गृहस्थ

विकिशब्दकोशः तः
नेविगेशन पर जाएँ खोज पर जाएँ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहस्थः, पुं, (“न गृहं गृहमित्याहुर्गृहिणी गृह- मुच्यते ।” अतएव गृहेषु दारेषु तिष्ठति अभि- रमते इति । गृह + स्था + “सुपि स्थः ।” ३ । २ । ४ । इति कः ।) गृही । द्वितीयाश्रमी । तत्पर्य्यायः । ज्येष्ठाश्रमी २ गृहमेधी ३ स्नातकः ४ गृही ५ । इति हेमचन्द्रः । ३ । ४७१ ॥ गृहपतिः ६ सत्री ७ । इत्यमरः । २ । ८ । १५ ॥ गृहयाय्यः ८ । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ गृहा- धिपः ९ । इति हलायुधः ॥ कुटुम्बी १० । इति जटाधरः ॥ गृहायनिकः ११ । इति शब्दरत्ना- वली ॥ * ॥ तस्य धर्म्मो यथा, -- “गृहस्थो ब्रह्यचारी च वानप्रस्थोऽथ भिक्षुकः । चत्वार आश्रमाः प्रोक्ताः सर्व्वे गार्हस्थ्यमूलकाः ॥ यः कश्चिदिह लोकेऽस्मिन्नागमः संप्रकीर्त्तितः । तस्यात्र गमनं श्रेयः कीर्त्तिरेषा सनातनी ॥ संस्कारैः संस्कृतः पूर्ब्बं यथावच्चरितव्रतः । जातौ गुणविशिष्टायां समावर्त्तेत वेदवित् ॥ स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः । पञ्चभिञ्च महायज्ञैः श्रद्दधानो यजेदिह ॥ देवतातिथिशिष्टाशी निरतो वेदकर्म्मसु । इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ॥ न पाणिपादचपलो न नेत्रचपलो मुनिः । न च वागङ्गचपल इति शिष्टस्य गोचरः ॥ नित्यं यज्ञोपवीती स्यात् शुक्लवासाः शुचिव्रतः । नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत् ॥ जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः । वैणवीं धारयेद्यष्टिं सोदकञ्च कमण्डलुम् ॥ अधीत्याध्यापनं कुर्य्यात् तथा यजनयाजने । दानं प्रतिग्रहञ्चापि षड्गुणां वृत्तिमाचरेत् ॥ त्रीणि कर्म्माणि यानीह ब्राह्मणानान्तु जीविका । याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ॥ अथ शेषाणि चान्यानि त्रीणि कर्म्माणि यानि तु । दानमध्ययनं यज्ञो धर्म्मयुक्तानि तानि तु ॥ तेध्वप्रमादं कुर्व्वीत त्रिषु कर्म्मसु धर्म्मवित् । दान्तो मैत्रः क्षमायुक्तः सर्व्वभूतसमो मुनिः ॥ सर्व्वमेतद् यथाशक्ति विप्रो निर्व्वर्त्तयन् शुचिः । एवं युक्तो जयेत् स्वर्गं गृहस्थः संशितव्रतः ॥” इत्थाश्वमेधिकपर्व्व ॥ “सर्व्वेषामाश्रमाणान्तु द्वैविध्यन्तु चतुर्व्विधम् । ब्रह्मचार्य्युपकुर्व्वाणो नैष्ठिको ब्रह्मतत्परः ॥ योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् । उपकुर्व्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ अग्नयोऽतिथिश्रुश्रूषा यज्ञो दानं सुरार्च्चनम् । गृहस्थस्य समासेन धर्म्मोऽयं द्विजसत्तमाः ॥ उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् । कुटुम्बभरणे युक्तः साधकोऽसौ गृही भवेत् ॥ ऋणानि त्रीण्युपाकृत्य त्यक्त्वा भार्य्याधनादिकम् । एकाकी विचरेद् यस्तु उदासीनः स मौक्षिकः ॥” इति गारुडे ४९ अध्यायः ॥ बाहुल्यन्तु तत्रैव । ५० । ५१ । अध्याययोर्द्रष्टव्यम् ॥ * ॥ गृहस्थब्राह्मणधर्म्मो यथा, -- “चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजः । द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥ यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्म्मभिरगर्हितैः । अक्लेशेन शरीरस्य कुर्व्वीत धनसञ्चयम् ॥ ऋतामृताभ्याञ्जीवेत्तु मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतन्तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ सत्यानृतन्तु वाणिज्यं तेन चैवापि जीव्यते । सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्ज्जयेत् ॥” इत्यादि मानवे ४ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहस्थ¦ पु॰ गृहे दारेषु तिष्ठति अभिरमते स्था--क। गृहिणि गृहस्थाश्रमिणि द्वितीयाश्रमस्थे
“गृहस्थस्तुयदा पश्येत् वलीपलितमात्मनः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहस्थ¦ m. (-स्थः) A householder, the man of the second class, or he who, after having finished his studies, and been invested with the sacred thread, performs the duties of the master of a house, and father of a family. E. गृह a house, and स्थ who stays or abides.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहस्थ/ गृह--स्थ mfn. ifc. living or staying in any one's house MBh.

