गौडी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौडी, स्त्री, (गुडस्य विकारः गुडविकारेण सम्पाद्विता इत्यर्थः । गुड + अण् । स्त्रियां ङीप् ।) गुडादिकृता सुरा । गुडेर मद इति भाषा ॥ (यथा, मनुः । ११ । ९४ । “गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ॥”) तत्पर्य्यायः । वाल्कली २ । इति त्रिकाण्डशेषः ॥ अस्या गुणाः । तीक्ष्णत्वम् । उष्णत्वम् । मधु- रत्वम् । वातनाशित्वम् । पित्तबलकान्तितृप्ति- कारित्वम् । दीपनत्वम् । पथ्यत्वञ्च । इति राज- निर्घण्टः ॥ (यथा च हारीते प्रथमे स्थाने ११ अध्याये । “गौडी कषाया मधुराम्लशीता सन्दीपनी शूलरुजापहन्त्री । हृद्या त्रिदोषं शमयत्यजीर्णं पाण्डामयार्शःश्वसनं निहन्ति ॥”) रागिणीविशेषः । सा तु मेघरागस्य पत्नी । इति सङ्गीतदामोदरः ॥ (गौडानां गौडदेशवासिनां प्रिया ।) काव्यरीतिविशेषः । यथा, -- “ओजःप्रसादमाधुर्य्यं गुणत्रितयभेदतः । गौडवैदर्भपाञ्चाला रीतयः परिकीर्त्तिताः ॥” इति काव्यचन्द्रिका ॥ (यथा च साहित्यदर्पणे । ९ । ४ । “ओजंःप्रकाशकैर्वर्णैर्बन्ध आडम्बरः पुनः । समासबहुला गौडी-- ॥” उदाहरणं यथा, तत्रैव धृतो वेणीसंहारश्लोकः । “चञ्चद्भुजभ्रमितचण्डगदाभिघात- सञ्चूर्णितोरुयुगलस्य सुयोधनस्य । पुरुषोत्तमस्त्वाह । बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया । रीतिरनुप्रासमहिमपरतन्त्रास्तोभवाक्या च ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौडी f. with रीतिSee. before

"https://sa.wiktionary.org/w/index.php?title=गौडी&oldid=343134" इत्यस्माद् प्रतिप्राप्तम्