घटीयन्त्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घटीयन्त्रम्, क्ली, (घट्याः यन्त्रम् ।) कूपाज्जलो- त्तोलनार्थरज्जुसहितघटः । जलतोला कल इति भाषा । तत्पर्य्यायः । उद्थाटनम् २ । इत्यमरः । २ । १० । २७ ॥ (यथा, मार्कण्डेयपुराणे । १२ । २० । “तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः ॥” घटी क्षुद्रघटस्तदधस्तनार्द्धाकारं यन्त्रम् । यद्वा घट्याः दण्डरूपकालस्य ज्ञापकं यन्त्रम् । काल- परिमाणज्ञापको यन्त्रविशेषः । घडी इति ख्यातः ॥ सूर्य्यसिद्धान्ते कालमानज्ञापकयन्त्राणि बहुविधान्युक्तानि । तत्र शङ्कुयष्ट्यादिकं दिवा- कालमानज्ञापकमुक्तवान् । घटीयन्त्रादिकन्तु अहर्निशं कालज्ञानसाधनमिति घटीयन्त्रादिकं सूर्य्यसिद्धान्ते रङ्गनाथेन विस्तीर्य्य प्रदर्शितम् । यथा, -- “अथ घटीयन्त्रादिभिश्चमत्कारियन्त्रैर्वा सर्व्वोप- जीव्यं कालं सूक्ष्मं साधयेदिति कालसाधन- मुपसंहरति ॥” “तोययन्त्रकपालाद्यैर्मयूरनरवानरैः । ससूत्ररेणुगर्भैश्च सभ्यक् कालं प्रसाधयेत् ॥” इति सूर्य्यसिद्धान्तः ॥ अत्र रङ्गनाथकृतटीका यथा, -- “जलयन्त्रञ्च तत् कपालञ्च कपालाख्यं जलयन्त्रं वक्ष्यमाणं तदाद्यं प्रथमं तेषां तैर्यन्त्रैर्वालुका- यन्त्रप्रभृतिभिः सापेक्षघटीयन्त्रैर्मयूरनरवानरैः । मयूराख्यं स्वयंवहयन्त्रं निरपेक्षं नरयन्त्रं शङ्- क्वाख्यं छायायन्त्रं पूर्ब्बोद्दिष्टं वानरयन्त्रं स्वयं- वहं निरपेक्षमेतैः ससूत्ररेणुगर्भैः सूत्रसहिता रेणवो धूलयो गर्भे मध्ये येषां तैः सूत्रप्रोताः षष्टिसंख्यका मृद्घटिका मयूरोदरस्था मुखात् घटिकान्तरेण स्वत एव निःसरन्तीति लोक- प्रसिद्ध्या तादृशैर्यन्त्रैरित्यर्थः । यद्वा सूत्रा- कारेण रेणवः सिकतांशा गर्भे उदरे यस्यै- तादृशं यन्त्रं बालुकायन्त्रं प्रसिद्धम् । तेन सहितै- र्मयूरादियन्त्रमयूराद्युक्तयन्त्रैर्बालुकायन्त्रेण चेति सिद्धोऽर्थः । चकारस्तोययन्त्रकपालाद्यैरित्यनेन समुच्चयार्थकः । कालं दिनगतादिरूपं सम्यक् सूक्ष्मं प्रसाधयेत् । प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्मत्वेने- त्यर्थः । जानीयादित्यर्थः ॥ * ॥ ननु मयूरादि- स्वयंवहयन्त्राणि कथं साध्यानीत्यतस्तत्साधन- प्रकारा बहवो दुर्गमाश्च सन्तीत्याह ॥” “पारदाराम्बुसूत्राणि शुल्वतैलजलानि च । बीजानि पांशवस्तेषु प्रयोगास्तेऽपि दुर्लभाः ॥” अत्र रङ्गनाथकृतटीका यथा, -- “तेषु मयूरादियन्त्रेषु म्वयंवहार्थमेते प्रयोगाः प्रकर्षण योज्याः । प्रकर्षस्तु यावदभिमतसिद्धेः । एते क इत्यत आह । पारदाराम्बुसूत्राणोति पारदयुक्ता आराः । यथा सिद्धान्तशिरोमणौ । लघु काष्ठजसमचक्रे समसुषिराराः समान्तरा नेभ्याम् । लक्षणं कैश्चित् कृतं तद्युक्तिशून्यं दुर्घटं चेत्येतदु- पेक्षितम् । इष्टप्रमाणाकारसुषिरं पात्रं घटी- संज्ञमङ्गीकृतम् । द्युनिशनिमज्जनसङ्ख्यया यदि षट्त्रिंशच्छतानि पानीयपलानि लभ्यन्ते तदै- केन निमज्जनेन किमिति त्रैराशिकम् ।” इति घटीयन्त्रम् ॥ अन्यानि कालमानयन्त्राणि तु यन्त्रशब्दे द्रष्टव्यानि ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घटीयन्त्र नपुं।
सलिलोद्वाहनयन्त्रम्
समानार्थक:उद्घाटन,घटीयन्त्र
2।10।27।2।2
शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः। उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः॥
पदार्थ-विभागः : उपकरणम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घटीयन्त्र¦ न॰ घट्याः दण्डरूपकालस्य ज्ञापकं यन्त्रम्। कालमानज्ञापके यन्त्रभेदे। (घडि) तच्च यन्त्रं नाना-विधं सू॰ सि॰ रङ्गनाथयोर्दर्शितं तत्र दिवसे काल-ज्ञानस्य शङ्कुच्छायादियन्त्रैकसाध्यत्थमुक्त्वा घटीयन्त्रा-दिकं तु अहर्निशतज्ज्ञानसाधनमिति घटीयन्त्रादिक-मेवात्रतत्रोक्तं प्रदर्श्यते यथा
“अथ घटीयन्त्रादिमिश्चमत्कारियन्त्रैर्वा सर्वोपजीव्यं कालंसूक्ष्मं साधयेदिति कालसाधनमुपसंहरति”
“तोययन्त्रकपालाद्यैर्मयूरनरवानरैः। ससूत्ररेणुगर्भैश्चसम्यक् कालं प्रसाधयेत्” सू॰ सि॰।
“जलयन्त्रं तत् कपालं च कपालाख्यं जलयन्त्रं वक्ष्यमाणं[Page2782-a+ 38] तदाद्यं प्रथमं येषां तैर्यन्त्रैर्वालुकायन्त्रप्रभृतिभिः सा-पेक्षघटीयन्त्रैर्मयूरनरगनरैः। मयूराख्यं स्वयंवहयन्त्रंनिरपेक्षं नरयन्त्रं शङ्क्वाख्यं छायायन्त्रं पूर्वोद्दिष्टंवानरयन्त्रं स्वयंवहं निरपेक्षमेतैः ससूत्ररेणुगर्मैः सूत्र-सहिता रेणवो धूलयो गर्भे मध्ये येषां तैः सूत्रप्रोताःषष्टिसङ्ख्याका मृद्वटिता मयूरोदरस्था मुखाद् घटिका-न्तरेण स्वत एव निःसरन्तीति लोकप्रसिद्ध्या तादृशैर्यन्त्रै-रित्यर्थः। यद्वा सूत्राकारेण रेणवः सिकतांशा गर्भेउदरे यस्यैतादृशं यन्त्रं वालुकायन्त्रं प्रसिद्धम्। तेनमहितैर्मयूरादियन्त्रैर्मयूराद्युक्तयन्त्रैर्वालुकायन्त्रेण चेतिसिद्धोऽर्थः। चकारस्तोययन्त्रकपालाद्यैरित्यनेन समु-च्चयार्थकः। कालं दिनगतादिकं सम्यक् सूक्ष्मं प्रसा-धयेत्। प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्मत्वेनेत्यर्थः। जानी-यादिव्यर्थः। ननु मयूरादिस्वयंवहयन्त्राणि कथं साध्या-नीत्यतस्तसाधनप्रकारा वहवो दुर्गमाश्च सन्तीत्याह” र॰ ना॰
