ग्राम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राम्यः, त्रि, (ग्रामे भवः । ग्राम + “ग्रामात् यखञौ ।” ४ । २ । ९४ । इति यः ।) ग्रामोत्- पन्नः । तत्पर्य्यायः । ग्रामेयकः २ ग्रामीणः ३ । इति हेमचन्द्रः । ३ । १६५ ॥ (यथा, मनुः । ११ । १९९ । “श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ॥” तथा, माघे । १२ । ३८ । “ग्राम्यानपश्यत् कपिशं पिपासतः ॥” मूढः । प्राकृतः । यथा, तत्रैव । १४ । ६४ । “ग्राम्यभावमपहातुमिच्छबा योगमार्गपतितेन चेतसा ॥”) भण्डादिवचनम् । “हालिकशाकटिकप्रधानत्वात् ग्रामे भवं ग्राम्यम् ।” इति भरतः ॥ तत्पर्य्यायः । अश्लीलम् २ । इत्यमरः । १ । ६ । १९ ॥ (काव्यस्य दोषविशेषः । स च शंब्दगतः अर्थगतश्च । तत्र शब्दगतो यथा, साहित्यदर्पणे । ७ । ३ । “दुःश्रवत्रिविधाश्लीलानुचितार्थाप्रयुक्तताः । ग्राम्योऽप्रतीतसन्दिग्धनेयार्थनिहतार्थताः ॥” अस्य उदाहरणं यथा तत्रैव । “कटिस्ते हरते मनः । अत्र कटिशब्दो ग्राम्यः ॥” अर्थगतो यथा, तत्रव । ७ । ५ । “अपुष्टदुष्क्रमग्राम्य व्याहताश्लीलकष्टताः ॥” उदाहरणं यथा तत्रैव । “स्वपिहि त्वं समीपे मे स्वपिम्येवाधुना प्रिय ! ॥ अत्रार्थो ग्राम्यः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राम्य नपुं।

अश्लीलवचनम्

समानार्थक:ग्राम्य,अश्लील

1।6।19।1।3

निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये। सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहतम्.।

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राम्य¦ त्रि॰ ग्राम--भवार्थे--वा यत्।

१ ग्रामभवे कृषकादौ
“अल्पव्ययेन सुन्दरि! ग्राम्यजनो मिष्टमश्नाति” वृ॰ र॰।

२ मूढे

३ प्राकृते।

४ मैथुने च
“व्यवायो ग्राम्यधर्मश्च” अ-मरः। प्राकृते
“ग्राम्यानपश्यत् कपिशं पिपासतः” माघः। मूढे
“ग्राम्यभावमपहातुमिच्छवः” माघः।

५ स्वीकारे

६ रतवन्धे

७ भण्डादिवचने अश्लीले हालिकादिप्रसिद्ध-वाक्ये च न॰ शब्दार्थचि॰।

८ काव्यदोषभेदे पु॰। सच शब्दगतोऽर्थगतश्च तत्र शब्दगतः सा॰ द॰। [Page2773-b+ 38] शब्ददोषविभागे
“दुःश्रव्यत्रिविधाश्लीलानुचितार्थाप्रयु-क्तताः। ग्राम्योऽप्रतीतसन्दिग्धनेयार्थनिहतार्थताः” इत्यादिना शब्ददोषान् विभज्य
“कटिस्ते हरतेमनः” इत्युदाहृतम्
“अपुष्टदुष्क्रमग्राम्यव्याहताश्ली-लकष्टताः” इत्यादिनाऽर्थदोषान् विभज्य च
“स्वपिहित्वं समीपे मे स्वपिम्येवाधुना प्रिय!” इत्य-र्थस्य ग्राम्यत्वमुदाहृतम्।
“ग्राम्या मिथुनतुलास्त्रीचापालिघटा निशासु मेषवृषौ च” ज्यो॰ उक्तेषु

९ सदा-मिथुनादिराशिषु

१० रात्रौ मेषवृषराश्योश्च पु॰।

११ पशुभेदे पुंस्त्री॰। यथाह पैठीनसिः
“ग्राम्यारण्याश्च-तुर्द्दश गौरविरजोऽश्वोऽश्वतरो गर्द्दभो मनुष्यश्चेति सप्तग्राम्याः पशवः, महिषवानरऋक्षसरीसृपरुरुपृषतमृगाश्चेतिसप्तारण्याः”।
“अश्वाश्वतरगोस्वरोष्ट्रवस्तोरम्रमेदःपुच्छकप्रभृतयो ग्राम्याः इति सुश्रुतोक्ते

