गुल्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल्मः, पुं, (गुडति वेष्टयति गुड्यते वेष्ट्यते वा, गुड + करणे बाहुलकात् मक् डलयोरैक्यात् डस्यलत्वे साधुः ।) उदरजरोगविशेषः । तस्य निदानादि । पिबेत्त्रिवृन्नागरं वा सगुडां वा हरीतकीम् ॥ गुग्गुलुं त्रिवृतां दन्तीं द्रवन्तीं सैन्धवं वचाम् । मूत्रमद्य-पयोद्राक्षा-रसैर्वीक्ष्य बलाबलम् ॥ एवं पीलूनि पिष्टानि पिबेत् सलवणानि तु । पिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः ॥ युक्ता हन्ति सुरागुल्मं शीघ्रं काले प्रयोजिता । बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् ॥ कुल्माषान् वा बहुस्ने हान् भक्षयेल्लवणोत्तरान् ॥” इत्युत्तरतन्त्रे द्वाचत्वारिंशत्तमेऽध्याये सुश्रुतेनो- क्तम् ॥) सेनासंख्याविशेषः । (यथा, महाभारते । १ । २ । १९-२० । “एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥ पत्तिन्तु त्रिगुणामेतामाहुः सेनामुखं बुधाः । त्रीणिसेनामुखान्येको गुल्म इत्यभिधीयते ॥”) अस्यार्थविवृतिर्यथा, -- अत्र गजा नव, रथा नव, अश्वाः सप्तविंशतिः पदातयः पञ्चचत्वारिंशत्, समुदायेन नवतिः ॥ प्लीहा । अप्रकाण्डवृक्षः । तत्पर्य्यायः । स्तम्बः २ । इत्यमरः । २ । ४ । ९ ॥ “अविद्यमानप्रकाण्ड- स्तनुप्रकाण्डो वा बहुपत्रवान् मल्लीझिण्टीनल- कमलवंशवीरणादिः मूलादारभ्य पूर्ब्बभागः प्रकाण्डः ।” इति भरतः ॥ (यथा, मनुः । १ । ४८ । “गुच्छगुल्मन्तु विविधं तथैव तृणजातयः ।” “यत्र लतासमूहा भवन्ति न च प्रकाण्डानि ते गुच्छा मल्लिकादयः, गुल्मा एकमूलाः सङ्घात- जाताः ।” इति टीकाकृत् कुल्लूकभट्टः ॥) घट्ट- भेदः । सैन्यरक्षणम् । इति मेदिनी । मे । ११ ॥ (रक्षितृपुरुषसमूहः । यथा, मनुः । ७ । ११४ । “द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् ।” गुल्मं रक्षितृपुरुषसमूहमित्यस्य टीकायां कुल्लूक- भट्टः ॥ सैन्यैकदेशः । यथा, तत्रैव । ७ । १९० । “गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः ।” गुल्मान् सैन्यैकदेशानिति टीकाकृत् कुल्लूकभट्टः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल्म पुं।

स्कन्धरहितवृक्षः

समानार्थक:स्तम्ब,गुल्म

2।4।9।1।2

अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता । लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

गुल्म पुं।

कुक्षिवामपार्श्वेमांसपिण्डः

समानार्थक:गुल्म,प्लीहन्

2।6।66।1।3

अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा। स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे॥

पदार्थ-विभागः : अवयवः

गुल्म पुं।

गुल्मसेना

समानार्थक:गुल्म

2।8।81।1।2

सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः। अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि॥

पदार्थ-विभागः : नाम

गुल्म पुं।

गुल्मरोगः

समानार्थक:गुल्म

3।3।142।2।1

उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः। गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

गुल्म पुं।

तरुमूलम्

समानार्थक:शिफा,जटा,विटप,गुल्म,नेत्र

3।3।142।2।1

उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः। गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः॥

अवयव : मूलमात्रम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल्म¦ पु॰ गुड--रक्षणे वेष्टने वा मक् डलयोरैक्यात् डस्य लः।

