गौरी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गौरी, स्त्री, (गौर + “षिद्गौरादिभ्यश्च ।” ४ । १ । ४१ । इति ङीष् ।) पार्व्वती । (यथा, रघुः । २ । २६ । “गौरीगुरोगह्वरमाविवेश ॥” पार्व्वती किल गौरीमूर्त्त्या पीठस्थाने कान्यकुब्ज विराजते । यथा, देवीभागवते । ७ । ३० । ५८ । “गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले ॥”) असञ्जातरजःकन्या । (सा तु अष्टवर्षवयस्क- कन्यका । यदुक्तं स्मृतौ । “अष्टवर्षा भवेद् गौरी नववर्षा तु रोहिणी ॥” तथा च महाभारते । १ । २२२ । ४७ । स्त्रीणसिहसं गौरीणां सुवेशानां मुवर्च्चसाम् ॥”) हरिद्रा । दारुहरिद्रा । गोरोचना । प्रियङ्गु- वृक्षः । वसुधा । नदीविशेषः । (यथा, महा- भारते । ६ । ९ । २५ । “वस्तुं सुवर्णां गौरीञ्च किम्पुनां सहिरण्व- तीम् ॥” गङ्गा । यथा, काशीखण्डे । २९ । ४९ । “गङ्गा गन्धवती गौरी गन्धर्व्वनगरप्रिया ॥”) वरुणभार्य्या । इति मेदिनी । रे । २८--२९ ॥ सूर्य्यवंशीयप्रसेनजिद्राजभार्य्या । यथा, -- “लेभे प्रसेनजिद्भार्य्यां गौरीं नाम पतिव्रताम् । अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाऽभवत् ॥” इति हरिवंशः ॥ बुद्धशक्तिविशेषः । इति हेमचन्द्रः ॥ मञ्जिष्ठा । श्वेतदूर्व्वा । मल्लिका । तुलसी । सुवर्णकदली । आकाशमांसी । इति राजनिर्घण्टः ॥ रागिणी- विशेषः । सा तु मालवरागपत्नी । तस्या रूपं यथा, सङ्गीतदामोदरे । “आराममध्यगता कुमारिका शारदेन्दुमुख- लक्ष्मीः । राडी दाडिमबीजं दधती कीरानने गौरी ॥” (केषाञ्चित् मते तु इयं कौशिकरागस्य पत्नी । यदुक्तं सङ्गीतदर्पणे रागाध्याये । ३३ । “तोडी स्वाम्बावती गौरी गुणक्री ककुभा तथा । रागिण्यो रागराजस्य कौशिकस्य वराङ्गनाः ॥” केषाञ्चित् मते इयं श्रीरागस्य पत्नी । यदुक्तं तत्रैव रागाध्याये । १४ । “मालश्री त्रिवणी गौरी केदारी मधुमाधवी । ततः पाहाडिका ज्ञेया श्रीरागस्य वराङ्गनाः ॥” अस्या रागवेला तृतीयप्रहरात् परं अर्द्धरात्रा- बधिः ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गौरी स्त्री।
पार्वती
समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी
1।1।36।4।3
विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥
पति : शिवः
जनक : हिमवान्
पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता
गौरी स्त्री।
अदृष्टरजस्का
समानार्थक:गौरी,नग्निका,अनागतार्तवा
2।6।8।1।3
कन्या कुमारी गौरी तु नग्निकानागतार्तवा। स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गौरी¦ स्त्री गौर + गौरा॰ ङीष्।
१ गौरवर्णायां स्त्रियाम्
“कपोलभित्तीरिव लोध्रगौरीः” माघः।
