणपञ्चैते भूतिमिच्छता कूर्म॰ पु॰

११ अ॰। उक्ते पुंस्त्रीभेदेन

६ उपाध्यायादौ यथायथं पुंस्त्री॰।
“तथापि तन्मय्यपि ते गुरुरित्यस्ति गौरवम्” माघः। कृष्णं प्रति तत्पितृव्योद्धवोक्तिः
“गुरुद्वयाय गुरुणोरुभ-योरथ कार्ययोः” माघे ज्येष्ठभ्रातृपितृव्यपरता।

७ स-म्प्रदायप्रवर्त्तके

८ धर्म्मोपदेशके

९ कपिकच्छूवृक्षे राजनि॰।
“सानुस्वारो विसर्गान्तो दीर्घोयुक्तपरश्च यः। वा पादान्तेत्वसौ” वृ॰ र॰ उक्ते

१० दीर्घवर्णादौ।
“अगुरुचतुष्कंभवति गुरूद्वौ घनकुचयुग्मे शशिवदनासौ” श्रुतबोध॰
“गुरुमतोऽनृच्छेत्यादि”
“गुरोश्च हलः” पा॰

११ महति त्रि॰शापे गुरुणि गुरूणि” प्रा॰ त॰।

१२ दुर्ज्जरं

१३ दुष्पाकेत्रि॰
“तत्फलं (प्रियङ्गुफलम्) मधुरं रूक्षं कषायं शीतलंगुरु” भावप्र॰।

१४ अलघनि गुरुत्वति त्रि॰ मेदि॰।
“कार्ये गुरुण्यात्मसमं नियोक्ष्ये” कुमा॰।
“नारदस्तु जगतोगुरुरुच्चैर्बिस्मयाय गगनं विललङ्घे” नैष॰
“गुरुणीद्वेरसवती” भाषा॰ स्त्रियां ङीप्।
“अलाबूर्भेदिका गुर्वी” वैद्यकम्।
“इयमतिजरठा प्रकाम गुर्वी” माघः। गुरुत्वं चगुरुत्वशब्दे दृश्यम्

