गोमायु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमायुः, पुं, (गां विकृतां वाचं मिनोतीति । डुमि ञ + कृवापेत्युण् ।) शृगालः । इत्य- मरः । २ । ५ । ५ ॥ (यथा, महाभारते । २ । ९७ । २३ । “ततो राज्ञो धृतराष्ट्रस्य गेहे गोमायुरुच्चैर्व्याहरदग्निहोत्रे ॥” अस्य ध्वनौ शुभाशुभफलं शृगालशब्दे द्रष्ट- व्यम् ॥) गन्धर्व्वविशेषः । इति जटाधरः ॥ गोपित्ते सान्तक्लीवोऽयम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमायु पुं।

जम्भूकः

समानार्थक:शिवा,भूरिमाय,गोमायु,मृगधूर्तक,शृगाल,वञ्चक,क्रोष्टु,फेरु,फेरव,जम्बुक,शालावृक

2।5।5।1।3

स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः। शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमायु¦ पु॰ स्त्री गां विकृतां वाचं मिनोति मा--उण्।

१ शृगाले, अमरः
“अनु हुङ्गुरुते घनध्वनिं नहि गोमा-युरुतानि केशरी” किरा॰।
“पांशुवर्षे दिशां दाहे गोमा-युविरुते तथा” मनुः। तन्मूत्रादिभक्षणनिषेधमाहमनुः
“विडवराहनरोष्ट्राश्वगोमायोः कपिकाकयोः। प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत्। ” तद्रुतादिशुभाशुभफलं वृ॰ स॰ उक्तं यथा
“श्वभिः शृगालाः सदृशाः फलेन विशेष एषां शिशिरेमदाप्तिः। हूहरुतास्ते परतश्च टाटा पूर्णः खरोऽन्येकथिताः प्रदीप्ताः। लोमाशिकायाः खलु कक्कशब्दःपूर्णः स्वभावप्रभवः स तस्याः। येऽन्ये स्वरास्ते प्रकृते-रपेताः सर्वे च दीप्ता इति सम्प्रदिष्टाः। पूर्वोदीच्योःशिबा शस्ता शान्ता सर्वत्र पूजिता। धूमिताभिमुखीहन्ति स्वरदीप्ता दिगीश्वरान्। सर्वदिक्ष्वशुभा दीप्ताविशेषेणाह्न्यशोभना। पुरे सैन्येऽपसव्या च कष्टासूर्य्योन्मुखी शिवा। याहीत्यग्निभयं शास्ति टाटेतिमृतवेदिका। धिग्धिग् दुष्कृतमाचष्टे सज्वाला देश-नाशिनी। नैव दारुणतामेके नज्वालायाः प्रचक्षते। अर्काद्यनलवत्तस्या वक्त्रं लालास्वयावतः। अन्यप्रतिरुतायाम्या सोद्बन्धमृतशंसिनी। वारुण्यनुरुता म्सव शंसतेसलिले मृतिम्। अक्षोभः श्रवणं चेष्टं घनप्राप्तिः प्रिया-गमः। क्षोभप्रधानभेदश्च वाहनानां च सम्पदाम्। फलमा-सप्तमादेतदग्राह्यं परतो रुतम्। याम्यायां तद्विपर्यस्तंफलं षटपञ्चमादृते। या रोमाञ्चं मनुष्याणां शकृन्मूत्रंच वाजिनाम्। रावात् त्रासं च जनयेत्सा शिवा न शिव-प्रदा। मौनं गता प्रतिरुते नरद्विरदवाजिनाम्। याशिबा सा शिवं सैन्ये पुरे वा सम्प्रयच्छति। भेभे इतिशिबा भयङ्करी भो भो व्यापदमादिशेच्च सा। मृतबन्धनिवेदनी फिफी हुहु चात्महिता शिवा स्वरे। शान्तात्ववर्णात् परमं रुवन्ती टाटामुदीर्णमिति वाश्यमाना। टे टे च पूर्वं परतश्च थे थे तस्याः स्वतुष्टिप्रभवं[Page2715-b+ 38] रुतं तत्। उच्चेर्घोरं वर्णमुच्चार्य्य पूर्वं पश्चात् क्रोशत्क्रोष्टुकस्यानुरूपम्। या सा क्षेमं प्राह वित्तस्य चाप्तिंसंयोगं वा प्रोषितेन प्रियेण”। श्वरुतादिफलं श्वशब्देवक्ष्यंमाणं तत्तुल्यफलमेतस्येत्यतिदिष्टम्!

२ गन्धर्वभेदेजटाधरः।
“बहुभिः सह गन्धर्वैः प्रागायत चतुम्बुरुः” इत्युपक्रमे
“गोमायुः सूर्य्यवर्चाश्च सोमवर्चाश्चसप्तमः” हरिवं॰

२६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमायु¦ m. (-युः)
1. A jackall.
2. A kind of Gand'harba or celestial mu- sician.
3. The bile or bilious humor of the cow. E. गो sound, &c. मा to measure, and उण् Unadi affix, य inserted, or गो a cow, and मायु bile. गां विकृतां वाचं मिनाति |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमायु/ गो--मायु mfn. ( गो-)making sounds like cattle (a frog) RV. vii , 103 , 6 and 10

गोमायु/ गो--मायु m. a kind of frog Kaus3. 93 and 96

गोमायु/ गो--मायु m. a jackal Shad2vBr. v , 8 Mn. MBh. etc.

गोमायु/ गो--मायु m. N. of a jackal Pan5cat. i

गोमायु/ गो--मायु m. the bile of a cow W.

गोमायु/ गो--मायु m. N. of a गन्धर्वor celestial musician Hariv. 14157

"https://sa.wiktionary.org/w/index.php?title=गोमायु&oldid=499382" इत्यस्माद् प्रतिप्राप्तम्