२ हिमा-{??}यसुतायां कालीनाम्न्यां मेनकाकन्यायां तस्याः प्राक्कृष्णवर्णत्वेन जातत्वेऽपि पश्चात् पीताङ्गत्वात् तथात्वंकालिकापुराणशब्दे
२०
१५ पृ॰
४५ अ॰ तन्मूलं दृश्यम्। पुरा-णान्तरे
“योगाग्निदग्धदेहा सा पुनर्जाता हिमालये। शङ्खेन्दु कुन्दधवला ततो गौरीति सा स्मृताः” इत्युक्तमतच्च कल्पान्तरविषयम्।
“अष्टवर्षा भवेद्गौरी नववर्षा तु[Page2739-b+ 38] रोहिणी” स्मृत्युक्तायां
३ अष्टवर्षायां स्त्रियाम्।
४ हरिद्रायां
५ दारुहरिद्रायाम्
६ गोरोचनायां
७ वरुण-पत्न्याञ्च।
८ प्रियङ्गुवृक्षे
९ पृथिव्यां
१० नदीभेदे च मेदि॰
“लेभे प्रसेनजिद्भार्य्यां गौरीं नाम पतिव्रताम्। अभिशस्ता तु सा भर्त्त्रा नदी वै बाहुदाऽभवत्” हरिवं॰
१२ अ॰
११ उक्तयां सूर्य्यवंश्यप्रसेनजिद्भार्य्यायाम् तस्याएव बाहुदानदीरूपत्वोक्तेः नदीविशेषःबाहुदानदीपर इति बोध्यम्।
१३ बुद्धशक्तिभेदे हेम॰।
१३ मञ्जिष्ठायां
१४ श्वेतदूर्वायां
१५ मल्लिकायां
१६ तुलस्यां
१७ सुवर्णकदल्याम्
१८ आकाशमांस्याञ्च राजनि॰। सर्व्वा-साञ्चासां शुभ्रपीतरक्तविशुद्धपत्रपुष्पादियुक्तत्वात्तथात्वम्
१९ रागिणीभेदे संगीतदामो॰।
२० वाचि निघण्टुः।
“गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतु-ष्पदी। अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमेव्योमन्” ऋ॰
१ ।
१६
४ ।
४० ।
“गौरी र्गरणशीला शब्दब्रह्मा-त्मिका च वाक् मिमाय। मिमतिः प्रतिष्ठार्थे धातुः। प्रतिष्ठितानि घट्वादिद्रव्याणि तक्षती तत्तद्वाचकत्वेननिष्पादयन्ती। एकपदी अव्याकृतत्वेनैकप्रतिष्ठानैक-रूपावात्मना। द्विपदी सुपतिङ् भेदेन पदद्वयवती। चतु-ष्पदी नामाख्यातोपसर्गनिपातभेदेन। अष्टापदी आम-न्त्रितसहितसुब्विभक्तिभिरष्टभेदेनाष्टापदी। नवपदीनवसु पदेषु भवन्ती बभूवुषी पश्चाद्बहुविधाभिव्यक्तिमुपे-युषी परमे व्योमन् उत्कृष्टे हृदयाकाशे मूलाधारेसहस्राक्षरानेकाकारेण व्याप्ताऽनेकध्वनिप्रकारा भवतीत्य-र्थः” भा॰। निरु॰
११ ।
४ । व्याख्यान्तरं दृश्यम। गौरीरितिसुलोपाभावःच्छान्दसः।
“सोमो गौरी अधिश्रितः” ऋ॰
९ ।
१ ।
१२ ।
३ । गौरी गौर्य्याम् मध्यमायां वाचि” भा॰
“सुपांसुलुक्” पा॰ सप्तम्या लुक्।
“ईदूतौ च सप्तम्यर्थे” पा॰ तस्य प्रगृह्यसंज्ञत्वात् न यणादेशः, भा॰
२१ दीप्ति-मत्यां स्त्रियां निरु॰।
“गौरी रोचते ज्वलतिकर्म्मणः। अथ पीतोवा गौरोवर्णः एतस्मादव प्रशस्तो भवति तस्याएषा भवति”
“गौरीमिमाय सलिलानि” श्रुतिमधिकृत्य उक्तनिरुक्तिः। पार्वतीरूपा गौरी चमाघशुक्लचतुर्थ्यां पूज्या यथाह ति॰ भविष्योत्त॰ पु॰माघशुक्लमधिकृत्य
“चतुर्थी वरदा नाम तस्यां गौरी सुपू-जिता। सौभाग्यमतुलं कुर्यात्”
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गौरी [gaurī], 1 N. of Pārvatī; as in गौरीनाथ.