१५ तान्त्रिकमन्त्रोपदेष्टरि पु॰ तल्लक्ष-णादि शा॰ ति॰
“मातृतः पितृतः शुद्धः शुद्धभावो जिते-न्द्रियः। सर्वागमाणां तत्त्वज्ञः सर्वशास्त्रार्थतत्त्वविद्। परोपकारनिरतो जपपूजादितत्परः। अमोघवचनः शान्तो[Page2614-b+ 38] वेदवेदार्थपारगः। योगमार्गानुसन्धाता देवताहृदयङ्गमः। इत्यादिगुणसम्पन्नो गुरुरागमसम्मतः” वर्ज्यागुरवो-राववभट्टधृतवचनैरुक्ताः यथा(
“नातिबालोन वृद्धश्च न खञ्जो न कृशस्तथा। ना-धिकाङ्गोन हीनाङ्गो न खल्वाटोन दन्तुरः”। वीरमित्रो-दयधृतकल्पचिन्ता{??}णौ
“क्षयरोगी च दुश्चर्मा कुनखी श्या-वदन्तकः। काणोऽन्धः कुसुमाक्षश्च खल्वाटः खञ्जरीटकः”(
“अङ्गहीनोऽतिरिक्ताङ्गः पिङ्गाक्षः पूतिनासिकः। वृद्धाण्डोवामनः कुब्जः श्वित्री चैव नपुंसकः”। पूतिनासिकोदुर्गान्धिनासिकः।
“संस्काररहितोमूर्खो वेदशा-स्त्रविवर्ज्जितः। श्रौतस्मार्त्तक्रियाशून्यः शुष्कभाषः सु-कुत्सितः। पुरयाजनजीवी च नरो वैद्यश्च का-मुकः। क्रूरो दम्भी मत्सरी च व्यसनी कृपणः खलःकुसङ्गी नास्तिको भीतो महापातकचिह्नितः। देवा-ग्निगुरुविद्यादिपूजाविधिपराङ्मुखः। सन्ध्यातर्पणपूजा-दिमन्त्रज्ञानविवर्ज्जितः। आलस्योपहतो भोगी धर्महीन उपश्रुतः। इत्याद्यैर्बहुभिर्दोषैरागमोक्तैश्चयत्नतः। वर्जनीयोगुरुः प्राज्ञैर्दीक्षासु स्थापनादिषु” मत्स्यसूक्ते त्रयोदशपटले
“अपुत्त्रश्चासपत्नीकः शक्तिहीनंऽथ वामनः। कुब्जः कुष्ठः श्यावदन्तो वृषलीपतिरेव च” तन्त्रसारे रामार्च॰ च॰ सदसद्गुरुलक्षणे यथा(
“शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान्। शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान्। अध्या-त्मध्याननिष्ठश्च मन्त्रतन्त्रविशारदः। निग्रहानुग्रहे शक्तोगुरुरित्यभिधीयते। आगमसंहितायाम्
“उद्धर्त्तुञ्चैवसंहर्त्तुं समर्घो ब्राह्मणोत्तमः। तपस्वी सत्यवादी चगृहस्थो गुरुरुच्यते” इति। गुरुरपि गृहस्थ एव यथाह ज्ञानार्णवे।
“सर्वशास्त्रार्थ-वेत्ता च गृहस्थो गुरुरुच्यते” गृहस्थेषु पुत्रवतामेवाधि-कारः यथा यामले
“कलत्रपुत्रवान् विप्रो दयालः सर्वं-सम्मतः। दैवे पित्रेऽरिमित्रे च गृहस्थो देशिको भवे-दिति” मुण्डमालायाम्
“मध्यमो वैष्णवः प्रोक्तो मध्यम-शैवदीक्षितः। परमादीक्षितो यो वै स एव परमो गुरुः”( आगमसारे
“गकारः सिद्धिदः प्रोक्तो रेफः पा-पस्य दाहकः। उकारःशम्भुरित्युक्तस्त्रितयात्मा गुरुःस्मृतः। गकारो ज्ञानसम्पत्त्यै रेफस्तत्त्वप्रकाशकः। उकारात् शिवतादात्म्यं दद्यादिति गुरुः स्मृतः”। निन्द्यगुरुमाह क्रियासारसमुच्चये
“श्वित्री चैव गलत्-[Page2615-a+ 38] कुष्ठी नेत्ररोगी च वामनः। कुमखी श्यावदन्तश्च स्त्री-जितश्चाधिकाङ्गकः। हीनाङ्गः कपटी रोगी वह्वाशीबहुवल्गकः। एतैर्दोर्षैर्विहीनो यः स गुरुः शिष्यस-म्मतः” यामले
“अभिशस्तमपुत्रञ्च कदर्य्यं कितवं तथा। क्रियाहीनं शठञ्चापि वामनं गुरुनिन्दकम्। जलरक्तविकारं च वर्ज्जयेन्मतिमान् सदा। सदा मत्सरसं-युक्तं गुरुं मन्त्रेषु वर्ज्जयेत्”। वैशम्पायनसंहितायाम्
“अपुत्रो मृतपुत्रश्च कुब्जश्च रोषणस्तथा”। सम्बन्धभेदा-द्बर्ज्यतामाह योगिनीतन्त्रे
“पितुर्मन्त्रं न गृह्णीयात्तथा मातामहस्य च। सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्यच” तथा गणेशविमर्षिण्याम्
“यतेर्दीक्षा पितुर्दीक्षा दीक्षाच वनवासिनः। विविक्ताश्रमिणो दीक्षा न सा कल्याण-दायिका” अस्यापवादः शक्तियामले
“तीर्थाचारव्रतो मन्त्रीज्ञानवान् सुसमाहितः। नित्यनिष्ठो यतिः ख्यातो गुरुःस्याद्भौतिकोऽपि च” रुद्रयामले