“पारदाराम्बुसूत्राणि शुल्वतैलजलानि च। वीजानिपांसवस्तेषु पयोगास्तेऽपि दुर्लभाः” सू॰।
“तेषु मयूरादि-यन्त्रेषु स्वयंवहार्थमेते प्रयोगाः प्रकर्षेण योज्याः। प्र-कर्षस्तु यावदभिमतसिद्धेः। एते क इत्यत आह। पार-दाराम्बुसूत्राणीति। पारदयुक्ता आराः। तथा च सि-द्धान्तशिरोमणौ” लघुकाष्ठगसमचक्रे समसुषिराराः समा-न्तरा नेम्याम्। किञ्चिद्वक्रा योज्याः सुषिरस्यर्धि पृथक्तासाम्। रसपूर्णे तच्चक्रं द्व्याधाराक्षस्थितं स्वयंभ्र-मति”। (
१ ) इति। अब्धु जलस्य प्रयोगः। सूत्राणिसूत्रसाचनप्रयोगः। शुल्वं ताम्रम्। तैलजलानितैलयुक्तजलस्य प्रयोगः। चकारात् तयोः पृथक् प्रयो-गोऽपि। तथा च सिद्धान्तशिरोमणौ
“उत्कीर्य नेमि(
२ )मथवा परितो मदनेन संलग्नम्। तदुपरि तालदलाद्यंकृत्वा सुषिरे रसं क्षिपत् तावत्। यावद्रसैकपार्श्वे क्षि-प्तजलं नान्यतो याति। पिहितच्छिद्रं तदतश्चक्रं भ्र-मति स्वयं जलाकृष्टम्। (
३ ) ताम्रादिमयस्याङ्कुशरूपनल-स्य म्बुपूर्णस्य। एकं कुण्डजलान्तर्द्वितीयमग्रं त्वधो-मुखं च बहिः। युगपन्मुक्तं चेत् कं नलेन कुण्डाद्बहिःपतति। नेम्यां बद्ध्वा घटिकाश्चक्रं जलयन्त्रवत् तथाधार्य्यम्। नलकप्रच्युतसलिलं पतति यथा तद्वटीमध्ये। भ्रमति ततस्तत् सततं पूर्णघटीभिः समाकृष्टम्। चक्र-च्युतं स्वमुदकं कुण्डे याति प्रणालिकया” इति। बीजानिकेवलं तुङ्गवीजप्रयोगाः। पांसवो घूलिप्रयोगास्तैर्युक्ताः। [Page2782-b+ 38] अपिशब्दात् प्रयोगेषु सुगमतरा इत्यर्थः। दुर्लभाः साधा-रणत्वेन मनुष्यैः कर्तुमशक्या इत्यर्थः। अन्यथा प्रतिगृहंस्वयंवहानां प्राचुर्यापत्तेः। इयं स्वयंवहविद्या समु-द्रान्तर्निवासिजनैः फिरङ्ग्याख्यैः सम्यगभ्यस्तेति। कु-हकविद्यात्वादत्र विस्तारानुद्योग इति संक्षेपः। अथकपालाख्यं जलयन्त्रमाह” रङ्गन॰।
“ताम्रपात्रमधश्छिद्रं-न्यस्तं कुण्डेऽमलाम्भसि। षष्टिर्मज्जत्यहोरात्रे स्फुटंयन्त्रंकपालकम्” सू॰
“यत् ताम्रघटितं पात्रमधश्छिद्रमधोभागेछिद्रं यस्य तत्। अमलाम्भसि निर्मलं जलं विद्यतेयस्मिन् तादृशे कुण्डे वृहद्भाण्डे न्यस्तं धारितं सदहो-रात्रे नाक्षत्राहोरात्रे षष्टिः षष्टिवारमेब न न्यूनाधिकंमज्जति अधश्छिद्रमार्गेण जलागमनेन जलपूर्ण्णतयानिमग्नं भवति। तत् कपालकं कपालमेव कपालकंघटखण्डानां कपालपदवाच्यत्वात् घटाधस्तनार्धाकारंयन्त्रं घटीयन्त्रं स्फुटं सूक्ष्मम् तद्घटनं तु।
