घण्टाकर्णः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाकर्णः, पुं, (घण्टावत् कर्णो यस्य ।) शिव- गणविशेषः । घे~टु इति ख्यातः । यथा, -- “घण्टाकर्णो गणः श्रीमान् शिवस्यातीवल्लभः ॥” इति शिवपुराणम् ॥ तस्य पूजाविधिर्यथा, -- “चैत्रे मासि च संपूज्यो घण्टाकर्णो घटात्सकः । आरोग्याय स्नुहीमूलं संक्रान्त्यां तत्र कारयेत् ॥” पूजामन्त्रो यथा, -- “घण्टाकर्ण ! महावीर ! सर्व्वव्याधिविनाशन ! । विस्फोटकभये प्राप्ते रक्ष रक्ष महाबल ! ॥” इति तिथ्यादितत्त्वे रविसंक्रान्तिप्रकरणम् ॥ (काशीस्थह्रदविशेषः । यथा, काशीखण्डे । ३३ । १७५ । “इयं हि चित्रघण्टे शी घण्टाकर्णस्त्वयं ह्रदः ॥”)

"https://sa.wiktionary.org/w/index.php?title=घण्टाकर्णः&oldid=133103" इत्यस्माद् प्रतिप्राप्तम्