“न पत्नीं दीक्षयेद्भर्त्ता नपिता दीक्षयेत् सुताम्। न पुत्रञ्च तथा भ्राता भ्रातरं न चदीक्षयेत्। सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत्। शक्तित्वेन वरारोहे! न च सा पुत्रिका भवेत्”। इत्यादि-निषेधवचनात् एभ्यो मन्त्रं न गृह्णीयात्। इदन्तु सिद्धमन्त्रे-तरविषयं
“सिद्धमन्त्रो न दुष्यतीति” वचनात् तथा च सिद्ध-यामले
“यदि भाग्यवशेनैव सिद्धविद्यां लभेत् प्रिये!। तदैवतान्तु दीक्षेत त्यक्त्वा गुरुविचारणाम्” गणेशविमर्षिण्याम्
“प्रमादाच्च तथाऽज्ञानात् पितुर्दीक्षां समाचरन्। प्रायश्चित्तंततः कृत्वा पुनर्दीक्षां समाचरेत्”। पितुरित्युपलक्षणंमातामहादीनामपि। प्रायश्चित्तन्तु अयुतसावित्रीजपःसर्वत्र तथा दर्शनात् तथा च शङ्खः
“दशसाहस्रजप्येनसर्वकषल्मनाशिनी”। मत्स्मसूक्ते
“निर्वीर्यञ्च पितु-र्मन्त्रं शैवे शाक्ते न दुष्यति” इति वचन कौलिकमन्त्र-दीक्षापरम् योगिनीतन्त्रे
“शक्तिविद्यामधिकृत्य ततो दीक्षानिषेधात्। यद्वाशाक्ते तारादिविद्यायां न दोषः मत्स्य-सूक्ते
“निजकुलतिलकाय ज्येष्ठपुत्राय दद्यात्” इतितारामधिकृत्य तथा प्रतिपादनात्। श्रीक्रमेऽपि
“मनु-र्विमृष्य दातव्यो ज्येष्ठपुत्राय धीमते” उत्तरषट्के च
“अ-योग्याय ग दातव्यमित्याज्ञा परमेश्वरि!। सुशीलाय वि-नीताय ज्येष्ठपुत्राय धीमते। अनन्तदायिशिष्याय दे-व्या मन्त्रं प्रदीयते”। तदुक्तं
“कथमपि मनुमेनं प्राप्यशिन्याय तस्मै निजकुलतिलकाय ज्येष्ठपुत्राय दद्यादिति” ताराविषयं मत्स्यसूक्ते ताराप्रकरणे तथा दृष्टेः[Page2615-b+ 38] महातीर्थे उपरागे सति सर्वत्र न दोषभाक् तथा चविष्णुमन्त्रमधिकृत्य
“साधु पृष्टं त्वया व्रह्मन् वक्ष्यामिसकलन्तव। ब्रह्मणा कथितं पूर्वं वशिष्ठाय महात्मने। वशिष्ठोऽपि स्वपौत्राय मत्पित्रे दत्तवान् स्वयम्। प्रसन्न-हृदयः स्वच्छः पिता मे करुणानिधिः। कुरुक्षत्रे महा-तीर्थे सूर्यपर्वणि दत्तवान्” इत्यादि वैशम्पायनसंहितायांशौनकं प्रति व्यासवाक्यम्। योगिनीतन्त्रे
“निर्वीर्य्यञ्चपितुर्मन्त्रं तथा मातामहस्य च। स्वप्नलब्धं स्त्रिया दत्तंसंस्कारेणैव शुध्यति”। यत्तु
“साध्वी चैव सदाचारा गुरु-भक्ता जितेन्द्रिया। सर्वतन्त्रार्थतल्वज्ञा सुशीला पूजने-रता। गुरुयोग्या भवेत् साहि विधवा परिवर्ज्जिंता। स्त्रियोदीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणा स्मृता”। तत्तुगुरोरुपासितमन्त्रपरम्। तथा च भैरवीतन्त्रे
“स्वीयमन्त्रो-पदेशे तु न कुर्य्यात् गुरुचिन्तनम्”। मातुरिति उपा-सितेऽष्टगुणं अनुपासिते शुभफलदमित्यर्थः। सिद्धमन्त्रविषयं वेति केचित्। वस्तुतस्तु योगिनीतन्त्रे स्त्रीपदंविधवापरं एकवाक्यताबलात्। अत्र विधवापदम् अवीरा-परम्।
“विधवायाः सुतादेशात् कन्यायाः पितुराज्ञया। नाधिकारोयतोनार्य्या भार्य्याया भर्त्तुराज्ञया” इत्यूर्द्ध्वाम्रायवचनात् नाधिकार इति स्वातन्त्र्येण नाधिकारः। यीगिनीतन्त्रे
“स्वप्नलब्धे तु कलसे गुरोर्मूर्त्तिं निवेश-येत्। वटपत्रे कुङ्कुमेन लिखित्वा ग्रहणं शुभम्। ततः शुद्धिमवाप्नोति अन्यथा विफलं भवेत्”। इदन्तुसद्गुरोरभावे तत्सम्भवे तस्मादेव गृह्णीयात्
“स्वप्ने तुनियमोनहीति” नारदवचनात्। तथा विद्याधराचार्य्य-धृतवचनम्
“मध्यदेशे कुरुक्षेत्रनाटकोङ्कणसम्भावाः। अन्त-र्वेदिप्रतिष्ठानाः आवन्त्याश्च गुरूत्तमाः। मध्यदेश आर्य्या-वर्त्तः।
“गोडाः शाल्वोद्भवाः सौराः मागधाः केरलास्तथा। कोशलाश्च दशार्णाश्च गुरवः सप्त मध्यमाः। कर्णाटनर्म्म-दाराष्ट्रकच्छातीरोद्भवास्तथा। कालिङ्गाश्च कलिङ्गाश्च का-म्बोजाश्चाधमा मताः। वैष्णवे वैष्णवो ग्राह्यः शैवे शैवश्चशाक्तिके। शैवः शाक्तोऽपि सर्वत्र दीक्षास्वामी न संशयः” नित्यातन्त्रे
“गुरु न मर्त्यं ध्यायेत यदि बुध्येततस्य तु। न कदाचिद्धवेत् सिद्धिर्न मन्त्रैर्देवपूजनैः”

