गैरिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गैरिकम्, क्ली, (गिरौं भवमिति अध्यात्मादित्वात् ढञ् ।) स्वर्णम् । रक्तवर्णधातुविशेषः । गिरि- माटी इति भाषा ॥ तत्पर्य्यायः । रक्तधातुः २ गिरिधातुः ३ गवेधुकम् ४ धातुः ५ सुरङ्ग- धातुः ६ गिरिमृद्भवम् ७ । इति राजनिर्घण्टः ॥ वनालक्तम् ८ गवेरुकम् ९ प्रत्यश्मा १० गिरि- मृत् ११ । इति त्रिकाण्डशेषः ॥ लोहित- मृत्तिका १२ गिरिजम् १३ ॥ पीतगैरिकस्य पर्य्यायः । सुवर्णगैरिकम् १ सुवर्णम् २ स्वर्ण- गैरिकम् ३ । इति रत्नमाला ॥ स्वर्णधातुः ४ सुर- क्तकः ५ सन्ध्याभ्रम् ६ वभ्रुधातुः ७ शिला- धातुः ८ । अनयोर्गुणाः । मधुरत्वम् । शीत- त्वम् । कषायत्वम् । व्रणरोपणत्वम् । विस्फोटा- र्शोऽग्निदाहनाशित्वम् । स्वर्णवर्णादिकं शुभम् । इति राजनिर्घण्टः ॥ निर्म्मलत्वम् । स्निग्धत्वम् । सुवर्णगैरिकं तद्वत् विशेषतश्चक्षुस्तेजस्कारित्वम् । इति राजवल्लभः ॥ “गैरिकं रक्तधातुश्च गैरेयं गिरिजन्तथा । सुवर्णगैरिकन्त्वन्यत्ततो रक्ततरं हि तत् ॥ गैरिकद्वितयं स्निग्धं मधुरन्तुवरं हिमम् । चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गैरिक वि।

धातुविशेषः

समानार्थक:गैरिक

2।3।8।1।2

धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः। निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे॥

 : सुवर्णम्, रजतम्, पित्तलम्, ताम्रम्, लोहः, काचः, पारदः, अभ्रकम्, सौवीराञ्जनम्, तुत्थाञ्जनम्, आवर्तननिष्पन्नरसाञ्जनम्, रसाञ्जनम्, सन्तप्तपित्तलादुत्पन्नद्रव्यम्, हरितालम्, शिलाजतुः, गन्धरसः, समुद्रफेनः, सिन्दूरम्, सीसकम्, वङ्गम्, मनःशिला, यवक्षारः, स्वर्जिकाक्षारः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

गैरिक नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

3।3।12।1।2

शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्. पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते॥

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गैरिक¦ न॰ गिरौ भवम् ठञ्। (गेरिमाटि) उपधातुभेदे तद्गु-णादि भावप्र॰ उक्तं यथा।
“गैरिकं रक्तधातुश्च गैरेयंगिरिजं तथा। सुवर्णगैरिकं त्वन्यत् ततो रक्ततरंहि तत्। गैरिकद्वितयं स्निग्धं मधुरं तुवरं हिमम्। चक्षुव्यं दाहपित्तास्रकफहिक्काविषापहम्”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गैरिक¦ mfn. (-कः-की-कं) Mountain, mountain-born or produced n. (-कं)
1. Red chalk, or as sometimes applied, red orpiment.
2. Gold. E. गिरि a mountain, affix ठक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गैरिक [gairika], a. (-की f.) [गिरौ भवः ठञ्] Mountain-born. -कः, -कम् Red chalk; संसर्पिभिः पयसि गैरिकरेणुरागैः Śi.5. 39. -कम् Gold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गैरिक mfn. = रW.

गैरिक n. gold L.

गैरिक n. red chalk (sometimes used as a red ornament) MBh. vii , ix , xiv R. Sus3r. VarBr2S.

गैरिक m. pl. a class of ascetics , S3i1l. (in Prakrit geruya)

"https://sa.wiktionary.org/w/index.php?title=गैरिक&oldid=338350" इत्यस्माद् प्रतिप्राप्तम्