गोत्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोत्रम्, क्ली, गवते शब्दयति पूर्ब्बपुरुषान् यत् । इति भरतः ॥ (गु + “गुधृवीपतीति ।” उणां । ४ । १६६ । इति त्रः ।) तत्पर्य्यायः । सन्ततिः २ जननम् ३ कुलम् ४ अभिजनः ५ अन्वयः ६ वंशः ७ अन्ववायः ८ सन्तानः ९ । इत्यमरः । २ । ७ । १ ॥ आख्या । (यथा, कुमारे । ४ । ८ । “स्मरसि स्मरमेखलागुणै- रुत गोत्रस्खलितेषु बन्धनम् ॥”) सम्भावनीयबोधः । काननम् । क्षेत्रम् । वर्त्म । इति मेदिनी । रे । २६ ॥ छत्रम् । इति हेम- चन्द्रः ॥ संघः । वृद्धिः । इति शब्दचन्द्रिका ॥ वित्तम् । इति विश्वः ॥ * ॥ “वंशपरम्पराप्रसिद्धं आदिपुरुषं ब्राह्मणरूपम् । क्षत्त्रियवैश्ययोरुपदिष्टातिदिष्टगोत्रं शूद्रस्याति- दिष्टातिदिष्टगोत्रम् ।” इत्युद्वाहतत्त्वम् ॥ क्षत्त्रिय- वैश्य शूद्राणामतिदिष्टातिदिष्टगोत्रप्रवरमतएवै- तेषां पुरोहितगोत्रप्रवरमित्यर्थः । तथा चाग्नि- पुराणे वर्णसङ्करोपाख्याने । “क्षत्त्रियवैश्यशूद्राणां गोत्रञ्च प्रवरादिकम् । तथान्यवर्णसङ्कराणां येषां विप्राश्च याजकाः ॥” गोत्राणि तु चतुर्व्विंशतिः तथा च मनुः । “शाण्डिल्यः काश्यपश्चैव वात्स्यः सावर्णकस्तथा । भरद्वाजो गौतमश्च सौकालीनस्तथापरः ॥ कल्किषश्चाग्निवेश्यश्च कृष्णात्रेयवशिष्ठकौ । विश्वामित्रः कुशिकश्च कौशिकश्च तथापरः ॥ घृतकौशिकमौद्गल्यौ आलम्यानः पराशरः । सौपायनस्तथात्रिश्च वासुकी रोहितस्तथा ॥ घैयाघ्रपद्यकश्चैव जामदग्न्यस्तथापरः । चतुर्व्विंशतिर्वै गोत्रा कथिताः पूर्ब्बपण्डितैः ॥” तथा च मनुः । “जमदग्निर्भरद्वाजो विश्वामित्रात्रिगौतमाः । वशिष्ठकाश्यपागस्त्या मुनयो गोत्रकारिणः ॥ एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते ॥” एतदुपलक्षणमन्येषामपि दर्शनात् । तथा च । “सौकालीनकभौद्गल्यौ पराशरबृहस्पती । काञ्चनो विष्णुकौशिक्यौ कात्यायनात्रेय- काण्वकाः ॥ कृष्णात्रेयः साङ्कृतिश्च कौण्डिल्यो गर्गसंज्ञकः । आङ्गिरस इति ख्यातः अनावृकाख्यसङ्गितः ॥ अव्यजैमिनिवृद्धाख्याः शाण्डिल्यो वात्स्य एव च । सावर्ण्यालम्यानवैयाघ्रपद्यश्च घृतकौशिकः ॥ शक्त्रिः काण्वायनश्चैव वासुकी गौतमस्तथा । शुनकः सौपायनश्चैव मुनयो गोत्रकारिणः ॥ एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते ॥” सर्व्वे चत्वारिंशद्गोत्राः । इति कुलदीपिका- धृतधनञ्जयकृतधर्म्मप्रदीपः ॥ (मेघः । इति निघण्टुः । १ । १० । यथा, ऋग्वेदे । १ । ५१ । ३ । “त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शत- दुरेषु गातुवित् ॥”)

"https://sa.wiktionary.org/w/index.php?title=गोत्रम्&oldid=132463" इत्यस्माद् प्रतिप्राप्तम्