१६ परमेश्वरे पु॰।
“गुरुर्गुरुतमोधाम” विष्णुसं॰ सर्वविद्या-नामुपदेष्टृत्वात् सर्वेषां जनकत्वाद्वा गुरुः” भा॰।
“पूर्वेषामपि गुरुः कालेनानवच्छेदात्” पात॰ सू॰।

१७ ग-म्भीरार्थे

१८ बलबति

१९ पूज्येच त्रि॰

२० द्रोणाचार्य्ये[Page2616-a+ 38] पु॰ शब्दार्थचि॰

२१ पुष्यनक्षत्रे तस्य गुर्वधिष्ठातृकत्वात्
“ध्रुव-गुरुकरमूलापौष्णभान्यर्कवारे” ज्यो॰ त॰। स्वार्थे क। भा-रातिशययुक्ताद्यर्थे।
“ततो युधिष्ठिरस्तस्य गुरुकः सम-पद्यत। स तु भाराभिभूतात्मा न तथाशीघ्रगोऽभवत्” भा॰ व॰

१५

७ अ॰।
“अतिमात्रं लघूनि स्युर्गात्राणिगुरुकाणि च”।
“गुरुकावस्थिरावूरू न स्वाविव चमन्यते” सुश्रुतः। गुरोर्भावः इमनिच् गरादेशः गरिमन् पु॰ अण् गौरव न॰तल् गुरुता स्त्री त्व गुरुत्व न॰। गुरुभावे पतनासम-वायिकारणतावति गुणभेदे। अतिशयेन गुरु इष्ठन्,ईयसुन् गरादेशः। गरिष्ठ गरीयस् अतिगुरौ त्रि॰ईयसूनि स्त्रियां ङीप्। गुरुं करीति णिच् गरादेशःगरयति।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरु¦ mfn. (-गुरुः-गुर्व्वी-गुरु)
1. Heavy, weighty.
2. Great, (large or eminent)
3. Difficult, arduous.
4. Important.
5. Much, excessive.
6. Best, excellent.
7. Venerable, respectable.
8. Dear, valuable, highly prized.
9. Accented long, (as a foot or vowel.) mn. (-रुः-रु) The long vowel, a sound equal to two Matras or simple sounds. m. (-रुः)
1. A spiritual parent, from whom the youth receives the in- itiatory Mantra or prayer, and who conducts the ceremonies necessary at various seasons of infancy and youth, up to the period of investiture with the characteristic thread or string; this per- son may be the natural parent or the religious preceptor.
2. A religious teacher, one who explains the law and religion to his pupil, instructs him in Sastras, &c.
3. A name of VRIHASPATI, who is considered as the Guru or preceptor of the gods.
4. A father or any venerable male relation. E. गृ to sound or speak, &c. Unadi affix कु and उ substituted for ऋ; declaring the mode of performing the rites, &c.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरु [guru], a. (-रु, -र्वी f.) [ग कु उच्च Uṇ.1.24.] (compar. गरीयस्; superl. गरिष्ठ)

