गोमेदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमेदकम्, क्ली, (गोमेद + स्वार्थे कन् ।) पीतमणिः । काकोलम् । पत्रकम् इति मेदिनी । के । १८६ ॥

गोमेदकः, पुं, (गोमेद + स्वार्थे कन् ।) स्वनाम- ख्यातमणिः । तत्पर्य्यायः । गोमेदः २ राहु- रत्नम् ३ तमोमणिः ४ स्वर्भानवः ५ पिङ्ग- स्फटिकः ६ । अस्य गुणाः । अम्लत्वम् । उष्ण- त्वम् । वातकोपविकारनाशित्वम् । दीपनत्वम् । पाचनत्वम् । धारणे पापनाशित्वञ्च । इति राजनिर्घण्टः ॥ तस्य परीक्षा यथा, -- “हिमालये वा सिन्धौ वा गोमेदमणिसम्भवः । स्वच्छकान्तिर्गुरुः स्निग्धो वर्णाढ्यो दीप्तिमानपि ॥ बलक्षः पिञ्जरो धन्यो गोमेद इति कीर्त्तितः । चतुर्द्धा जातिभेदस्तु गोमेदेऽपि प्रकाश्यते ॥ ब्राह्मणः शुक्लवर्णः स्यात् क्षत्त्रियो रक्त उच्यते । आपीतो वैश्यजातिस्तु शूद्रास्तु नील उच्यते ॥ छाया चतुर्विधा श्वेता रक्ता पीतासिता तथा ॥ गुरुप्रभाढ्यः सितवर्णरूपः स्नग्धो मृदुर्व्वातिमहापुराणः । स्वच्छस्तु गोमेदमणिर्धृतोऽयं करोति लक्ष्मीं धनधान्यवृद्धिम् ॥ लधुर्विरूपोऽतिखरोऽन्यमानः स्नेहोपलिप्तो मलिनः खरोऽपि । करोति गोमेदमणिर्विनाशं सम्पत्तिभोगाबलबीर्य्यराशेः ॥ ये दोषा हीरके ज्ञेयास्ते गोमेदमणावपि । परीक्षा वह्नितः कार्य्या शाने वा रत्नकोविदैः ॥ स्फटिकेनैव कुर्व्वन्ति गोमेदप्रतिरूपिणम् ॥ शुद्धस्य गोमेदमणेस्तु मूल्यं सुवर्णतो द्वैगुणमाहुरेके । अन्ये तथा विद्रुमतुल्यमूल्यं तथापरे चामरतुल्यमाहुः ॥ चतुर्व्विधानामेषान्तु धारणं परिसम्मतम् ॥” इति भोजराजकृतयुक्तिकल्पतरुः ॥ (कतक-गोमेदक-विषपन्थि-शैबालमूल-वस्त्राणि मुक्तामणिश्चेति ।” इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमेदक¦ mn. (-कः-कं)
1. A gem or precious stone brought from the Himalaya and Indus, described as of four sorts, white, pale yellow, red, and dark blue, perhaps varieties of a gate.
2. A kind of poison: see काकोल।
6. Smearing the body with un- guents. E. गो the eye, मिद् to anoint, &c. affix अच् and कन्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोमेदक/ गो--मेदक m. n. N. of a gem(= द) Hcat. i , 5 and 7

गोमेदक/ गो--मेदक m. a kind of poison (? , काकोल, for कक्क्?) L.

गोमेदक/ गो--मेदक m. = पत्त्रक(smearing the body with unguents W. ) L.

गोमेदक/ गो--मेदक m. the द्वीपदGol. iii , 25 MatsyaP. cxxii.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GOMEDAKA : See under Navaratna.


_______________________________
*5th word in right half of page 294 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गोमेदक&oldid=429127" इत्यस्माद् प्रतिप्राप्तम्