गौड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौडः, पुं, स्वनामख्यातदेशः । (यथा, प्रबोध- चन्द्रोदये । २ । ७ । “गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढा पुरी । भूरिश्रेष्ठिकनाम धाम परमं तत्रोत्तमो नः पिता ॥”) तद्देशस्थे पुं भूम्नि । इति जटाधरः ॥ तद्देश- सीमा यथा, शक्तिसङ्गमतन्त्रे सप्तमपटले । “वङ्गदेशं समारभ्य भुवनेशान्तगं शिवे ! । गौडदेशः समाख्यातः सर्व्वविद्याविशारदः ॥” (देशोऽयं बृहत्संहितायां कूर्म्मविभागे पूर्ब्बस्या- मुक्तः । यथा, तत्रैव । १४ । ५, ७ । “अथ पूर्ब्बस्याम् ।” इत्युक्त्वा “उदयगिरि भद्रगौडक- पौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः ॥” इत्युक्तवान् ॥) पञ्च गौडा यथा, स्कन्दपुराणे । “सारस्वताः कान्यकुब्जा गौडमैथिलिकौत्कलाः । पञ्च गौडा इति ख्याता विन्ध्यस्योत्तरवासिनः ॥” (गुडस्य विकारः । गुड + अण् । गुडजाते आसवे क्ली च । अस्य गुणा यथा, -- “सृष्टमूत्रशकृद्वातो गौडस्तर्पण-दीपनः ॥” इति सूत्रस्थाने पञ्चमेऽध्याये वाभटेनोक्तम् ॥ “श्यामादन्तीरसे गौडः पिप्पलीफलचित्रकैः । लिप्तेऽविष्टोऽनिल-कफ-प्लीहपाण्डूदरापहः ॥” इति च चरके कल्पस्थाने द्वादशेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौड¦ पु॰
“वङ्गदेशं समारभ्य भुवनेशान्तगं शिवे!। गौड-देशः समाख्यातः सर्वविद्याविशारदः” स्कन्दपु॰ उक्ते

१ देशे

२ तद्देशस्थे जने ब॰ व॰।
“सारस्वताःकान्यकुब्जा गौडमैथिलकोत्कलाः। पञ्च गौडा इतिख्याताविन्ध्यस्वोत्तरवासिनः” स्कन्दपु॰ इत्युक्तेषु विन्ध्यप-[Page2734-a+ 38] र्व्वतोत्तरभागवासिषु

३ ब्राह्मणभेदेषु च। स्वार्थे कतत्रार्थे।
“अथ पूर्ब्बस्याम्” इत्युपक्रमे
“उदयगिरिभद्रगौडकपौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः” वृ॰ स॰

१४ अ॰कूर्म्मविभागे पूर्व्वस्थदेशीक्तौ।
“अस्ति गौडविषयेकौशाम्बी नाम नगरी” हितो॰।
“गौडोराष्ट्रमनु-त्तमं निरूपमा तत्रापि राढा पुरी” प्रबोधच॰
“सर्वसिंहगुंरुर्वर्ज्यः कलिङ्गे गोडगुर्जरे” मुहु॰ चि॰। गुडस्य विकारः अण्।

४ गुडविकारे खण्डासवादौ त्रि॰
“गुडस्य तृप्तामद्यस्य पीत्वा गौडं सुरासवम्” भा॰व॰

४४ अ॰।
“नानास्वादरसानाञ्च खाण्डवानां तथैवच। भोजनानि सुपूर्णानि गौडानि च सहस्रशः” रामा॰ बा॰

५३ श्लो॰।
“गौडमम्लमनम्लं वा पानकंगुरु मूत्रलम्” सुश्रुतः।

५ मदिराभेदे स्त्री
“गौडीपैष्टी तथा माध्वी विज्ञेया त्रिविधा सुरा। यथै-वैका तथा सर्व्वा न पातव्या द्विजोत्तमैः” मनुः।
“गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत्। तप्तकृच्छ्रं पराकं च चान्द्रायणमनुक्रमात्” वृह-स्पतिः।