Heavy, weighty (opp. लघु); (fig. also); तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे R.1.34;3.35; 12.12; विमुच्य वासांसि गुरूणि साम्प्रतम् Ṛs.1.7.

Great, large, long, extended.

Long (in duration or length). आरम्भगुर्वी Bh.2.6; गुरुषु दिवसेष्वेषु गच्छत्सु Me.85.

Important, momentous, great; विभवगुरुभिः कृत्यैः Ś.4. 19; स्वार्थात्सतां गुरुतरा प्रणयिक्रियैव V.4.31; Ku.3.13; Bh.3.7; R.14.35.

Arduous, difficult (to bear); कान्ताविरहगुरुणा शापेन Me.1.

Great, excessive, violent, intense; गुरुः प्रहर्षः प्रबभूव नात्मनि R.3.17; गुर्वपि विरहदुःखम् Ś.4.16; Bg.6.22.

Venerable, respectable.

Heavy, hard of digestion (as food).

Best, excellent.

Dear, beloved.

Haughty, proud (as a speech).

(In prosody) Long, as a syllable, either in itself, or being short, followed by a conjunct consonant &c.; e. g. ई in ईड् or त in तस्कर (It is usually represented by ग in works on prosody; मात्तौ गौ चेच्छालिनी वेदलोकैः &c.).

Irresistible, unassailable; जागर्ति दंशाय...गुरुर्भुजङ्गी Māl.6.1.

Mighty; powerful.

Valuable, highly prized; पूर्वं पूर्वं गुरु ज्ञेयम् Y.2.3.

Grievous; Me.85.

रुः (a) A father; न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरो$पि सः R.3.31,48;4.1; 8.29. (b) Forefather, ancestor; त्वां मैत्रावरुणो$भिनन्दतु गुरुर्यस्ते गुरूणामपि U.5.27. (c) Father-in-law; त्वं हि मे गुरुः (तद्धर्मतः स्नुषा ते$हम्) Rām.7.26.28-29.

Any venerable or respectable person, an elderly personage or relative, the elders (pl.) शुश्रूषस्व गुरून् Ś.4.18; Bg. 2.5; Bv.2.7,18,19,49; आज्ञा गुरूणां ह्यविचारणीया R. 14.46.

A teacher, preceptor; गुरुशिष्यौ.

Particularly, a religious teacher, spiritual preceptor. तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः R.1.57; (technically aGuru is one who performs the purificatory ceremonies over a boy and instructs him in the Vedas; स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति Y.1.34).

A lord, head, superintendent, ruler; सर्वे गुरुहिते स्थिताः Rām.4.4.6; कर्णाश्रमाणां गुरवे स वर्णी R.5.19 the head of the castes or orders; गुरुर्नृपाणां गुरवे निवेद्य 2.68.

N. of Bṛihaspati, the preceptor of the gods; गुरुं नेत्रसहस्रेण चोदयामास वासवः Ku.2.29; Pt.1.23.

The planet Jupiter; गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् Śi.2.2.

The propounder of a new doctrine.

The lunar asterism called पुष्य.

N. of Droṇa, teacher of the Kauravas and Pāṇḍavas.

N. of Prabhākara, the leader of a school of the Mīmāṁsakas (called after him Prābhākara).

The supreme spirit.-Comp. -अक्षरम् a long syllable.