गृहस्थ/ गृह--स्थ m. a householder , Brahman in the 2nd period of his religious life (performing the duties of the master of a house and father of a family after having finished his studies and after investiture with the sacred thread ; See. RTL. pp. 138 ; 150 ; 362 and 386) Gaut. A1p. Mn. BhP. vii , etc.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GṚHASTHA : In ancient India the life of a male person was divided into four stages, namely, Brahmacarya Gārhasthya, Vānaprastha and Sannyāsa. He who is in the second stage of life is called a Gṛhastha.

When a person marries, he becomes a Gṛhastha. The bride should have certain qualities to be an ideal wife. The girl should be only a third of the age of the male. She should not have hair either too much or too little. She should not be black or of a piṅgala hue. She should not have any of her organs extra at the time of birth. The following types of girls are to be avoided for marriage. (1) Girls bred up by low-caste people (2) girls with hair over the body (3) not born of a good family (4) sick ones (5) ill-natured ones (6) girls who use abusive language (7) with hereditary diseases (8) with śmaśru (hair on the face) (9) girls with mascu- line features (10) with the sound of males (11) lean ones (12) with the voice of a crow (13) with thick eye- lashes (14) round eyes. Again avoid girls having hair on their legs, raised heels and those with small depre- ssions on their cheeks when they laugh. Girls whose bodies are too bright, with white nails, red eyes and fat hands and legs are not good for marriage. Girls too tall or too short, with eyelashes touching each other, with broad and raised teeth are to be avoided. A true Gṛhastha is one who marries a girl who is separated from him by five generations on the maternal side and seven generations on the paternal side.

A true Gṛhastha should daily worship devas, cows, brahmins, scholars, old men and preceptors. He should worship sandhyā (dawn and dusk) daily and also fire. He should wear on his body leaves of Viṣṇukrānti, Karuka (couch grass), Tulasī (holy basil plant). He should appear neat and smart wearing good dress, with white flowers on his well combed head. He should never steal, speak unpleasant words to anybody nor speak an untruth even if it be pleasant. He should not openly speak about the sins of others. He should not covet another man's wife. He should not travel in a damaged vehicle nor should he sit under the shade of a tree on the banks of a river. A Gṛhastha should not mingle with such persons as (1) men hated by the people (2) outcastes from society (3) insane men (4) those having a great number of enemies (5) those who torment others (6) prostitutes (7) husbands of prosti- tutes (8) those who use abusive language (9) those who tell lies (10) spendthrifts (11) scandalmongers and (12) rogues. Never travel alone. He should not bathe against the flow in a river. Never enter a house on fire nor climb to the extreme top of trees. He should not grind his teeth, squeeze out his nose, yawn without covering the mouth. breathe or spit, with the face covered, laugh noisily, breathe out with a sound, bite the teeth, pinch grasses or write or draw on the ground (Aṁśa 3, Viṣṇu Purāṇa).


_______________________________
*1st word in right half of page 300 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गृहस्थ&oldid=499353" इत्यस्माद् प्रतिप्राप्तम्