“शुल्बस्यदिग्भिर्विहितं पलैर्यत् षडङ्गुलोच्चं द्विगुण{??}स्यम्। तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्धप्रतिमं घटी स्यात्। सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका चतुरङ्गुलास्यात्। विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यते नाडिकया-म्बुभिस्तत्” इति व्यक्तम्। भगवता तु सूक्ष्ममुक्तम्। अथ शङ्कुयन्त्रं दिवैव कालज्ञानार्थं नान्यदेत्याह” रङ्गन॰
“नरयन्त्रं तथा साधु दिवा च विमले रवौ। छायासंसाधनैः प्रोक्तं कालसाधनमुत्तमम्” सू॰ सि॰। रङ्गनाथ धतसि॰ शि॰ वाक्यानि प्रमि॰ व्याख्यातानि यथालघुदार्व्विव्यादि (
१ ) ग्रन्थिकीलरहिते लघुदारुमये भ्रम-सिद्धे चक्रे आराः। किंविशिष्टाः। समप्रमाणाः सम-सुषिराः समतौल्याः समोन्तरा नेम्यां योज्याः। ताश्चनद्यावर्तवदेकत एव सर्वाः किञ्चिद्वक्रा योज्याः। ततस्ता-सामाराणां सुषिरेषु पारदस्तथा क्षेप्यो यथा सुषिरार्धमेवपूर्ण्णं भवति। ततो मुद्रिताराग्रं तच्चक्रमयस्कारशाण-वद्द्व्याधारस्थं स्वयं भ्रमति। अत्र युक्तिः। यन्त्रै-कभागे रसो ह्यारामूलं प्रविशति। अन्यभागे त्वाराग्रंधावति। तेनाकृष्टं तत् स्वयं भ्रमतीति” प्रमि॰। उत्कीर्य्येत्यादि
“(
२ ) यन्त्रनेमिं भ्रमयन्त्रेण समन्तादुत्कीर्यद्व्यङ्गुलमात्रं सुषिरस्य वेघो विस्तारश्च यथा भवति तत-स्तस्यु सुषिरस्योपरि तालषत्रादिक मदनादिना संलग्नंकार्य्यम्। तदपि चक्रं द्व्याधाराक्षस्थितं कृत्वोपसिनेम्यां तालदलं बिद्ध्वा सुषिरे रलस्तावत् क्षेप्यो यावत्[Page2783-a+ 38] सुषिरस्याधोभागो रसेन मुद्रितः। पुनरेकपार्श्वे जलंप्रक्षिपेत्। तेन जलेन द्रवोऽपि रसो गुरुत्वात् परतःसारयितुं न शक्यते। अतो मुद्रितच्छिद्रं तच्चक्रंजलेनाकृष्टं खयं भ्रमतीति” प्रमि॰। ताम्रादिमयस्येत्यादि (
३ )
“ताम्रादिधातुमयस्याङ्कुशरूपस्यवक्रीकृतस्य नलस्य जलपूर्णस्यैकमग्रं जलभाण्डेऽन्य-दग्रं बहिरधोमुखं चैकहेलया यदि विमुच्यते तदाभाण्डजलं सकलमपि नलेन बहिः क्षरति। तद्यथाछिन्नकमलस्य कमलिनीनलस्य जलभृद्भाण्डे क्षिप्तस्यजलपूर्णसुषिरस्यैकमग्रं भाण्डाद्बहिरधोमुखं द्रुतंयदि ध्रियते तदा भाण्डजलं सकलमपि नलेन बहि-र्याति। इदं कुक्कुटनाडीयन्त्रमिति शिल्पिनां हर-मेखलिनां च प्रसिद्धम्। अनेन बहवश्चमत्काराः सि-द्ध्यन्ति। अथ चक्रनेम्यां घटीर्बद्धा जलयन्त्रवत् द्व्या-धाराक्षसंस्थितं तथा निवेशयेद्यथा नलकप्रच्युतजलंतस्य घटीमुखे पतति। एवं पूर्णघटीभिराकृष्टं तद्-भ्रमत् केन निवार्य्यते। अथ चक्रच्युतस्योदकस्याधः-प्रणालिकया कुण्डगमने कृते कुण्डे पुनर्जलप्रक्षेपनैर-पेक्षम्” प्रमि॰। विष्णु पु॰ अन्यथा तन्निर्माणप्रकार उक्तो यथा