अङ्गना the wife of a Guru.

A woman entitled to great respect. -अर्थa. important; सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्वर्थगह्वराम् Bhāg.3. 16.14. (-र्थः) a preceptor's fee for instructing a pupil; गुर्वर्थमाहर्तुमहं यतिष्ये R.5.17. -उत्तम a. highly revered. (-मः) the Supreme soul.

उपदेशः Consultation of the experts; एषु स्थानेषु गुरूपदेशात् सम्यङ् नाडीं परीक्ष्य शिरामोचनं कुर्यात् Śālihotra of Bhoja, 82.

advice by the elders or by the preceptor. -कण्ठः a peacock. -कारः worship, adoration.

कार्यम् a serious or weighty affair.

the office of a spiritual teacher. -कुलम् the residence of a Guru (गुरुगृह), academy; वसन् गुरुकुले नित्यं नित्यम- ध्ययने रतः Mb.9.4.3; आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् Ms.7.82. -कृत a.

worshipped.

made much of; अहो निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् Bh.3.2. -क्रमः instruction handed down through a series of teachers, traditional instruction. -गृहम् signs (राशिs) Sagittarius (धनु) and Pisces (मीन). -घ्नः white mustard. -चर्या attendance upon a preceptor; Māl.9.51. -जनः any venerable person, an elderly relative, the elders collectively; नापेक्षितो गुरुजनः K.158; Bv.2.7.

तल्पः the bed (wife) of a teacher.

violation or violator of a teacher's bed; Mb.12.56.32. -तल्पगः, -तल्पिन् m.

one who violates his teacher's bed (wife), (ranked in Hindu law as a sinner of the worst kind, committer of an अतिपातक; cf. Ms.11.13); Mb.3.43.6.

one who defiles his step-mother. -दक्षिणा fee given to a spiritual preceptor; उपात्तविद्यो गुरुदक्षिणार्थी R.5.1. -दानम् a Guru's gift. -दैवतम् the constellation पुष्य. -पत्रा the tamarind tree. -त्रम् tin. -पाक a. difficult of digestion.

पूजा the ceremonies in propitiation of Bṛihaspati when a work is to be performed or undertaken.

the worship of one's spiritual preceptor. -प्रसादः the product of a Guru's blessing, i. e. learning.

भम् the constellation पुष्य.

a bow.

the sign Pisces of the zodiac.-भावः importance, weight. -मर्दलः a kind of drum or tabor.

रत्नम् topaz; (Mar. पुष्पराग, गोमेद).

a gem brought from the Himālaya and the Indus. -लाघवम् relative importance or value; विरोधिषु महीपाल निश्चित्य गुरु- लाघवम् Mb.3.131.12; Ś.5. -वर्चोघ्नः the lime, citron.-वर्तिन्, -वासिन् m. a student (ब्रह्मचारिन्) who resides at his preceptor's house. -वर्ति, -ता f. respectful behaviour towards Guru (elder or venerable person); निवेद्य गुरवे राज्यं भजिष्ये गुरुवर्तिताम् Rām.2.115.19. -वारः, -वासरः Thursday. -वृत्तिः f. the conduct of a pupil towards his preceptor; Rām.2.9.2. -व्यथ a. greatly distressed, heavy with grief; वचोभिराशाजननैर्भवानिव गुरुव्यथम् V. 3.9. -शिखरिन् m. an epithet of the Himālaya. -श्रुतिः a mantra (especially गायत्री); जपमानो गुरुश्रुतिम् Mb.13. 136.6. -स्वम् (= ष्वम्) the preceptor's wealth or property; गवां क्षीरं गुरुष्वं ते... Bm.1.35.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरु mf( वी)n. (See. गिरि; comp. गरीयस्, once यस्-तर, गुरु-तर, superl. गरिष्ठ, गुरुतमSee. ss.vv. ) heavy , weighty (opposed to लघु) RV. i , 39 , 3 and iv , 5 , 6 AV. etc. ( g. शौण्डा-दिGan2ar. 101 )

गुरु mf( वी)n. heavy in the stomach (food) , difficult to digest MBh. i , 3334 Sus3r.

