गृध्रः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्रः, पुं, (गृध्यति अभिकाङ्क्षति मांसानीति । “सुसूधाञ् गृधिभ्यः क्रन् ।” उणां । २ । २४ । इति क्रन् ।) पक्षिविशेषः । गृधिनी शकुनी इति च भाषा । तत्पर्य्यायः । दाक्षाय्यः २ वज्र- तुण्डः ३ दूरदर्शनः ४ । इति राजनिर्घण्टः ॥ (यथा, महाभारते । ६ । ३ । ३१ । “गृध्रः संपतते शीर्षं जनयन् भयमुत्तमम् ॥” इह लोके लोभवशात् यस्तु देवब्राह्मणस्वं हरति स पापात्मा परत्र गृध्रोच्छिष्टेनोपजीवति । यथाह मनुः । ११ । २६ । “देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः । स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥”)

"https://sa.wiktionary.org/w/index.php?title=गृध्रः&oldid=132273" इत्यस्माद् प्रतिप्राप्तम्