१ प्रधानपुरुषाधिष्ठिते रक्षके पुरुषसंघे, (गजाः

९ , रथाः

९ ,अश्वाः

२७ , पदातयः

४५ ) एतत्संख्यान्विते

२ सैन्यसमु-दाये, स्वनामख्याते

३ रोगभेदे, अमरः। घट्टदेशे रक्षणार्थंस्थापिते

४ सैन्ये,

५ अप्रकाण्डे लतादौ मेदि॰ एकमूलेषु सङ्घातजातेषु शरेक्षुप्रभृतिषु

६ तृणभेदेषु, कुल्लू॰। [Page2626-a+ 38] गुच्छगुल्ममित्यादि मनुवचनस्य गुच्छशब्दे दर्शितस्य कु-ल्लूभट्टव्याख्या

२५

९६ पृ॰ दृश्या।

७ प्लीहरोगे अमरः।
“त्रींणि सेनामुखान्येकोंगुल्म इत्यभिधीयते

१६

० पृ॰ अ-नीकिनीशब्दे दर्शितम् भा॰ उ॰ वाक्यम्।
“प्रच्छन्नस्तरुगहनैःस गुल्मजालैः” किरा॰।
“गुल्मगुच्छक्षुपलतेत्यादि” याज्ञ॰।
“स्थावराणां तु भूतानां जातयः षट् प्रकी-र्त्तिताः। गुच्छगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः भा॰आनु॰

५८ अ॰। रक्षणार्थं गुल्मनिवेशनप्रकारो मनुनोक्तोयथा
“द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममघिष्ठितम्। तथा ग्रामशतानां च कुर्य्याद्राष्टस्य संग्रहम्”।
“द्वयोर्ग्रामयोर्मध्ये त्रयाणां वा ग्रामाणां पञ्चानां वा ग्राम-शतानां गुल्मं रक्षितृपुरुषसमूहं सत्वप्रधानपुरुवाधि-ष्ठितं राष्ट्रस्य संग्रहं रक्षास्थानं कुर्य्यात् अस्य लाघव-गौरवापेक्षश्चोक्तविकल्पः” कुल्लू॰।
“गुल्मांश्च स्थापये-दाप्तान् कृतसंज्ञान् समन्ततः। स्थाने युद्धे च कुशलान-भीरूनविकारिणः” मनुः गुल्भरोगलक्षणादि सुश्रुतोक्तंयथा
“अथातो गुल्मप्रतिषेधं व्याख्यास्यामः। यथोक्तैःकौपनेर्दोषाः कुपिताः कोष्ठमागताः। जनयन्ति नृणांगुल्मं स पञ्चविध उच्यते। हृद्वस्त्योरन्तरे ग्रन्थिःसञ्चारी यदि घाचलः। चयापचयवान् वृत्तः स गुल्मइति कीर्त्तितः। पञ्च गुल्माश्रया नॄणां पार्श्वे हृन्ना-भिवस्तयः। कुपितानिलमूलत्वाद्गूढमूलोदयादपि। गु-ल्मवद्वा विशालत्वात् गुल्म इत्यभिधीयते। स यस्मादा-त्मनि चयं गच्छत्यप्स्विव बुद्बुदः। अन्तःसरति यस्माच्चन पाकमुपयात्यतः। स व्यस्तैर्जायते दोषैः समस्तैरपिवोच्छ्रितैः। पुरुषाणां, तथा स्त्रीणां ज्ञेयो रक्तेनचापरः। सदनं मन्दता वह्नेराटोपोऽन्त्रविकूजनम्। विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा। द्वेषोऽन्नेबायुरूर्द्धञ्च पूर्वरूपेषु गुल्मिनाम्। हृत्कुक्षिशूलंमुखकण्ठशोषो वायोर्न्निरोधो विषमाग्निता च। ते तेविक्नाराः पवनात्मकाश्च भवन्ति गुल्मेऽनिलसम्भवे तु। स्वेदज्वराहारविकारदाहास्तृष्णाङ्गरागः कटुवक्त्रता च। पित्तस्य लिङ्गान्यखिलानि यानि पित्तात्मके तानि भवन्तिगुल्मे। स्तैमित्यमन्नेऽरुचिरङ्गमादश्छर्दिः प्रसेको मधु-रास्यता च। कफस्य लिङ्गानि च यानि तानि भवन्तिगुल्मे कफसम्भवे तु। सर्वात्मकः सर्वविकारयुक्तः सोऽ-साध्य उक्तः क्षतजञ्च वक्ष्ये। नवप्रसूताऽहितभोजनाया याचामगर्भं विसृजेदृतौ वा। वायुर्हि तस्याः परि-[Page2626-b+ 38] गृह्य रक्तं करोति गुल्मं सरुजं सदाहम्। पैत्तस्य लि-ङ्गेन समानलिङ्गं विशेषणं चाप्यपरं निबोध। न स्पन्दतेनोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम्। तं गर्भकालातिगमे चिकित्स्यमसृग्भवं गुल्ममुशन्तितज्ज्ञाः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल्म¦ m. (-ल्मः)
1. The division of an army, a body of troops, consisting of nine platoons, or nine elephants, nine chariots, twenty-seven horse, and forty-five foot.
2. The spleen.
3. A shrub, a bush.
4. A clump of grass, &c.
5. A fort, an intrenchment.
6. Disciplining an army, keeping it in a posture of defence.
7. A wharf or stairs, a Ghat.
8. A disease; according to some, a chronic enlargement of the spleen, but as variously situated, it is any glandular enlarge- ment in the abdomen, as that of the mesenteric gland, &c. so as to be perceived externally. f. (-ल्मी)
1. A tent.
2. Emblic myrobalan also आमलकी।
3. Small cardamoms: see एला।
4. A cluster or clump of trees, a muititude of thickets.
5. A kind of plant, commonly Kurkavali. E. गुड to surround, मक् affix, ड changed to ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल्मः [gulmḥ] ल्मम् [lmam], ल्मम् [गुड् मक् डस्य लः Tv.]

