गोधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधा, स्त्री, (गुध्यते परिवेष्ट्यते बाहुर्यया । गुध् + “हलश्चेति ।” करणे घञ् ।) धनुर्गुणाघात- वारणाय प्रकोष्ठबद्धा चर्म्मकृतपट्टिका । तत्- पर्य्यायः । तला २ ज्याघातवारणा ३ । इत्य- मरः । २ । ८ । ८४ ॥ तलम् ४ । इति तट्टीका ॥ (यथा, महाभारते । ३ । १७ । ३ । “विक्षिपन्नादयंश्चापि धनुः श्रेष्टं महाबलैः । तूणखड्गधरः शूरो बद्धगोधाङ्गलित्रवान् ॥”) जस्तुबिशेषः । गोसाप् इति भाया ॥ सा तु स्थलजजलजभेदात् द्विविधा । तत्पर्य्यायः । निहाका २ गोधिका ३ । इत्यमरः । १ । १० । २२ ॥ दारुमुख्याह्वा ४ । (यथा, बृहत्संहितायाम् । ५४ । १३ । “श्वेता गोधार्द्धनरे पुरुषे मृद्धूसरा ततः कृष्णा । पीता सिता ससिकता ततो जलं विनिर्द्दिशेद- मितम् ॥” पञ्चनखतया गोधाया मांसं भक्ष्यत्वेन ग्राह्य- मित्यभिहितं मन्वादिभिर्धर्म्मशास्त्रप्रयोक्तृभिः । यथा, मनुः । ५ । १८ । “श्वाविकं शल्लकं गोधां खड्गकूर्म्मशशांस्तथा । भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्राञ्चैकतोदतः ॥”) अस्या मांसगुणाः । वातश्वासकासनाशित्वम् । इति राजनिर्घण्टः ॥ पाके मधुरत्वम् । कषाय- त्वम् । कटुरसत्वम् । पित्तनाशित्वम् । रक्तशुक्र- बलकारित्वम् । इति राजवल्लभः ॥ (“गोधा विपाके मधुरा कषायकटुका रसे । वातपित्तप्रशमनी बृंहणी बलवर्द्धनी ॥” इति चरके सूत्रस्थाने २७ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधा स्त्री।

ज्याघातवारणः

समानार्थक:गोधा,तल

2।8।84।2।3

कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ। कोटिरस्याटनी गोधातले ज्याघातवारणे॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधा¦ कौटिल्ये कण्ड्वादेराकृतिगणः नामधातुः पर॰ अक॰सेट्। गोधायति अगोधायीत्।

गोधा¦ स्त्री गुध्यते वेष्ट्यते बाहुरनया करणे घञ्। घनुर्गुणाघातवारणाय प्रकोष्ठे

१ बध्यमाने चर्मणि।
“बद्ध-गोधाङ्गुलित्रवान्” भा॰ व॰

१७ अ॰
“गोधाश्लिष्टभुजाशाखैरभूद्भोमा रणाटवी” माघः।
“ततश्चटचटाशब्दोगोधाघातादभूत्तयोः” भा॰ द्रो॰

१३

९ अ॰। कर्त्तरि अच्। (गोसाप) इति ख्याते

२ सर्पभेदे स्त्री अमरः
“श्वाविधंशल्लकं गोधां खड्गकूर्मशशांस्तथा। भक्ष्यान् पञ्चनखे-ष्वेताननुष्ट्रांश्चैकतोदतः” मनुना तन्मांसं पञ्चनखेषु भक्ष्य-तयाऽभिहितम्। तन्मांसपाकगुणादि भावप्र॰ उक्तं यथा
“गोधाञ्चोष्णजलैर्भूयः क्षालितां खण्डशः कृताम्। स्विन्नाञ्च तक्रतोयाभ्यां क्षालितां सूक्ष्मखण्डिताम्। तल-येद् वेसवाराम्लैः प्रलेहो वा विधानतः। विपाके मघुरागोधा वातपित्तप्रणाशिनी। कषाया कटुका प्रोक्ताकफघ्नी बलवर्द्धिनी। ” सा तु स्थलजजलभेदाद्द्विधा। स्वार्थे क। अत्रैवार्थे। गोधायाः अपत्यम् वा ढ्रक्। गौधेर पक्षे शुभ्रा॰ ढक्। गौधेय उदीचा॰ मते आरक्। गौधार तदपत्ये पुंस्त्री ढकि स्त्रीत्वे ङीप् इति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधा¦ f. (-धा)
1. A leathern fence worn by archers on the left arm, to prevent its being injured by the bowstring.
2. An iguana, either the Gosap or the alligator. E. गुध् to surround, affixes घञ् and टाप्; see गोधिक। गुध्यते वेष्ट्यते बाहुरनया करणे घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधा [gōdhā], [गुध्यते, वेष्ट्यते बाहुरनया करणे घञ]

A leathern fence fastened round the left arm to prevent injury from the bow-string; गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी Śi. 19.39.

The alligator (Mar. सुसर); गोधाधरान् कीलधरान् वलीमुखशिलीमुखान् Parnāl 3.25; त्रिभागागोधामुखं गोपुरं कारयेत् Kau. A.2.3.

A sinew; गोधा तस्मा अयथं कर्षदेतत् Rv.1.28.1-11.

A chord; गोधा परि सनिष्वणत् Rv. 8.69.9.

An iguana (Mar. घोरपड).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधा/ गो--धा See. s.v.

गोधा f. ( g. भिदा-दि)a sinew(See. गो) RV. x , 28 , 10 and 11 AV. iv , 3 , 6

गोधा f. a chord RV. viii , 69 , 9

गोधा f. a leathern fence wound round the left arm to prevent injury from a bow-string MBh. iii , iv , vii R. i , ii

गोधा f. an Iguana (either the Gosamp or the alligator , commonly गोसाप) VS. xxiv , 35 Br2ih. Mn. etc.

गोधा f. = -वतीGal.

गोधा f. N. of the authoress of a सामन्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Godhā.--(a) The sense of ‘bowstring’ seems certain in one passage of the Rigveda,[१] and possible in another.[२] Roth[३] also adopts this meaning in the only passage of the Atharvaveda[४] where the word occurs.

(b) In one passage of the Rigveda[५] the sense of ‘musical instrument’ is recognized by Roth and by Hillebrandt[६] for this word.

(c) Elsewhere[७] an animal seems to be meant, perhaps the ‘crocodile,’ as Ludwig[८] and Weber[९] think; perhaps a large ‘lizard,’ as Roth and Zimmer[१०] assume. An animal is probably also meant in the Atharvaveda.[११]

  1. x. 28, 10. 11.
  2. viii. 69, 9. See Hopkins, Journal of the American Oriental Society, 17, 53.
  3. St. Petersburg Dictionary, s.v. 1.
  4. iv. 3, 6.
  5. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx1b_ve1_898 इत्यस्य आधारः अज्ञातः
  6. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx2b_ve1_898 इत्यस्य आधारः अज्ञातः
  7. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx1c_ve1_898 इत्यस्य आधारः अज्ञातः
  8. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx2c_ve1_898 इत्यस्य आधारः अज्ञातः
  9. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx3c_ve1_898 इत्यस्य आधारः अज्ञातः
  10. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; fx4c_ve1_898 इत्यस्य आधारः अज्ञातः
  11. iv. 3, 6, where Whitney offers no rendering at all.
"https://sa.wiktionary.org/w/index.php?title=गोधा&oldid=473367" इत्यस्माद् प्रतिप्राप्तम्