घण्टकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टकः, पुं, (घण्ट + संज्ञायां कन् ।) क्षुपविशेषः । घे~ट्कोण इति भाषा । अस्य मूलगुणाः । कफ- नाशित्वम् । कटुपाकित्वम् । पित्तकारित्वञ्च । इति राजवल्लभः ॥ घण्टकर्णोऽपि पाठः ॥ द्यराटा, स्त्री (द्यण्टयति दीप्यते पूजादिकाले वाद्येन शाभत, घण्टयति शब्दायते वा । घटि दीप्तौ + अच् ततष्टाप् ।) कांस्यनिर्म्मितवाद्य- विशेषः । यथा, स्मृतिः । “सर्व्ववाद्यमयी घण्टा वाद्याभावे नियोजयेत् ॥” “शङ्खो यस्य गृहे नास्ति घण्टा वा गरुडान्विता । पुरतो वासुदेवस्य न स भागवतः कलौ ॥” इति पद्मपुराणे पातालखण्डम् ॥ अथ घण्टामाहात्म्यमुक्तञ्च स्कान्दे श्रीब्रह्म- नारदसंवादे यथा, -- “स्नानार्च्चनक्रियाकाले घण्टानादं करोति यः । पुरतो वासुदेवस्य तस्य पुण्यफलं शृणु ॥ वर्मकोटिसहस्राणि वर्षकोटिशतानि च । वसते देवलोके तु अप्सरोगणसेवितः ॥ सर्व्ववाद्यमयी वण्टा केशवस्य सदा प्रिया । वादनाल्लभते पुण्यं यज्ञकोटिसमुद्भवम् ॥ वादित्रनिनदैस्तूर्य्यगीतमङ्गलनिःखनैः । यः स्नापयति गोविन्दं जीवन्मुक्तो भवेद्धि सः ॥ वादित्राणामभावे तु पूजाकाले हि सर्व्वदा । घण्टाशब्दो नरैः कार्य्यः सर्व्ववाद्यमयी यतः ॥ सर्व्ववाद्यमयी घण्टा देवदेवस्य वल्लभा । तस्मात् सर्व्वप्रयत्नेन घंण्टानादन्तु कारयेत् ॥ मन्वन्तरसहस्राणि मन्वन्तरशतानि च । घण्टानादेन देवेशः प्रीतो भवति केशवः ॥” * ॥ तथा, विष्णुधर्म्मोत्तरे श्रीभगवत्प्रह्लादसंवादे । “शृणु दैत्येन्द्र ! वक्ष्यामि घण्टामाहात्म्यमुत्तमम् । प्रह्लाद ! त्वत्समो नास्ति मद्भक्तो भुवनत्रये ॥ मम नामाङ्किता घण्टा पुरतो मम तिष्ठति । अर्च्चिता वैष्णवगृहे तत्र मां विद्वि दैत्यज ! ॥ वैनतेयाङ्कितां घण्टां सुदर्शनयुतां यदि । ममाग्रे स्थापयेद्यस्तु देहे तस्य वसाम्यहम् ॥ यस्तु वादयते घण्टां वैनतेयेन चिह्निताम् । धूपे नीराजने स्नाने पूजाकाले विलेपने ॥ मामाग्रे प्रत्यहं वत्स ! प्रत्येकं लभते फलम् । मखायुतं गोयुतञ्च चान्द्रायणशतोद्भवम् ॥ विधिवाह्यकृता पूजा सफला जायते नृणाम् । घण्टानादेन तुष्टोऽहं प्रयच्छामि स्वकं पदम् ॥ नागारिचिह्निता घण्टा रथाङ्गेन समन्विता । वादनात् कुरुते नाशं जन्ममृत्युभयस्य च ॥ गरुडेनाङ्कितां घण्टां दृष्ट्वाहं प्रत्यहं सदा । प्रीतिं करोमि दैत्येन्द्र ! लक्ष्मीं प्राप्य यथाधनः ॥ दृष्ट्वानृतं यथा देवाः प्रीतिं कुर्व्वन्त्यहर्निशम् । सुपर्णे च तथा प्रीतिं घण्टाशिखरमास्थिते ॥ स्वकरेण प्रकुर्व्वन्ति घण्टानादं सुभक्तितः । मदीयार्च्चनकाले तु फलं कोट्यैन्दवं कलौ ॥” अन्यत्र च । “घण्टादण्डस्य शिखरे सचक्रं स्थापयेत्तु यः । गरुडं वै प्रियं विष्णोः स्थापितं भुवनत्रयम् ॥ सचक्रघण्टानादन्तु मृत्युकाले शृणोति यः । पापकोटियुतस्यापि नश्यन्ति यमकिङ्कराः ॥ सर्व्वे दोषाः प्रलीयन्ते घण्टानादे कृते हरौ । देवतानां मुनीन्द्राणां पितॄणामुत्सवो भवेत् ॥ अभावे वैनतेयस्य चक्रस्यापि न संशयः । घण्टानादेन भक्तानां प्रसादं कुरुते हरिः ॥ गृहे यस्य भवेन्नित्यं घण्टा नागारिसंयुता । न सर्पाणां तत्र भयं नाग्निविद्युत्समुद्भवम् ॥ यस्य घण्टा गृहे नास्ति शङ्खश्च पुरतो हरेः । कथं भागवतं नाम गीयते तस्य देहिनः ॥” “अतो भगवतः प्रीत्यै घण्टा श्रीगरुडान्विता । संग्राह्या वैष्णवैर्यत्नाच्चक्रेणोपरि मण्डिता ॥ गीतं नृत्यं पुराणादिपठनञ्च प्रशस्यते ॥” इति श्रीहरिभक्तिविलासे ६ विलासः ॥ (घण्टयति दीप्यते कुसुमादिभिरिति । घटि + अच् । स्त्रियां टाप् ।) घण्टापाटलिवृक्षः । इति शब्दरत्नावली ॥ अतिबला । नागबला । इति राजनिर्घण्टः ॥ (अतिबलानागबलाघण्टापाटलि- शब्देष्वासां विवृति र्यथायथं ज्ञातव्या ॥)

"https://sa.wiktionary.org/w/index.php?title=घण्टकः&oldid=133099" इत्यस्माद् प्रतिप्राप्तम्