ग्रहण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहणम्, क्ली, (गृह्यते इति । ग्रह् + भावे ल्युट् ।) स्वीकारः । (यथा, हे रामायणे । १ । ६६ । १९ । “नशेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा ॥” आदरः । करः । उपलब्धिः । (यथा, रधुः । ३ । २८ । “स वृत्तचूलश्चलकाकपक्षकैः अमात्यपुत्त्रैः सवयोभिरन्वितः । लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥”) बन्दी । उपरागः । इति मेदिनी । णे ४५ ॥ (गृह्यन्ते विषयाः येन । ग्रह + करणे ल्युट् ।) इन्द्रियम् । इति राजनिर्घण्टः ॥ शब्दः । इति जटाधरः ॥ अथ सूर्य्यचन्द्रग्रहणकारणं यथा, -- “भत्रिपादान्तरे राहोः केतोर्व्वा संस्थितो रविः । चतुष्पादान्तरे चन्द्रस्तदा सम्भाव्यते ग्रहः ॥ यम्मिन्नृक्षे रविस्तस्माच्चतुर्द्दशगतः शशी । पूर्णिमापतिपत्मन्धौ राहुणा ग्रस्यते शशी ॥ कृष्णपक्षे तृतीयायां मामर्क्षं यदि जायते । ततस्त्रयोदशे सूर्य्यो राहुणा ग्रस्यते रविः ॥” * ॥ ग्रहणकालीनरविचन्द्रयोर्मेघेनाच्छादनाच्छादन- कारणं यथा, -- “रविभौमनवांशे तु निरभ्रं ग्रासमादिशेत् । तदा लङ्कोदयैर्लग्नं मध्यसंज्ञं यथोदितम् । तत्क्रान्त्यक्षांशसंयोगो दिक्साम्येऽन्तरमन्यथा ॥ शेषं नतांशास्तन्मौर्व्वी मध्यज्या साभिधीयते । मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितं फलम् ॥ मध्यज्यावर्गविश्लिष्टं दृक्क्षेपः शेषतः पदम् । तत्त्रिज्यावर्गविश्लेषान्मूलं शङ्कः स दृग्गतिः ॥ नतांशबाहुकोटिज्ये स्फुटे दृक्क्षेपदृग्गती । एकज्यावर्गतश्छेदो लब्धं दृग्गतिजीवया ॥ मध्यलग्नार्कविश्लेषज्या छेदेन विभाजिता । रवींन्द्वोर्लम्बनं ज्ञेयं प्राक् पश्चाद्घटिकादिकम् ॥ मध्यलग्नाधिके भानौ तिथ्यन्तात् प्रविशोधयेत् । धनमूनेऽसकृत् कर्म्म यावत् सर्व्वं स्थिरीभवेत् ॥ दृक्क्षेपः शीततिग्मांशोर्मध्यभुक्त्यन्तराहतः । तिथिघ्नत्रिज्यया भक्तो लब्धं सावनतिभवेत् ॥ दृक्क्षेपात् सप्ततिहृताद्भवेद्वावनतिः फलम् । अथवा त्रिज्यया भक्तात् सप्तसप्तकसङ्गुणात् ॥ मध्यज्या दिग्वशात् सा च विज्ञेया दक्षिणोत्तरा । सेन्दुविक्षेपदिक्साम्ये युक्ता विश्लेषितान्यथा ॥ तथा स्थितिविमर्द्दार्द्धग्रासाद्यं तु यथोदितम् । प्रमाणं वलनाभीष्टग्रासादि हिमरश्मिवत् ॥ स्थित्यर्द्धोनाधिकात् प्राग्वत् तिथ्यन्ताल्लम्बनं पुनः । ग्नासमोक्षोद्भबं साध्यं तन्मध्यहरिजान्तरम् ॥ प्राक्कपालेऽधिकन्मध्याद्भवेत् प्राग् ग्रहणं यदि । मौक्षिकं लम्बनं हीनं पश्चार्द्धे तु विपर्य्ययः ॥ तदा मोक्षस्थितिदले देयं प्रग्रहणे तथा । हरिजान्तरकं शोध्यं यत्रैतत् स्याद्विपर्य्ययः ॥ एतदुक्तं कपालैक्ये तद्भेदे लम्बनैकता । स्वे स्वे स्थितिदले योज्या विमर्दार्द्धेऽपि चोक्तवत् ॥” इति सूर्य्यसिद्धान्ते सूर्य्यग्रहणाधिकारः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहण¦ न॰ ग्रह--भावे ल्युष्ट्।

१ स्वीकारे

२ ज्ञाने।

३ आदरे

४ उपरागे चन्द्रसूर्य्ययोः राहुणा ग्रसने करणे ल्युट्।

५ करे मेदि॰।

६ इन्द्रिये राजनि॰।

७ शब्दे जटा॰। तत्रकरस्य ग्रहणसाधनत्वात् इन्द्रियाण्यां शब्दस्य चज्ञानसाधनत्वात् तथात्वम्। उपरागस्य यथा राहुकृतत्वंतथा उपरागशब्दे