६ काव्यरीतिभेदे स्त्री
“पदसंघटना रीतिरङ्गसंस्थाविशेषवत्। उपकर्त्त्री रसादीनां सा पुनःस्यात्चतुर्विधा। वैदर्मी चाथ गौडी च पाञ्चाली ला-टिका तथा” विभज्य
“ओजःप्रकाशकैर्वर्णैर्बन्ध आडम्बरःपुनः। समासबहुला गौडी” सा॰ द॰ तल्लक्षणमुक्तंयथा
“चञ्चद्भुजभ्रमितचण्डगदाभिघात--संचूर्णितोरु-युगलस्य सुयोधनस्य। स्त्यानावनद्धवनशोणितशोण-पाणिरुत्तंसयिष्यति कचांस्तव देवि! भीमः” वेणीसं॰। एषा च गौडजनप्रियत्रात् गौडैः प्रयुज्यमानत्वाच्चगौडीसंज्ञां लभते। गौड + छ। गौडीया अत्रार्थे।
“बहु-तरसमासयुक्तामहाप्राणाक्षरा च गौडीया। रीति-रनुप्रासमहिमपरतन्त्राऽस्तोभवाक्या च” पुरुषोत्तमः।

७ रागिणीभेदे स्त्री संगीतदा॰। पुरशब्देपरे समासेअस्य
“अरिष्टगौडपूर्वम्” पा॰ अन्तोदात्तता। गौडपुरम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौड¦ m. (-डः) The district of Gaur, the central part of Bengal, extend- ing from Banga to Bhubaneshwar in Orrissa: the ruins of its capital, called by the same name, are still in existance. m. plu. (-डाः) The inhabitants of Gaur. f. (-डी)
1. Rum or spirit distilled from Gur or molasses.
2. One of the Raginis.
3. A style of poetry, the bold and spirited style, E. गुड to surround, or गुड raw sugar, and अण् affix, fem. affix ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौडः [gauḍḥ], 1 N. of a country; the स्कन्दपुराण thus describes its position: वङ्गदेशं समारभ्य भुवनेशान्तगः शिवे । गौडदेशः समाख्यातः सर्वविद्याविशारदः ॥

A particular subdivision of Brāhmaṇas.

see गोण्डः above. L. D. B. -डाः (pl.) The inhabitants of Gauḍa.

डी Spirit distilled from molasses; गौडी पैष्ठी च माध्वी च विज्ञेया त्रिविधा सुरा Ms. 11.95.

One of the Rāgiṇis.

(In rhet.) One of the Ritis or Vrittis or styles of poetic composition; S. D. mentions four Ritis, while K. P. only three, गौडी being another name for पुरुषा वृत्ति; ओजःप्रकाशकैस्तैः (वर्णैः) तु परुषा (i. e. गौडी) M. P.7; ओजःप्रकाशकैर्वर्णैर्बन्ध आडम्बरः पुनः समासबहुला गौडी S. D.627. Here is an illustration: उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुरः क्रीडत्कोकिलकाकंलीकलकलैरु- द्गीर्णकर्णज्वराः । नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षणप्राप्त- प्राणसमासमागमरसोल्लासैरमी वासराः ॥ अलंकारशेखर 6. -डम् Sweetmeats; भोजनानि सुपूर्णानि गौडानि च सहस्रशः Rām.1.53.4.-a. Relating to or prepared from molasses; विविधानि च गौडानि खाण्डवानि तथैव च Rām.7.92.12. -Comp. -पादः N. of a commentator. -मालवः N. of a Rāga.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौड mf( ई)n. (fr. गुड) , prepared from sugar or molasses MBh. viii , 2050 Sus3r. Hcat.

गौड mf( ई)n. relating or belonging to the गौडs Va1tsya1y. Ka1vya7d. i , 35 Sarvad. xv

गौड f. ( esp. ईwith रीति, the Gaudian style of poetry , viz. the bold and spirited style Ka1vya7d. i , 40 Va1m. Prata1par. etc. )

गौड m. ( scil. देश)or n. ( scil. राष्ट्र)" sugar country " , N. of a country (district of Gaur , central part of Bengal , extending from वङ्गto the borders of Orissa ; the ruins of its capital called by the same N. are still extensive) Ra1jat. Prab. ii , 7 Hit.

गौड m. pl. the inhabitants of that country Va1tsya1y. Ra1jat. S3u1dradh.

गौड m. sg. a prince of the गौडs Katha1s. cxxii , 3

गौड m. N. of a lexicographer

गौड n. sweetmeats R. i , 53 , 4 ; vii , 92 , 12

गौड n. rum or spirit distilled from molasses( RTL. p.193) Mn. xi , 95 MBh. viii , 2034 Gr2ihya1s. ii , 16

गौड n. (in music) N. of a रागिणी.

"https://sa.wiktionary.org/w/index.php?title=गौड&oldid=499392" इत्यस्माद् प्रतिप्राप्तम्