A young girl eight years old; अष्टवर्षा भवेद्गौरी.
A young girl prior to menstruation, virgin, maid; स्त्रीणां सहस्रं गौरीणाम् Mb.1.221.49.
A woman with a white or yellowish complexion.
The earth; गौर्यां गच्छति सुश्रोणि लोकेष्वेषा गतिः सदा Mb.13.146.1.
Turmeric.
A yellow pigment or dye; (called गोरोचना).
The wife of Varuṇa; वरुणस्य तथा गौरी Mb.13.146.5.
The Mallikā creeper.
The Tulasī plant
The Manjishṭhā plant.
Speech.
N. of a Nāgakanyā. cf. ...... गौरी तु नागकन्योमयोर्मता Nm.
N. of a river; L. D. B.
Night; L. D. B.
N. of a Rāgiṇi. -Comp. -कान्तः, -नाथः an epithet of Śiva. -गुरुः the Himālaya mountain; गौरीगुरोर्गह्वरमाविवेश R.2.26; Ki.5.21.-चतुर्थी, -पूजा the 4th day of the bright half of माघ; a festival on this day. -जः N. of Kārtikeya. (-जम्) talc. -नाथः N. of Śiva; गौरीनाथं पवनतनयं चम्पकं चास्य भावम् Udb. Bh.3.123. -पट्टः the horizontal plate of the Linga of Śiva. -पुत्रः N. of Kārtikeya. -ललितम् a yellow orpiment.
सुतः N. of Kārtikeya.
the son of a girl married when 8 years old.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
गौरी f. the female of the Bos Gaurus RV. (" वाच्or voice of the middle region of the air " , i , 164 , 41 according to Naigh. i , 11 and Nir. xi , 40 )
गौरी f. of रSee.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--is पार्वती; फलकम्:F1: भा. X. ५३. २५; Br. II. २५. १८; वा. ४३. ३८; १०६. ५८; Vi. V. ३२. १२.फलकम्:/F a शक्ति; फलकम्:F2: Br. IV. ४४. ५८.फलकम्:/F the goddess enshrined at कञ्य-kubja; Icon of, in a palace. फलकम्:F3: M. १३. २९; ६०. १७; १५५. ३०; १९३. २४; २६९. ५४-5; २८५. 7.फलकम्:/F [page१-560+ २६]
(II)--a daughter of Antinara; the wife of Yuva- नाश्व; cursed by her husband, became the river बाहुदा; mother of Gaurika मान्धातृ. Br. III. ६३. ६७; M. ४९. 8; वा. ८८. ६५-6.
(III)--the wife of विराज; फलकम्:F1: वा. २८. १२.फलकम्:/F son, सुधाम. फलकम्:F2: Br. II. ११. १४.फलकम्:/F
(V)--a daughter of रण्ति and mother of मान्- धात. वा. ९९. १३०.
(VI)--a R. in क्रौञ्चद्वीप. Br. II. १९. ७५; M. १२२. ८८; वा. ४९. ६९; Vi. II. 4. ५५.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Gaurī : f.: Name of a river.
One of the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 24, 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).
_______________________________
*2nd word in left half of page p351_mci (+offset) in original book.
Mahabharata Cultural Index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Gaurī : f.: Name of a river.
One of the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 24, 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).
_______________________________
*2nd word in left half of page p351_mci (+offset) in original book.