ग्रीष्मः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीष्मः, पुं, (ग्रसते रसान् इति । ग्रसु अदने + “ग्रीष्मः ।” उणां । १ । १४९ । इति मक् ग्रीभावश्च घातोः षुगागमश्च निपात्यते ।) ऋतु- विशेषः । (यथा, मनुः । ६ । २३ । “ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः ॥”) “ग्रीष्मे पुनर्भृशौष्ण्योपहतत्वात् शरीरमसुखोप- पन्नं भवति । उष्णवातावध्मातमतिशिथिल- मत्यन्तप्रविलीनदोषं भेषजं पुनः संशोधनार्थ- मुष्णस्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते । तस्मात्तयोः संयोगे संशोधनमतियोगायोप- पद्यते शरीरं पिपासोपद्रवाय ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥ “मयूखैर्जगतः सारं ग्रीष्मे पेपीयते रविः । स्वादुशीतं द्रवं स्निग्धमन्नपानं तदा हितम् ॥ शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः । घृतं पयः स शाल्यन्नं भजन् ग्रीष्मे न सीदति ॥ मद्यमल्पं न वा पेयमथवा सुबहूदकम् । लवणाम्लकटूष्णानि व्यायामञ्चात्र वर्ज्जयेत् ॥ दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतलम् । भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्म्यमस्तके ॥ व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः । सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः ॥ काननानि च शीतानि जलानि कुसुमानि च । ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः ॥” इति च सूत्रस्थाने षष्ठेऽध्याये चरकेणोक्तम् ॥) तत्र जातफलं यथा, कोष्ठीप्रदीपे । “ग्रीष्मोद्भवो भोगभवानुरक्तो वक्ता सुशीलो जलकेलिशीलः । विद्याधनैश्वर्य्ययशोमनोज्ञो धन्वी सुवेशः परदारचित्तः ॥” उष्णः । इति मेदिनी । मे । १० ॥ गर्मि इति तात् इति च भाषा ॥ तद्वति त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=ग्रीष्मः&oldid=499418" इत्यस्माद् प्रतिप्राप्तम्