घटीयन्त्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटीयन्त्रम्, क्ली, (घट्याः यन्त्रम् ।) कूपाज्जलो- त्तोलनार्थरज्जुसहितघटः । जलतोला कल इति भाषा । तत्पर्य्यायः । उद्थाटनम् २ । इत्यमरः । २ । १० । २७ ॥ (यथा, मार्कण्डेयपुराणे । १२ । २० । “तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः ॥” घटी क्षुद्रघटस्तदधस्तनार्द्धाकारं यन्त्रम् । यद्वा घट्याः दण्डरूपकालस्य ज्ञापकं यन्त्रम् । काल- परिमाणज्ञापको यन्त्रविशेषः । घडी इति ख्यातः ॥ सूर्य्यसिद्धान्ते कालमानज्ञापकयन्त्राणि बहुविधान्युक्तानि । तत्र शङ्कुयष्ट्यादिकं दिवा- कालमानज्ञापकमुक्तवान् । घटीयन्त्रादिकन्तु अहर्निशं कालज्ञानसाधनमिति घटीयन्त्रादिकं सूर्य्यसिद्धान्ते रङ्गनाथेन विस्तीर्य्य प्रदर्शितम् । यथा, -- “अथ घटीयन्त्रादिभिश्चमत्कारियन्त्रैर्वा सर्व्वोप- जीव्यं कालं सूक्ष्मं साधयेदिति कालसाधन- मुपसंहरति ॥” “तोययन्त्रकपालाद्यैर्मयूरनरवानरैः । ससूत्ररेणुगर्भैश्च सभ्यक् कालं प्रसाधयेत् ॥” इति सूर्य्यसिद्धान्तः ॥ अत्र रङ्गनाथकृतटीका यथा, -- “जलयन्त्रञ्च तत् कपालञ्च कपालाख्यं जलयन्त्रं वक्ष्यमाणं तदाद्यं प्रथमं तेषां तैर्यन्त्रैर्वालुका- यन्त्रप्रभृतिभिः सापेक्षघटीयन्त्रैर्मयूरनरवानरैः । मयूराख्यं स्वयंवहयन्त्रं निरपेक्षं नरयन्त्रं शङ्- क्वाख्यं छायायन्त्रं पूर्ब्बोद्दिष्टं वानरयन्त्रं स्वयं- वहं निरपेक्षमेतैः ससूत्ररेणुगर्भैः सूत्रसहिता रेणवो धूलयो गर्भे मध्ये येषां तैः सूत्रप्रोताः षष्टिसंख्यका मृद्घटिका मयूरोदरस्था मुखात् घटिकान्तरेण स्वत एव निःसरन्तीति लोक- प्रसिद्ध्या तादृशैर्यन्त्रैरित्यर्थः । यद्वा सूत्रा- कारेण रेणवः सिकतांशा गर्भे उदरे यस्यै- तादृशं यन्त्रं बालुकायन्त्रं प्रसिद्धम् । तेन सहितै- र्मयूरादियन्त्रमयूराद्युक्तयन्त्रैर्बालुकायन्त्रेण चेति सिद्धोऽर्थः । चकारस्तोययन्त्रकपालाद्यैरित्यनेन समुच्चयार्थकः । कालं दिनगतादिरूपं सम्यक् सूक्ष्मं प्रसाधयेत् । प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्मत्वेने- त्यर्थः । जानीयादित्यर्थः ॥ * ॥ ननु मयूरादि- स्वयंवहयन्त्राणि कथं साध्यानीत्यतस्तत्साधन- प्रकारा बहवो दुर्गमाश्च सन्तीत्याह ॥” “पारदाराम्बुसूत्राणि शुल्वतैलजलानि च । बीजानि पांशवस्तेषु प्रयोगास्तेऽपि दुर्लभाः ॥” अत्र रङ्गनाथकृतटीका यथा, -- “तेषु मयूरादियन्त्रेषु म्वयंवहार्थमेते प्रयोगाः प्रकर्षण योज्याः । प्रकर्षस्तु यावदभिमतसिद्धेः । एते क इत्यत आह । पारदाराम्बुसूत्राणोति पारदयुक्ता आराः । यथा सिद्धान्तशिरोमणौ । लघु काष्ठजसमचक्रे समसुषिराराः समान्तरा नेभ्याम् । लक्षणं कैश्चित् कृतं तद्युक्तिशून्यं दुर्घटं चेत्येतदु- पेक्षितम् । इष्टप्रमाणाकारसुषिरं पात्रं घटी- संज्ञमङ्गीकृतम् । द्युनिशनिमज्जनसङ्ख्यया यदि षट्त्रिंशच्छतानि पानीयपलानि लभ्यन्ते तदै- केन निमज्जनेन किमिति त्रैराशिकम् ।” इति घटीयन्त्रम् ॥ अन्यानि कालमानयन्त्राणि तु यन्त्रशब्दे द्रष्टव्यानि ॥)

"https://sa.wiktionary.org/w/index.php?title=घटीयन्त्रम्&oldid=133083" इत्यस्माद् प्रतिप्राप्तम्