सामग्री पर जाएँ

घटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटः, पुं, (घटते मृदादिसङ्घातैः जलादिग्रहणाय इत्यर्थः । घट् + पचाद्यच् ।) कलसः । इत्यमरः । २ । ९ । ३२ ॥ (यथा, मनुः । ८ । ३१९ । “यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् । स दण्डं प्राप्नुयान्माषं तच्च तस्मिन् समाहरेत् ॥”) तस्य परिमाणं कलशशब्दे द्रष्टव्यम् ॥ समाधि- भेदः । (घटस्थवारिवत् निश्चलत्वात्तथात्वम् ।) स तु कुम्भकम् । इभशिरः । (आकृतिसादृश्या- त्तथात्वम् ।) कूटकुटः । इति मेदिनी । टे । ७ ॥ कुम्भराशिः । यथा, -- “सिंहे वा यदि गोघटे गतनरः सर्व्वार्थसिद्धिं लभेत् ।” इति समयप्रदीपः ॥ द्रोणपरिमाणम् । इति वैद्यकपरिभाषा ॥ (अस्य पर्य्याया यथा, -- “चतुर्भिराढकैर्द्रोणः कलशोनल्वणोर्म्मलः । उन्मानश्च घटो राशिर्द्रोणपर्य्यायसंज्ञितः ॥” इति शार्ङ्गधरे पूर्ब्बखण्डे प्रथमेऽध्याये ॥ “कंसश्चतुर्गुणो द्रोणः अर्म्मणोनल्वणञ्च तत् । स एव कलशः ख्यातो घट उन्मान मेवच ॥” इति चरके कल्पस्थाने द्वादशेऽध्याये ॥) कुम्भपरिमाणम् । यथा, -- “दशद्रोणो भवेत् खारी कुम्भस्तु द्रोणविंशतिः ।” इति प्रायश्चित्ततत्त्वे कात्यायनः ॥ (योगावस्थाभेदः । यथा, हटयोगप्रदीपिकायाम् । ४ । ६९ । “आरम्भश्च घटश्चैव यथा परिचयोऽपि च । निष्पत्तिः सर्व्वयोगेषु स्यादवस्थाचतुष्टयम् ॥” एतदवस्थायां किं स्यात्तदाह तत्रैव । ४ । ७२-७३ । “द्बितीयायां घटीकृत्य वायुर्भवति मध्यगः । दृढासनो भवेद्योगी ज्ञानी देवसमस्तदा ॥ विष्णुग्रन्थेस्ततो भेदात् परमानन्दसूचकः । अतिशून्ये विमर्द्दश्च भेरीशब्दस्तथा भवेत् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटः [ghaṭḥ], [घट-अच्]

A large earthen water-jar, pitcher, jar, watering-pot; आकाशमेकं हि यथा घटादिषु पृथग्भवेत् Y. 3.144; कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् Bh.2.49.

The sign Aquarius of the zodiac (also called कुम्भ).

An elephant's frontal sinus.

Suspending the breath as a religious exercise.

A measure equal to 2 droṇas.

A part of a column; स्तम्भं विभज्य नवधा वहनं भागो घटो$स्य भागो$न्यः Bṛi. S.53.29.

A border.

A peculiar form of a temple; Bṛi. S.56.18,26.

The head; 'घटः समाधिभेदे ना शिरः कूटकटेषु च' Medinī; Mb.1.155.38. -Comp. -आटोपः covering for a carriage or any article of furniture. -उदरः N. of Gaṇeśa; घटोदरः शूर्पकर्णो गणाध्यक्षो मदोत्कटः Ks.55.165. -उद्भवः, -जः, -योनिः, -संभवः epithets of the sage Agastya.-ऊधस् f. (forming घटोध्नी) a cow with a full udder; गाः कोटिशः स्पर्शयता घटोध्नीः R.2.49. -कञ्चुकि n. a rite practised by Tāntrikas and Śāktas (in which the bodices of different women are placed in a receptacle (घट) and the men present at the ceremony are allowed to take them out one by one and then cohabit with the woman to whom each bodice belongs); Āgamapr.

कर्परः N. of a poet.

a piece of a broken jar, pot-sherd; जीयेय येन कविना यमकैः परेण तस्मै वहेयमुदकं घट- कर्परेण Ghāṭ.22. -कारः, -कृत् m. a potter; Bṛi. S.15. 1;16.29. -ग्रहः a water-bearer. -दासी a procuress; cf. कुम्भदासी. -पर्यसनम् the ceremony of performing the funeral rites of a patita or apostate (who is unwilling to go back to his caste &c.) during his very life-time. -भवः, -योनिः Agastya. -भेदनकम् an instrument used in making pots. -राजः a water-jar of baked clay. -स्थापनम् placing a water-pot as a type of Durgā for nine days (नवरात्रम्).

"https://sa.wiktionary.org/w/index.php?title=घटः&oldid=347296" इत्यस्माद् प्रतिप्राप्तम्