१२ पशुभेदे पुंस्त्री॰
“ग्राम्या वातहराः सर्वे वृंहणाः कफपित्तलाः। मधुरारसपाकाभ्यां दीपना बलवर्द्दनाः” सुश्रु॰।

१३ ओष-धिभेदे स्त्री।
“तिलमाषव्रीहियवाः प्रियङ्गवो गोधू-माश्चेति सप्त ग्राम्या ओषधयः” तैत्ति॰। ओषधि शब्दे

१५

६४ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राम्य¦ mfn. (-म्यः-म्या-म्यं)
1. Village-born, produced in or relating to a village.
2. Vulgar, rude, rustic.
3. Relating to a musical scale. m. (-म्यः) A hog, a tame or a village hog. n. (-म्यं)
1. Rustic or homely speech.
2. The Prakrit, and the other dialects of India, except the Sanskrit. E. ग्राम and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राम्य [grāmya], a. [ग्राम-यत्]

Relating to or used in a village; संत्यज्य ग्राम्यमाहारम् Ms.6.3;7.12.

Living in a village, rural, rustic; अल्पव्ययेन सुन्दरि ग्राम्यजनो मिष्टमश्नाति Chand. M.1.

Domesticated, tame (as an animal).

Cultivated (opp. वन्य 'growing wild').

Low, vulgar, used only by low people (as a word); चुम्बनं देहि मे भार्ये कामचाण्डालतृप्तये R. G., or कटिस्ते हरते मनः S. D.574, are instances of ग्राम्य expressions; तस्मात्संप्रति- पत्तिरेव हि वरं न ग्राम्यमत्रोत्तरम् Mu.5.18; Bhāg.5.2.17.

Indecent, obscene.

Relating to sexual pleasures.

Relating to a musical scale.

म्यः A villager; Y.2.166.

A tame hog.

The first two signs of the zodiac, Aries and Taurus. -म्या The Indigo plant.

म्यम् A rustic speech.

Food prepared in a village.

Sexual intercourse.

Acceptance.

The Prakṛit and other dialects. -Comp. -अश्वः an ass.-कर्मन् n.

the occupation of a villager

sexual pleasure; ग्राम्यकर्मणैव विस्मृतकालावधिः Bhāg.5.14.31.-कुङ्कुमम् safflower.

धर्मः the duty of a villager.

sexual intercourse, copulation.

the right of a villager (as opp. to that of a 'recluse'). -धान्यम् crops growing in a village; दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवा- स्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च ... । Bṛi. Up.6.3.13. -पशुः a domestic animal; Bhāg. 6.15.16. -बुद्धि a. boorish, clownish, ignorant. -मृगः a dog; ग्राम्यमृग इव हविस्तदयं (न भजते) Śi.15.15. -वल्लभा a harlot, prostitute. -वादिन् m. a village bailiff; Ts.2.3.1.3. -सुखम् sexual intercourse, copulation; cf. अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः Bhāg.9.18.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राम्य mfn. ( Pa1n2. 4-2 , 94 ) used or produced in a village TS. v AitBr. vii , 7 , 1 Kaus3.

ग्राम्य mfn. relating to villages Mn. vii , 120

ग्राम्य mfn. prepared in a village (as food) S3Br. ix , xii Mn. vi , 3

ग्राम्य mfn. living (in villages i.e. )among men , domesticated , tame (an animal) , cultivated (a plant ; opposed to वन्यor अरण्य, " wild ") RV. x , 90 , 8 AV. VS. etc.

ग्राम्य mfn. allowed in a village , relating to the sensual pleasures of a village MBh. xii , 4069 R. iii f. BhP. iv , vi

ग्राम्य mfn. rustic , vulgar (speech) Va1m. ii , 1 , 4

ग्राम्य mfn. (See. -ताand -त्व)

ग्राम्य mfn. relating to a musical scale W.

ग्राम्य m. a villager Ya1jn5. ii , 166 MBh. xiii BhP. etc.

ग्राम्य m. a domesticated animalSee. -मांस

ग्राम्य m. = म-कोलW.

ग्राम्य n. rustic or homely speech W.

ग्राम्य n. the Prakrit and the other dialects of India as contra-distinguished from the Sanskrit W.

ग्राम्य n. food prepared in a village MBh. i , 3637 Ka1tyS3r. xxii Sch.

ग्राम्य n. sensual pleasure , sexual intercourse MBh. ii , 2270 BhP. iv

ग्राम्य n. = म-ज-निष्पावीL.

"https://sa.wiktionary.org/w/index.php?title=ग्राम्य&oldid=499411" इत्यस्माद् प्रतिप्राप्तम्