गोत्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोत्रा, स्त्री, (गाः पशून् सर्व्वान् जीवानित्यर्थः त्रायते इति । त्रै + कः । स्त्रियां टाप च ।) पृथिवी । (गवां समूहः । “इनित्रकड्यचश्च ।” ४ । २ । ५१ । इति त्रः । टाप् च ।) गोसमूहः । इति मेदिनी । रे । २६ ॥ (गायत्त्रीस्वरूपा महादेवी । यथा, देवीभागवते । १२ । ६ । ४१ । “गन्धर्व्वी गह्वरी गोत्रा गिरिशा गहना गमी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोत्रा स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।2।1

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

गोत्रा स्त्री।

गोसमूहः

समानार्थक:गव्या,गोत्रा

2।9।60।2।2

अनड्वान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम्. गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके॥

अवयव : गौः

 : गोसङ्घातः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोत्रा¦ स्त्री गवां समूहः त्र।

१ गोसमूहे गां त्रायते शस्यादिपोषणेन त्रै--क।

२ भूमौ अमरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोत्रा/ गो--त्रा f. a herd of kine Pa1n2. 4-2 , 51

गोत्रा/ गो--त्रा f. the earth L. (See. गोत्रे-श)

"https://sa.wiktionary.org/w/index.php?title=गोत्रा&oldid=339373" इत्यस्माद् प्रतिप्राप्तम्