गुरु mf( वी)n. great , large , extended , long Ya1jn5. (See. -क्रतु) Bhartr2. etc.

गुरु mf( वी)n. (in prosody) long by nature or position (a vowel) Pra1t. (a vowel long both by nature and by position is called गरीयस्RPra1t. xviii , 20 ) Pa1n2. 1-4 , 11 and 12

गुरु mf( वी)n. high in degree , vehement , violent , excessive , difficult , hard RV. MBh. etc.

गुरु mf( वी)n. grievous Megh. 80

गुरु mf( वी)n. important , serious , momentous MBh. etc.

गुरु mf( वी)n. valuable , highly prized Ya1jn5. ii , 30 ( गुरु= गरीयस्)etc.

गुरु mf( वी)n. haughty , proud (speech) Pan5cat.

गुरु mf( वी)n. venerable , respectable

गुरु m. any venerable or respectable person (father , mother , or any relative older than one's self) Gobh. S3a1n3khGr2. Mn. etc.

गुरु m. a spiritual parent or preceptor (from whom a youth receives the initiatory मन्त्रor prayer , who instructs him in the शास्त्रs and conducts the necessary ceremonies up to that of investiture which is performed by the आचार्यYa1jn5. i , 34 ) RPra1t. A1s3vGr2. Pa1rGr2. Mn. etc.

गुरु m. the chief of( gen. or in comp. ) Ca1n2. Ragh. ii , 68

गुरु m. (with शाक्तs) author of a मन्त्र

गुरु m. " preceptor of the gods " , बृहस्पतिMn. xi

गुरु m. (hence) the planet Jupiter Jyot. VarBr2S. Bhartr2. etc.

गुरु m. " पाण्डु-teacher " , द्रोणL.

गुरु m. प्रभा-कर(celebrated teacher of the मीमांसा, usually mentioned with कुमारिल) SS3am2kar. vi , 50 ; xv , 157

गुरु m. (= धर्म)" venerable " , the 9th astrological mansion VarBr2S. i , 16

गुरु m. Mucuna pruritus L.

गुरु m. N. of a son of संकृतिBhP. ix , 21 , 2 du. parents MBh.

गुरु m. pl. parents and other venerable persons Mn. iv Vikr. v , 10 Katha1s.

गुरु m. a honorific appellation of a preceptor (whose N. is also put in the pl. ) , Jain Hit.

गुरु m. " great (with child) " , pregnant , a pregnant woman L.

गुरु m. the wife of a teacher W.

गुरु m. ([ cf. ? ; Lat. gravis ; Goth. kauriths ; Lith. gie4ras.])

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of सम्कृति. भा. XI. २१. 2.
(II)--a son of Bhautya Manu. Br. IV. 1. ११४. वा. ११०. ५१. [page१-538+ ३३]
(III)--devotion to, praised by Kaca; his daughter cannot be married by a pupil, as she stands in relation of a sister. फलकम्:F1:  M. २५. ६९; २६. 6-8, १२-16.फलकम्:/F Guru (शुश्रूष) service of the teacher pleases Hari. कृष्ण's discourse on service to guru, and his tribute to his teacher सान्दीपानि. It is said that guru's blessings make a man rise to his full stature. फलकम्:F2:  भा. X. ८०. २८-43.फलकम्:/F Different kinds of guru--महागुरु, आचार्य, देशीक and others. फलकम्:F3:  Br. IV. 8. 3-6.फलकम्:/F Implicit obedience to. Transgressing his orders leads one to be born an aerial spirit: fit to be honoured like a king and a god. फलकम्:F4:  Ib. ४३. ३७-59.फलकम्:/F
(IV)--the planet बृहस्पति. M. ९३. १४.
(V)--a sage. M. १९६. ४५.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Guru  : m.: The planet Jupiter. See Bṛhaspati.


_______________________________
*3rd word in left half of page p245_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Guru  : m.: The planet Jupiter. See Bṛhaspati.


_______________________________
*3rd word in left half of page p245_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गुरु&oldid=454101" इत्यस्माद् पुनः प्राप्तिः