गोणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोणी, स्त्री, (शणादिगुणाद् जातः गोणः निपा- तनादुकारस्य गुणः । गोणशब्दात् आवपने- ऽर्थे “जानपदकुण्डगोणेति ।” ४ । १ । ४२ । इति ङीष् ।) धान्यादिवहनार्थाधारविशेषः । इति मुग्धबोधम् । गुण् इति भाषा ॥ द्रोणी- परिमाणम् । इति वैद्यकपरिभाषा ॥ (यथा, सुश्रुते चिकित्सितस्थाने चतुर्थाध्याये । “विडालनकुलोष्ट्राणां चर्म्मगोण्यां मृगस्य वा । प्रबेशवेद्वा स्वभ्यक्तं श्वाल्वणेनोपनाहितम् ॥” “शूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा स्मृता । माषटङ्काक्षविल्वानि कुडवः प्रस्थमाढकम् । राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणाः ॥” इति शार्ङ्गधरेण पूर्ब्बखण्डे प्रथमेऽध्याय उक्तम् ॥ “गोणी शूर्पद्वयं विद्यात् खारीं भारीन्तथैव च । द्वात्रिंशतं विजानीयात् वाहं शूर्पाणि बुद्धिमान् ॥” इति कल्पस्थाने द्वादशेऽध्याये चरकेणोक्तम् ॥) छिद्रवस्त्रम् । तत्पर्य्यायः । शानी २ । इति हेम- चन्द्रः । ३ । ३४३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोणी¦ स्त्री गुण--घञ् नि॰ गुणः गोण + आवपनेऽर्थे ङीप्। धान्याधारे (गुण) ख्याते

१ आवपनपात्रे

२ छिद्रवस्त्रे,-

३ शाण्यां,

४ द्विशूर्पात्मके मानभेदे,

५ द्रोणीपरिमाणेच।
“गोणी त्वावपनं चेत्” स्मानपदा॰ पा॰ सू॰सि॰ कौ॰। तस्य द्विशूर्पात्मकता भावप्र॰ उक्ता यथा[Page2696-a+ 38]
“शूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा स्मृता। द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः। चतुःस-हस्रपलिका षण्णवत्यधिका व सा। पलानां द्विसह-स्रञ्च भार एकः प्रकीर्त्तितः। तुला पलशतं ज्ञेयंसर्वत्रैवैष निश्चयः। माषटङ्काक्षविल्वानि कुडवः प्रस्थमाटकम्। राशिर्गोणी स्वारिकेति यथोत्तरचतुर्गुण-म्”। पञ्चभिः सप्तभिर्वा गोणीभिः क्रीतः तद्धितार्थे द्विगौपरिमाणात् ठञ्।
“द्विगोर्लुगनपत्ये” पा॰ तस्य लुकिउपवर्जनस्त्रीप्रत्ययेस्य लुक्। ततः
“इद्गोण्याः” पा॰ इत्पञ्चगोणि सप्तगोणि पञ्चगोण्यादिक्रीते पटादौ त्रि॰। ह्रस्वा गोणी ष्टरच् षित्त्वात् ङीष्। गोणीतरीह्रस्वगोण्याम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोणी¦ f. (-णी)
1. Torn or ragged clothes.
2. A sack.
3. The measure of a Drona. E. गुण् to reckon, affixes घञ् नि-गुणः and ङीष् the deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोणी [gōṇī], 1 A sack. गोणीं जनेन स्म निधातुमुद्घृतामनुक्षणं नोक्षतरः प्रतीच्छति Śi.12.1.

A measure of capacity equal to a Droṇa.

Ragged garment, torn clothes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोणी f. (in Prakrit) a cow Pat. Introd. 35 ; 97

गोणी f. and on Va1rtt. 6

गोणी f. a sack Pa1n2. 4-1 , 42 Sus3r. Das3. S3is3. xii , 10 S3a1rn3gP.

गोणी f. a measure of 4 द्रोणs S3a1rn3gS. i , 29

गोणी f. of णSee.

"https://sa.wiktionary.org/w/index.php?title=गोणी&oldid=499364" इत्यस्माद् प्रतिप्राप्तम्