१३

११ पृ॰ उक्तम्। (
“चक्षुषा दर्शनं राहोर्यत्तद्ग्रहणमुच्यते” संवत्सरप्रदीपः। तत्रातुरस्यापि स्नानमाह
“आदित्यकिरणैः पूतंपुनः पूतञ्च वह्निना। जलं, व्याध्यातुरः स्नायात्ग्रहणेऽयुष्णवारिणा” व्यासः। तत्र सर्वजलस्य गाङ्ग-तुल्यतामाह व्यासः
“सर्वं भूमिसमं दानं सर्वे व्याससमाद्विजाः। सर्वं गङ्गासमं तोयं ग्रहणे नात्र संशयः”। तत्र श्राद्धस्यावश्यकतामाह शाता॰।
“सर्वस्वेनापिकर्त्तव्यं श्राद्धं वै राहुदर्शने। अकुर्वाणस्तु तत् श्राद्धंपङ्के गौरिव सीदति”। तत्रामान्नेन श्राद्धमाह प्रचेताः
“आपद्यनग्नौ तीर्थे च चन्द्रसूर्य्यग्रहे तथा। आम-[Page2751-b+ 38] श्राद्धं द्विजैः कार्य्यं शूद्रेण तु सदैव हि”। आम-श्राद्धेऽपि विशेषो योगिनीतन्त्रे
“निरग्नेरामश्राद्धेतु अन्नं न क्षालयेत् क्वचित्। वृद्धौ तु क्षालयेदन्नंसंक्रमे ग्रहणेषु च”। ग्रहणश्राद्धादिकं मलमासेऽपिकार्यं यथाह कालमा॰ स्मृतिः
“चन्द्रसूर्य्यग्रहे स्नानंश्राद्धदानजपादिकम्। कार्य्याणि मलमासेऽपि नित्यंनैमित्तिकं तथा”। तत्र दीक्षायां नैव कालादिशुद्ध्यपेक्षा
“सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः। मन्त्रदीक्षां प्रकु-र्वाणो मासर्क्षादीन् न शोधयेत्” सारसंग्रहः। तत्र वार-भेदे गुणाधिक्यम्
“चन्द्रग्रहश्चन्द्रवारे रवौ सूर्य्यग्रह-स्तथा। चूडामणिरयं योगस्तत्रानन्तफलं स्मृतम्। अन्य-स्माद्ग्रहणात् कोटिगुणमत्र फलं लभेत्” गरु॰ पु॰। अत्रपुरश्चरणप्रकारः
“अथ वान्यप्रकारेण पुरश्चरणमिष्यते। ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः। नद्यांसमुद्रगामिण्यां नाभिमात्रोदके स्थितः। यद्वा पुण्योदकेस्नात्वा शुचिः पूर्वसुपोषितः। ग्रहणादि विमोक्षान्तंजपेन्मन्त्रं समाहितः। अनन्तरं दशाशन क्रमाद्धोमादिकंचरेत्। तदन्ते महतीं पूजां कुर्य्याद्ब्राह्मणतर्पणम्। ततोमन्त्रप्रसिद्ध्यर्थं गुरुं संपूज्य तोषयेत्। एवञ्च मन्त्र-सिद्धिः स्याद्देवता च प्रसीदति”। ति॰ त॰ पुरश्चरणच॰। तत्र स्नानस्यावश्यकतामाह वृहद्वसिष्ठः
“संक्रमे ग्रहणेचैव न स्नायाद्यस्तु मानवः। सप्तजन्मसु कुष्ठी स्याद्दुःख-भागी च सर्वदा” अत्राशौचेऽपि साङ्गस्नानमात्रं कार्य्यंयथाह स्मृतिः।
“सूतके मृतके चैव न दोषो राहु-दर्शने। स्नानमात्रन्तु कर्त्तव्यं दानश्राद्धविवर्जितम्”। अत्र क्षताशौचं नास्ति यथोक्तम्
“चन्द्रसूर्य्यग्रहे चैवमृतानां पिण्डकर्मणि। महातीर्थे तु संप्राप्ते क्षतदोषोनविद्यते” भविष्यपु॰। तत्र ज्ञाने
“भार्य्यात्वसंपादकं ग्रहणं विवाहः” उद्वा॰ त॰रघु॰।
“स्वतएव सतां परार्थता ग्रहणानां हि यथायथार्थता” नैष॰। आदाने
“पाणिग्रहणिकाः मन्त्रानियतं दारलक्षणम्” उ॰ त॰ स्मृतिः।
“आचारधूम-ग्रहणात् वभूव” रघुः
“स बाहुशतमुद्यम्य सर्व्वास्त्रग्रहणं रणे” हरिवं॰

४९ अ॰ अर्थवद्ग्रहणेनानर्थकस्य”
“अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन तदन्तावधिप्रयोजयन्ति” व्या॰ परिमाषा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहण¦ mfn. (-णः-णा-णं) A prisoner, captive, confined. n. (-णं)
1. Taking, seizure.
2. Receiving, acceptance.
3. Assent, agreement.
4. Respect.
5. The hand.
6. An eclipse.
7. Comprehension, the taking or receiving of instruction, or the acquirement of any science.
8. Sound.
9. An organ of sense.
10. In grammar, Exception. E. ग्रह् to take, affix भावे ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहणम् [grahaṇam], [ग्रह् भावे ल्युट्]

Seizing, catching, seizure; श्वा मृगग्रहणे$शुचिः Ms.5.13.

