सामग्री पर जाएँ

गुह्यक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह्यकः, पुं, (गूहति निधिं धनविशेषं रक्षतीति । गुह् + ण्वुल् । पृषोदरादित्वाद्यगागमे साधुः ।) देवयोनिविशेषः । स तु कुवेरानुचरः निधि- रक्षको माणिभद्रादियक्षभेदः । इत्यमरभरतौ ॥ (कार्य्योत्पत्त्यादिभेदेनैष तु बहुधोदाह्रियते तथाच व्याडिनोक्तम् । “निधिं रक्षन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः ॥” गुह्यं कुत्सितं कायति शब्दायते प्रकाशयति वा । कै + कः । यद्वा गुह्यं गोप्यं कं सुखं यस्य । “शंसिदुहिगुहिभ्योवेति” काशिकोक्तेः क्यप् वा । यद्वा गुह्यात् सृष्टिं चिकीर्षोः परब्रह्मणः कृष्णस्य गुह्यदेशात् कायति आविर्भवतीति । यदुक्तं ब्रह्मवैवर्त्ते ब्रह्मस्वण्डे । ५ । ६० । “आविर्ब्बभूव कृष्णस्य गुह्यदेशात्ततः परम् । पिङ्गलश्च पुमानेकः पिङ्गलैश्च गणैः सह । आविर्भूता यतो गुह्यात् तेन ते गुह्यकाः स्मृताः ॥” यथा, महाभारते । ३ । ३ । १० । “तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः । सिद्धचारणगन्धर्व्वा यक्षगुह्यकपन्नगाः ॥”) तस्य लोकः पिशाचलोकादूर्द्ध्वं गन्धर्व्वलोकादधः । येन येन कर्म्मणा एतल्लोकप्राप्तिस्तदुच्यते । “ततो गच्छन्ददर्शाग्रे हृष्टपुष्टजनैर्वृतम् । पित्तिण्डिलैः स्थूलवक्रैर्मेघगम्भीरनिस्वनैः ॥ लोकैरध्युषितं लोकं श्यामलाङ्गैश्च लोमशैः । गणौ कथयतं केऽमी को लोकः पुण्यतः कृतः ॥ गणावूचतुः । गुह्यकानामयं लोकस्त्वेते वै गुह्यकाः स्मृताः । न्यायेनोपार्ज्य वित्तानि गूहयन्ति च ये भुवि ॥ स्वमार्गगा धनाढ्याश्च शूद्रप्रायाः कुटुम्बिनः । संविभज्य च भोक्तारः क्रोधासूयाविवर्ज्जिताः ॥ न तिथिं नैव वारञ्च संक्रान्त्यादि न पर्व्व च । नाधर्म्मञ्च न धर्म्मञ्च विदन्त्येते सदासुखाः ॥ एकमेव हि जानन्ति कुलपूज्यो हि यो द्विजः । तस्मै गाः संप्रयच्छन्ति मन्यन्ते तद्वचः स्फुटम् ॥ समृद्धिभाजो ह्यत्रापि तेन पुण्येन गुह्यकाः । भुञ्जते स्वर्गसौख्यानि देवत्वमकुतोभयाः ॥” इति काशीखण्डे शिवशर्म्मणो वैकुण्ठलोकगमने विष्णुगणसंवादः ॥ (पक्वान्नविशेषः । तस्य पाकप्रकारो यथा, शब्दार्थचिन्तामणिधृतपाक- शास्त्र । “समितां सर्पिषा भृष्टां सिताद्राक्षादिसम्भृताम् । एला लवङ्गकर्पूरमरीचपरिवासिताम् ॥ क्षिप्त्वान्यसमितालम्बपुटे वेष्ट्य घृते पचेत् । ततः खण्डे न्यसेत् पक्वे गुह्यकोऽयमुदाहृतः ॥” अस्य गुणास्तत्रैव । यथा, -- “गुह्यको बृंहणो हृद्यो वृष्यः पित्तानिलापहः । मधुरोऽतिगुरुः पाके किञ्चित् सन्धानकृत् सरः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह्यक पुं।

देवयोनिः

समानार्थक:विद्याधर,अप्सरस्,यक्ष,रक्ष,गन्धर्व,किन्नर,पिशाच,गुह्यक,सिद्ध,भूत

1।1।11।2।2

विद्याधराप्सरोयक्षरक्षोगन्धर्व किन्नराः। पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥

