गुह्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह्यम्, क्ली, (गुहां गोपनं अर्हति वस्त्राद्यभ्यन्तर- स्थानं लब्धुमर्हतीति यावत् । गुहा + “तद- र्हति ।” ५ । १ । ६३ । इति यत् । गुह + कर्म्मणि क्यवित्येके ।) उपस्थः । स तु भगं लिङ्गञ्च । (भगार्थे यदुक्तम् । “कामार्त्तः पुरुषो ह्यत्र चुम्बयेद् गुह्यमादृतः ॥”) रहस्ये त्रि । इत्यमरः । ३ । ३ । १५३ ॥ गोप्यम् । तत्पर्य्यायः । विविक्तः २ विजनः ३ छन्नः ४ निःशलाकः ५ रहः ६ उपांशु ७ गूढम् ८ उपह्वरम् ९ । इति जटाधरः ॥ (यथा, भग- वद्गीतायाम् । ९ । २ । “राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ॥” तथा च, देवीभागते । १ । ३ । ३७ । “पुराणगुह्यं सकलं समेतं गुरोः प्रसादात् करुणानिधेश्च ॥”)

"https://sa.wiktionary.org/w/index.php?title=गुह्यम्&oldid=132186" इत्यस्माद् प्रतिप्राप्तम्