गोमूत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमूत्रम्, क्ली, (गोर्मूत्रम् ।) गोप्रस्रावः । चोना इति भाषा ॥ तत्पर्य्यायः । गोजलम् २ गोऽम्भः ३ गोनिष्यन्दः ४ गोद्रवः ५ । (कृच्छ्रसान्तपने गोमूत्रभक्षणविधिर्यथा, मनुः । ११ । २१२ । “गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥”) अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । लघुत्वम् । कफवातत्वग्दोषनाशित्वम् । पित्त- कारित्वम् । दीपनत्वम् । मेध्यत्वम् । मतिप्रद- त्वञ्च । इति राजनिर्घण्टः ॥ तीक्ष्णत्वम् । क्षार- त्वम् । कषायत्वम् । शूलगुल्मोदरानाहकण्ड्वक्षि- मुखरोगकिलासवातामवस्तिरुक्कुष्ठकासश्वास- शोथकामलापाण्ड्वतिसारमूत्ररोधकृमिशीत- प्लीहवर्च्चोग्रहनाशित्वम् । पूरणात् कर्णशूल- नाशित्वम् । सर्व्वमूत्रेषु गुणाधिकत्वञ्च । इति भावप्रकाशः ॥ (“तीक्ष्णञ्चोष्णं क्षारमेवं कषायं) मेध्यं तृष्णाश्लेष्महाप्यस्थिभृच्च । तन्माङ्गल्यं रक्तपित्तप्रभेदि भ्रूशङ्खकण्ठाहनुरोगहृच्च ॥ कण्डूकिलासगदशूलमुखाक्षिरोगान् गुल्मातिसार-मरुदामय-मूत्ररोधान् । काशं सकुष्ठजठरक्रिमिरोगजालं गोमूत्रमेकमपि पीतमहो निहन्ति ॥” इति प्रथमस्थाने नवमेऽध्याये हारीतेनोक्तम् ॥ “गोमूत्रं कटुतीक्ष्णोष्णं सक्षारत्वान्नवातलम् । लघ्वग्निदीपनं मेध्यं पित्तलं कफवातजित् ॥ शूलगुल्मोदरानाह विरेकास्थापनादिषु । मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ॥” इति सुश्रुते सूत्रस्थाने पञ्चचत्वारिंशत्तमेऽध्याये ॥ गां सर्व्वतीर्थमयीं कल्पयिला एतस्या मूत्रं नर्म्मदानदीत्वेन परिकल्पयन्ति वृद्धाः । यदुक्तम् । “गोमयं यमुना साक्षात् गोमूत्रं नर्म्मदा शुभा । गङ्गा क्षीरन्तु यासां वै किं पवित्रमतः परम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमूत्र¦ न॰

६ त॰। (चोना) इति ख्याते गोर्मूत्रे गोशब्दे

२६

८१ पृ॰ तद्गुणाद्युक्तम्।
“शुद्धिर्विजानता कार्य्यागोमूत्रेणोदकेन वा। ”
“गोमूत्रमग्निवर्णं वा पिबेदुद-कमेव वा”
“गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियते-न्द्रियः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमूत्र¦ n. (-त्रं) Cow's urine. E. गो, and मूत्र urine. षष्ठीतत्पुरुषः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमूत्र/ गो--मूत्र n. cow's urine Ka1t2h. Ka1tyS3r. xxv Kaus3. Mn. etc.

गोमूत्र/ गो--मूत्र m. pl. N. of a family Pravar. v , 4

"https://sa.wiktionary.org/w/index.php?title=गोमूत्र&oldid=341146" इत्यस्माद् प्रतिप्राप्तम्