 : अप्सरस्, हाहानामदेवगायकः, हूहूनामदेवगायकः, देवगायकः, राक्षसः, किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह्यक¦ पु॰ गूहन्ति रक्षन्ति निधिं गुह--स्त्वुल् पृषो॰ यगा-गमः।
“निधिं गूहन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाःइति व्याडिः। गुह्यं कुत्सितं कायति कै--शब्दे कःगुह्यं गोपनीयं कं सुखं येषामिति वा अनयोःपक्षयोः
“शंसिदुहिगुहिभ्योवेति” काशिकावचनात्गुहेः क्यप्।

१ देवयोनिभेदे तल्लोकप्राप्तिकर्मभेदाःकाशी॰ ख॰ उक्ता यथा
“गुह्यकानामयं लोकस्त्वेतेवैगुह्यकाः स्मृताः”
“न्यायेनोपार्ज्य वित्तानि गूहयन्तिच ये भुवि। स्वमार्गगा धनाद्याश्च शूद्रप्रायाः कुटुम्बिनः। संविभज्य च भोक्तारः क्रोधासूयाविवर्जिताः। न तिथिं नैव वारञ्च संक्रान्त्यादि न पर्व च। नाधर्मञ्चन धर्मञ्च विदन्त्येते सदासुखाः। एकमेव हि जा-नन्ति कुलपूज्योहि यो द्विजः। तस्मै गाः संप्रयच्छन्तिमन्यन्ते तद्वचः स्फुटम्। समृद्धिभाजोह्यत्रापि तेनपुण्येन गुह्यकाः। भुञ्जते स्वर्गसौख्यानि देवत्व-मकुतोभयाः”।

२ पकान्नभेदे तत्पाकप्रकारो यथा
“समितां सर्पिषा भृष्टां सिताद्राक्षादिसम्भृताम्। एलालवङ्गकर्पूरमरीचपरिवासिताम्। क्षिप्त्वान्यसमितालम्बपुटे वेष्ट्य घृते पचेत्। ततः खण्डे न्यसेत्पक्वे गुह्यकोऽयमुदाहृतः। गुह्यको वृंहणोहृद्योवृष्यः पित्तानिलापहः मधुरोऽतिगुरुः पाके किञ्चित्सन्धानकृत्सरः” पाकशा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह्यक¦ m. (-कः) A kind of demigod attendant upon KUVERA the deity of wealth, and guardian of his treasures. E. गुह् to preserve or conceal, affix क्वुन् and य inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह्यकः [guhyakḥ], 1 N. of a class of demigods, who, like the Yakṣas, are attendants of Kubera and guardians of his treasures; गुह्यकस्तं ययाचे Me.5; Ms.12.47.

The number 'eleven'. -Comp. -अधिपतिः, -ईश्वरः an epithet of Kubera.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह्यक m. N. of a class of demi-gods who like the यक्षs are attendants of कुबेर(the god of wealth) and guardians of his treasures (they may have received their N. from living in mountain caverns) Mn. xii , 47 MBh. Hariv. etc. (identified with यक्षs MBh. v , 7480 Megh. 5 etc. )

गुह्यक m. the number " eleven " Su1ryas.

गुह्यक m. N. of कुबेरL.

गुह्यक m. " mystery "See. तथागत-ग्.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GUHYAKA : A Yakṣa. (A division of Yakṣas who were prominent members of the court of Kubera). They were present at the marriage of Draupadī. (Śloka 7, Chapter 186, Ādi Parva).

Other details.

(i) The palace of Kubera in the sky is borne by Guh- yakas. (Śloka 3, Chapter 10, Sabhā Parva).

(ii) Bhīmasena slew many Guhyakas on the mountain of Gandhamādana. (Śloka 55, Chapter 11, Śalya Parva).

(iii) Some of the soldiers who died in the Mahābhā- rata battle went to the world of the Guhyakas. (Śloka 23, Chapter 4, Svargārohaṇa Parva).


_______________________________
*3rd word in right half of page 301 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गुह्यक&oldid=429031" इत्यस्माद् प्रतिप्राप्तम्