घटिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिका, स्त्री, (पादस्यास्थ्नां ग्रन्थिघटः घटना विद्यतेऽत्र इति । घट + ठन् ।) पादग्रन्थिः । इति शब्दरत्नावली ॥ (घटयति निर्द्दिशति निरूपयति वा कालांशविशेषं लोकयात्रासम्पा- दनाय । घट + णिच् + ण्वुल् + टापि अत इत्वञ्च ।) मुहूर्त्तः । इति जटाधरः ॥ यथा, ज्योतिर्विदाभरणे । “गुर्व्वक्षराणामुदितं च षष्ट्या पलं पलानां षटिका किलैका ॥” यथा, तिथितत्त्वे रघुनन्दनः । “अत्र घटिका मुहूर्त्तं श्राद्धयोग्यकालानुरोधात् ॥”) दण्डः । घडी इति भाषा । यथा, -- “चतस्रो घटिकाः प्रातररुणोदय उच्यते ॥” इति तिथ्यादितत्त्वम् ॥ (घट + स्वल्पार्थे कन् टापि अत इत्वञ्च । क्षुद्र- घटः । यथा, पञ्चतन्त्रे । १ । २०३ । “एता हसन्ति च रुदन्ति च कार्य्यहेतो- र्विश्वासयन्ति च परं न च विश्वसन्ति । तम्मान्नरेण कुलशीलवता सदैव नार्य्यः श्मशानघटिका इव वर्ज्जनीयाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिका¦ स्त्री
“गुर्वक्षराणामुदितं च षष्ट्या पलं पलानां घ-टिका किलैका” इति ज्योतिर्विदाभरणोक्ते

१ षष्टिपलात्मकेदण्डरूपे काले घटयति विहितकार्य्यकरणाय घट-णिच्--ण्वुल्।

२ दण्डद्वयरूपे मुहूर्त्तात्मके काले। अल्पोघटः ङीप् ततः स्वार्थे क।

३ स्वल्पे घटे। इवार्थे कन्।

४ नितम्बे न॰ शब्दच॰।
“चतस्नो घटिकाः प्रातररुणोदयउच्यते। यतीनां स्नानकालोऽयं गङ्गाम्भःसदृशःस्मृतः। त्रियामां रजनी प्राहुस्त्यक्त्वाद्यलचतुष्टयम्। नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” कालमा॰व्रह्मवै॰।
“व्रतोपवासस्नानांदौ घटिकैका यदा भवेत्। उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी” विष्णु-धर्म्मो॰।
“अत्र घटिका सुहूर्त्तं श्राद्धयोग्यकालानु-रोघादिति वक्ष्यते व्रह्मवै॰ घटिकादण्डरूपा परवचनेनाडीनामाद्यन्तचतुष्टयमित्यनुरोधात्” ति॰ त॰ रघु॰।
“त्रिंशत् कलार्क्षी घटिका क्षणः स्यात् नाडीद्वयं तेखगुणैर्दिनञ्च” सि॰ शि॰
“आर्क्षी भचक्रभ्रमस्य षष्टि-भागः घटिका” प्रमिता॰। [Page2781-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिका [ghaṭikā], 1 A small water-jar, bucket, a small earthen vessel; नार्यः श्मशानघटिका इव वर्जनीयाः Pt.1.192; एष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः Mk.1.59.

A measure of time equal to 24 minutes.

A water-pot used in calculating the Ghaṭikās of the day;

The ankle.-Comp. -मण्डलम् the equatorial circle. -यन्त्रम् See घटीयन्त्र.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिका f. a water-jar Mr2icch. x , 55 (59) Sa1h. iii , 146/147

घटिका f. See. टक.

घटिका f. of टकSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a measurement of time. भा. V. २१. 4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GHAṬIKĀ : A measure of time equal to 24 minutes. Sixty vināḍikās make one Ghaṭikā. (See Kālamāna).


_______________________________
*3rd word in left half of page 290 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=घटिका&oldid=429227" इत्यस्माद् प्रतिप्राप्तम्