A clump or cluster of trees, a thicket, wood, bush; विशालगुल्मं प्ररुज- न्वनस्पतीन् Bhāg.8.2.2; Ms.1.48;7.192;12.58; Y.2.229.

A troop of soldiers; i. e. three सेनामुखs; cf. Mb.1.2.2; a division of an army, consisting of 45 foot, 27 horse, 9 chariots and 9 elephants (according to राजधर्मकाण्ड of कृत्यकल्पतरु of लक्ष्मीधर; cf. also दण्डविवेक, G. O. S.52, p.31).

A fort, entrenchment; मध्यमेन च गुल्मेन रक्षिभिः सा सुरक्षिता, Mb.3.15.11.

The spleen.

A chronic enlargement of the spleen.

A village police-station.

A wharf of stairs (Mar. घाट).

Disciplining an army, keeping it in a posture of defence.

War-camp; तथैव गुल्मे संप्रेक्ष्य शयानान्मध्यगौल्मिकान् Mb. 1.8.41.

A tent; Mb.6.86.54.

ल्मी A cluster or clump of trees.

Jujube.

Small cardamoms.

A tent. -Comp. -कुष्ठम् a. kind of leprosy. -केतुः a small sort of cane, sorrel. -केश a. having bushy hair. -मूलम् fresh ginger. -वातः, -उदरः a disease of the spleen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल्म m. (rarely n. MBh. x BhP. viii , x ) a cluster or clump of trees , thicket , bush , shrub VS. xxv , 8 Mn. Ya1jn5. etc.

गुल्म m. a troop or guard of soldiers , body of troops , division of an army (consisting of 45 foot , 27 horse , 9 chariots , and 9 elephants MBh. i , 290 ; or of 135 foot , 81 horse , 27 chariots , and 27 elephants L. ; See. MBh. v , 5270 ) Mn. vii , ix MBh. etc.

गुल्म m. a fort , entrenchment W.

गुल्म m. disciplining an army W.

गुल्म m. a chronic enlargement of the spleen or any glandular enlargement in the abdomen (as that of the mesenteric gland etc. ) Sus3r. VarBr2. xxi , 8 Katha1s. xv

गुल्म m. the spleen L.

गुल्म m. " a wharf or stairs , Ghat2. "See. -तर-पण्य

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of साराण. वा. ९६. १६५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GULMA : See under Akṣauhiṇī.


_______________________________
*1st word in left half of page 306 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गुल्म&oldid=499338" इत्यस्माद् प्रतिप्राप्तम्