Receiving, accepting, taking; आचारधूमग्रहणात् R.7.27.

Mentioning, uttering; नामग्रहणम्.

Wearing putting on; सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः R.17.21.

An eclipse; ग्रहणं चन्द्रसूर्ययोः Y.1.218.

Understanding, comprehension, knowledge; यस्य नु ग्रहणं किंचित्कर्मणो$न्यन्न दृश्यते Rām.2.22.21; न परेषां ग्रहणस्य गोचराम् N.2.95

Learning, acquiring, grasping mentally, mastering; विपेर्यथावद्ग्रहणेन वाङ्- मयं नदीमुखेनेव समुद्रमाविशत् R.3.28.

Taking up of sound, echo; अद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः Me.46.

The hand.

An organ of sense.

A prisoner, captive.

Taking by the hand, marrying; तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु Mb.1.13.26.

Taking captive, imprisonment; न दोषो ग्रहणे तस्याः Ks.91.37.

Gaining, obtaining, purchasing.

Choosing.

Taking or drawing up.

Attraction.

Containing, enclosing.

Undertaking, undergoing.

Service; अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् Bhāg.3.1.44.

Mentioning with praise, respecting; प्रमाणं सर्वभूतेषु गत्वा च ग्रहणं महत् Mb.12.15.1.

Acceptation, meaning.

Assent, agreement.

Inviting, calling, addressing; name; अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते Mb.12.266.6. -Comp. -अन्तः close of study.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहण mfn. ifc. seizing , holding Hariv. 2734

ग्रहण mfn. resounding in (?) S3ak. ii , 0/1 , 6

ग्रहण n. the hand L.

ग्रहण n. an organ of sense Yogas. i , 41

ग्रहण n. a prisoner MBh. xiii , 2051

ग्रहण n. a word mentioned or employed( e.g. वचन-, " the word वचन") Pat. and Ka1s3.

ग्रहण n. seizing , holding , taking S3Br. xiv Mn. ii , 317 MBh. etc.

ग्रहण n. taking by the hand , marrying , i , 1044

ग्रहण n. catching , seizure , taking captive Mn. v , 130 MBh. etc.

ग्रहण n. seizure (as by a demon causing diseases) , demoniacal possession Hcat.

ग्रहण n. seizure of the sun or moon , eclipse A1p. i , 11 Ya1jn5. i , 218 VarBr2S. etc.

ग्रहण n. gaining , obtaining , receiving , acceptance R. i , 3 , 18 Pan5cat. Katha1s. xci , 37

ग्रहण n. choosing Sa1m2khyak. Prab. Sa1h. vi , 201

ग्रहण n. purchasing Pan5cat.

ग्रहण n. taking or drawing up (any fluid) S3Br. iv Ka1tyS3r.

ग्रहण n. the taking up of sound , echo W.

ग्रहण n. attraction Megh. Ragh. vii , 24 Pan5cat. v , 13 , 5/6

ग्रहण n. putting on (clothes) MBh. ii , 840 Ragh. xvii , 21

ग्रहण n. assuming (a shape) Ya1jn5. iii , 69 MBh. xiv Devi1m.

ग्रहण n. undertaking , devoting one's self to (in comp. ) R. v , 76 , 22 Pan5cat.

ग्रहण n. service BhP. iii , 1 , 44

ग्रहण n. including Pa1n2. Ka1s3.

ग्रहण n. mentioning , employing (a word or expression) Ka1tyS3r. La1t2y. VPra1t. Pa1n2. Va1rtt. Pat. and Ka1s3. Sa1h. vi , 205

ग्रहण n. mentioning with praise , acknowledgment Sus3r.

ग्रहण n. assent , agreement W.

ग्रहण n. perceiving , understanding , comprehension , receiving instruction , acquirement of any science Mn. ii , 173 MBh. iii , xiv Ragh. etc.

ग्रहण n. acceptation , meaning Pa1n2. 1-1 , 68 Va1rtt. 5 Pat. Ka1s3. and Siddh. on Pa1n2.

ग्रहण n. = णी-गदAsht2a7n3g. iii , 8 Hcat. i , 7 (See. कर-, केश-, गर्भ-, चक्षुर्-, नाम-, पाणि-, पुनर्-.)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहण वि.
प्याले को ग्रहण करने के लिए (मन्त्र), मा.श्रौ.सू. 2.4.2.2.

"https://sa.wiktionary.org/w/index.php?title=ग्रहण&oldid=499402" इत्यस्माद् प्रतिप्राप्तम्