“नाडिका तु प्रमाणेन कला दश च पञ्च च। उन्माने-नाम्भसः सा तु पलान्यर्द्धत्रयोदश। हेममाषैः कृतच्छिद्राचतुर्भिश्चतुरङ्गुलेः। मागधेन प्रमाणेन जलप्रस्थस्तु सं-स्मृतः” विष्णु॰ पु॰। (
“अम्भस उन्मानेन उन्मीयतेऽनेनेत्युन्मानं पात्रम्। अर्द्धेन योगे त्रयोदश सार्द्धद्वादशेत्यर्थः। उन्मानरूपेणघटितानि सार्द्धद्वादशपर्वाणि सा नाडिका सार्द्धद्वादश-पलता{??}निर्मितपात्रेण सा नाडिका ज्ञातव्येत्यर्थः। किं प्रमाणं तत् पात्रं कार्य्यं तदाह। सार्द्धद्वादशपलजले-न हि मागधदेशप्रस्थः पूर्यते तत्प्रमाणं पात्रं कार्य्यम्इत्यर्थात् सिद्धम्। ननु तथापि पात्रेण कथं नाडिका-ज्ञानं क्रियापरिच्छेद्यत्वात् कालस्येत्याशङ्क्य क्रियासि-द्धये प्रस्थादि विशिनष्टि हेमेति। माषः पञ्चगुञ्जः। हेम्नोमाषैश्चतुर्भिश्चतुरङ्गुलेन शलाकारूपेण रचितैःकृतच्छिद्रा। एतदुक्तं भवति। सार्द्धद्वादशपलताम्र-मयं मागधप्रस्थसंमितमूर्द्ध्वायतं पात्रं चतुर्माषचतुरङ्गुलहेमशलाकया कृताधश्छिद्रं जले स्थापितं तेनछिद्रेण यावता कालेन पूर्यते तावान् कालो नाडिवति। [Page2783-b+ 38] तथाच शुकः
“द्वादशार्द्धपलोन्मानं चतुर्भिद्यतुरङ्गुलैः। स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलप्लुतमिति”। श्रीधरव्याख्या।
६ त॰। ङ्यपोः संज्ञायां ह्रस्वः। घटियन्त्रमप्यत्र
“ततः संसारचक्रेऽस्मिन् भ्राम्यते घटि-यन्त्रवत्” मार्क॰ पु॰। वट्या कूपात् उद्धारणार्थं यन्त्रम्।
२ कूपात् कुम्भोद्धारणार्थे यन्त्रमेदे। घटीयुक्तं यन्त्रं घ-टीयन्त्रं तच्च घटीयुक्तजलोद्धारणयन्त्रं पश्चिमदेशे प्रसि-द्धम्। (जलतोलार कल)।
“कमलपत्रपुटघटितवटीयन्त्र-काणि” काद॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घटीयन्त्र¦ n. (-न्त्रं) The rope and bucket of a well, or any machine for rais- ing water. E. घट effort, and यन्त्र machine.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घटीयन्त्र/ घटी--यन्त्र n. the buckets of a well or any machine for raising water Ma1rkP. (once metrically टि-य्) Vcar. viii , 33 Kuval. 46 (See. अर-घट्ट)
घटीयन्त्र/ घटी--यन्त्र n. a kind of machine to indicate the time with the help of water Sarvad. xv , 314 Gol. xi , 8 Sch.
घटीयन्त्र/ घटी--यन्त्र n. diarrhoea Bhpr. vii , 16 , 24.