गोमत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमान्, [त्] त्रि, (बहवो गावोऽस्यास्मिन् वा सन्तीति । “तदस्यास्तीति ।” ५ । २ । ९४ । मतुप् ।) बहूनां गवां स्वामी । तत्पर्य्यायः । गवीश्वरः २ गोमी ३ । इत्यमरः । २ । ९ । ५८ ॥ (यथा, अथर्व्ववेदे । ६ । ६८ । ३ । “येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्मणो वपते दमस्य गोमानश्ववानयमस्तु प्रजावान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमत् पुं।

गवां_स्वामिः

समानार्थक:गवीश्वर,गोमत्,गोमिन्

2।9।58।2।1

गोमहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे। गोमान्गोमी गोकुलं तु गोधनं स्याद्गवां व्रजे॥

सेवक : गौः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमत्¦ त्रि॰ गौरस्त्यस्य मतुप्।

१ गोस्वामिनि

२ गोयुक्ते च
“इन्द्र! गोमन्निहायाहि” यजु॰

२६ ।


“गावः स्तुतिरूपावाचः किरणा वा विद्यन्तेऽस्य गोमान्” वेददी॰ स्त्रियांङीप्। सा च

३ नदीभेदे स्त्री
“गोमतीं धूतपापां चगण्डकीञ्च महानदीम्” भा॰ भी॰

९ अ॰। स्कन्धपु॰प्रभा॰ तन्माहात्म्यम्
“गोमत्युत्पत्तिकथनं तस्यां स्नाना-दिजं फलम्। चक्रतीर्थस्य माहात्म्यं गोमत्युदधि-सङ्गमः” वृहन्ना॰ तत्खण्डप्रतिपाद्ये। अत्र उदधिसङ्गम इत्युक्तेः
“गङ्गा सरस्वती पुण्या यमुना च
“महानदी। गोदावरी गोमती च नदी तापी च नर्म्मदा” इत्युपक्रमे
“नद्यः समुद्रसंयोगात् सर्वाः पुण्याः शुभा-वहाः” प्रभा॰ खण्डोक्तेश्च सा समुद्रगा अन्या तु गोमतीकाशीतोऽनतिदूरे उत्तरस्यां गङ्गासङ्गता यथाह” भा॰व॰

८४ अ॰ यथा
“गोमतीगङ्गयोश्चैव सङ्गमे लोक-विश्रुते। अग्निष्टोममबाप्नोति कुलञ्चैव समुद्धरेत्” गोमतीस्नान फलं तत्रैव
“रामतीर्थे नरः स्नात्वा गोमत्यांकुरुनन्दन!। अश्वमेधमवाप्नोति पुनाति च कुलं नरः। शतसाहसकं तीर्थं तत्रैव भरतर्षभ!। तत्रोपस्पर्शनंकृत्वा नियतो नियताशनः। गोसहस्रफलं पुण्यंप्राप्नोति भरतर्षभ!” गौः गोपदमाधिक्येन विद्यतेऽस्यांविद्यायां मतुप् ङीप्।

५ विद्याभेदे सा च गोदानशब्दे

२६

९९ पृ॰ दर्शिता अन्या तिलधेनुशब्दे वक्ष्यते
“गोमत्याविद्यया धेनुं तिलानामभिमन्त्र्य च” भा॰ आनु॰

७८ अ॰।
“पञ्चगव्येन गोघाती मासेनैकेन शुध्यति। गोमतीं चजपेद्विद्यां गवां गोष्ठे च संबसेत्” शाता॰। गोमत्यांभवः पलद्या॰ अण्। गौमत तत्रभवे त्रि॰ स्त्रियांङीप्। गोमत्या अदूरभवो देशः अण। गौमत तत्सन्नि-कृष्टदेशादौ त्रि॰ स्त्रियां ङीप्। बहुत्वे तस्य वरणा॰लुप्। गोमत्यः। उक्तगोमच्छब्दस्य सर्वनामस्थाने नुम्गोमान् गोमन्तावित्यादि रूपम्। गोमानिवाचरतिगोमत् + क्किप् गोमतीति ततः क्विप् गोमत्।

४ गोस्वामि-तुल्ये अत्र सर्व्वनामस्थाने धातुत्वात् न नुम्। गोमत्गोमतौ इत्येव। षष्ठीतत्पुरुषे गोमतीशब्दस्य
“वैदेहिबन्धोर्हृदयं विदद्रे” इत्यत्रेव
“ङ्यापोः संज्ञाच्छन्दसोः” [Page2714-a+ 38] पा॰ आर्षे प्रयेगे वा ह्रस्वः।
“सा लतेव महासालंफुल्लं गोमतितीरजम्” भा॰ वि॰

२७ अ॰। न तुह्रस्वान्तं शब्दान्तरम् केषाञ्चित् तथा कल्पनं तु प्रामा-दिकम्। गौस्तदस्थि अत्रास्ति मतुप् ङीप् (भागाड)ख्यातायां

५ भूमौ
“भोजनं यत्र तत्रापि शयनं हट्ट-मन्दिरे। मरणं गोम{??}तीरे” उद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमत्¦ mfn. (-मान्-मती-मत्) Possessing herds, rich in cattle. f. (-मती) The name of a river, the Goomti, in the province of Oude.
2. A prayer or formula of the Vedas to be repeated during expiation for killing a cow. E. गो a cow or water, and मतुप् aff. गौरस्ति अस्य |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमत् [gōmat], a.

Rich in cows.

Possessing or containing cattle.

Mixed with milk. -n. Possession of cattle, property consisting in herds.

ती N. of a river falling into the Indus; गोमतीमव तिष्ठति Rv.8.24.3.

A place abounding in herds; यो वायुना जयति गोमतीषु Rv.4.21.4.

N. of a Vedic मन्त्र to be repeated during expiation for killing cows; Hch.1.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमत्/ गो--मत् mfn. ( गो-)possessing or containing cattle or cows or herds , rich in cattle , consisting of cattle RV. AV. VS. MBh. ii , v Page366,1

गोमत्/ गो--मत् mfn. containing or mixed with milk RV.

गोमत्/ गो--मत् n. possession of cattle RV. Pa1rGr2. iii , 4 , 4

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a Mauneya Gandharva. Br. III. 7. 2.
"https://sa.wiktionary.org/w/index.php?title=गोमत्&oldid=499381" इत्यस्माद् प्रतिप्राप्तम्